SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३२७ प्रतिपत्तिः-३, दीव० सिरिकता सिरिचंदा, सिरिनिलया चेव सिरिमहिया।। 'जंबूएणमित्यादि, जम्ब्बाःसुदर्शनायाः पूर्वदिग्भाविनो भवनस्योत्तरतः उत्रपूर्वदिग्भाविनः प्रासादावतंसकस्य दक्षिणतोऽत्र महानेकः कूटः प्रज्ञप्तः, अष्टौ योजनान्यूर्द्धमुच्चैस्त्वेन, मूलेऽष्टी योजनानि विष्कम्भेन मध्ये षड् योजनानि उपरि चत्वारि योजनानि, मूले सातिरेकाणि पञ्चविंशतिर्योजनानि परिक्षेपतः मध्ये सातिरेकाण्यष्टादश योजनानि उपरि सातिरेकाणि द्वादश योजनानिपरिक्षेपतः, तथा सतिमूलेविस्तीर्णो सङ्क्षिप्त उपरितनुकोऽतएव गोपुच्छसंस्थानसंस्थितः सर्वात्मना जम्बूनदमयः, 'अच्छे जाव पडिरूवे' इति प्राग्वत्, स च कूट एकया पद्मवरवेदिकया एकेन वनषण्डेन सर्वतः समन्तात् परिक्षिप्तः, पद्मवरवेदिकावनषण्डवर्णनं प्राग्वत्। ___ 'तस्सण मित्यादि, तस्य कूटस्योपरिबहुसमरमणीयोभूमिभागःप्रज्ञप्तः, सच सेजहानामए आलिंगपुक्खरेइ वा' इत्यादि पूर्ववत्तावद्वक्तव्यो यावत्त णानां मणीनांच शब्दवर्णनम् ।। 'तस्स णमित्यादि, तस्यबहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महदेकंसिद्धायतनंप्रज्ञप्तं, तन्त्र जम्बूसुदर्शनोपरिबिडिमासिद्धायतनसद्दर्श वक्तव्यं यावदष्टोत्तरशतंधूपकडुच्छुकानामिति एवं जम्ब्वाः सुदर्शनायाः पूर्वस्य भवनस्य दक्षिणतो दक्षिणपश्चिमस्य प्रासादावतंसकस्योत्तरतः, तथा दाक्षिणात्यस्य भवनस्य पूर्वतो दक्षिणपूर्वस्य प्रासादावतंसकस्यपश्चिमदिशि, तथा दाक्षिणात्यस्य भवनस्य परतोदक्षिणपश्चिमस्य प्रासादावतंसकस्य पूर्वतः, तथापाश्चात्यस्य भवनस्य पूर्वतो दक्षिणपश्चिमस्य प्रासादावतंसकस्योत्तरतः, तथा पश्चिमस्य भवनस्योत्तरत उत्तरपश्चिमस्य प्रासादवतंसकस्य दक्षिणतः, तथोत्तरस्य भवनस्य पश्चिमायामुत्तरपश्चिमस्य प्रासादावतंसकस्य पूर्वतः, तथोत्तरस्य भवनस्य पूर्वत उत्तरपूर्वस्य प्रासादावतंसकस्यापरतः प्रत्येकमेकैकः कूटः पूर्वोक्तप्रमाणो वक्तव्यः, तेषां च कूटानामुपरि प्रत्येकमेकैकं सिद्धायतनं, तानि च सिद्धायतनानि पूर्ववद्वाच्यानि, उक्ताश्च॥१॥ "अट्ठसहकूडसरिसा सब्वे जंबूनयामया भणिया। तेसुवरि जिणभवणा कोसपमाणा परमरम्मा ॥" 'जंबूए णमित्यादि, जम्ब्वाः सुदर्शनाया द्वादश नामधेयानि प्रज्ञप्तानि, तद्यथामू. (१९२) सुदंसणा अमोहा य, सुष्पवुद्धाजसोधरा। विदेहजंबू सोमणसा, नियया निचमंडिया॥ घृ. 'सुदंसणे'त्यादि, शोभनं दर्शनं दृश्यमानता तस्या नयमनोहारित्वात् सा सुदर्शना १, यथा च तस्याः शोभनदर्शनं तथाऽग्रेस्वयमेव सूत्रकृभावयिष्यति, अमोहाय' इतिमोघं-निष्फलं नमोघा अमोघा अनिष्फला इत्यर्थः, तथाहि-सा स्वस्वामिभावेनप्रतिपन्नासतीजम्बूद्वीपाधिपत्यमुपजनयति, तदन्तरेण तद्विषवस्य स्वामिभावस्यैवायोगात्, ततोऽनिष्फलेति २, ‘सुप्पबुद्धा' इति सुष्ठु-अतिशयेन प्रबुद्धेव प्रबुद्धा मणिकनकरलानां निरन्तरं सर्वतश्चाकचिक्येन सर्वकालमुन्निद्रेति भावः ३, 'जसोहरा' इति यशः सकलभुवनव्यापिधरतीतियशोधरा लिहादित्वादच्, जम्बूद्वीपो हि विदितमहिमा भुवनत्रयेऽप्यनया जम्ब्योपलक्षितस्ततो भवति यथोक्तं यशोधारित्वमस्याः ४। मू. (१९३) सुभद्दा य विसाला य, सुजाया सुमणीतिया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy