________________
३२२
जीवाजीवाभिगमउपासूत्रम् ३/दीव०/१९० ॥२॥ पन्नरसेक्कासीए साहीए परिहिमज्झबाहल्लं ।
जोयणदुछक्ककमसो हायंतंतेसु दो कोसा ।। 'सेण'मित्यादि 'तत् जम्बूपीठमेकय पद्मवरवेदिकयाएकेन वनखण्डेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्तं, वेदिकावनषण्डयोर्वर्णकःप्राग्वद्वक्तव्यः। तस्य च जम्बूपीठस्य चतुर्दिशि एकैकस्यां दिशि एकैकत्रिसोपानप्रतिरूपकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि, तद्यथा-एकं पूर्वस्यामेकं दक्षिणस्यामेकं पश्चिमायामेकमुत्तरस्याम्। तेसिण मित्यादि, तेषांचत्रिसोपानप्रतिरूपकाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-वज्रमयानेमा भूमेरुद्धमुद्गच्छन्तःप्रदेशाइत्यादिजगत्युपरिवाप्यादिविसोपानवत्तावद्वक्तव्यं यावत्रानामणिमयान्यवलम्बनानि अवलम्बनवाहाच, तोरणान्यपि प्राग्वद्वाच्यानि ॥ 'तस्सणंजंबूपेढस्स ण मित्यादि, जम्बूपीठस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, सच से जहानामए आलिंगपुक्खरेइ वा' इत्यादि विजयाराजधान्युपकारिकालयनवत्तावद्वक्तव्यो यावन्मणीनांस्पर्शवक्तव्यतापरिसमाप्ति, यावच्च बहवोवानमन्तरा देवा देव्यश्चासते शेरते यावद् विहरन्तीति 'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारियोजनानि बाहल्येन सर्वात्मना मणिमयी 'अच्छा जाव पडिरूवा' इति प्राग्वत् ।
'तीसेणमित्यादि, तस्यमणिपीठिकायाउपरिबहुमध्यदेशभागे, अत्रमहतीजम्बू: सुदर्शना प्रज्ञप्ता, अष्टौ योजनान्यूर्ध्वमुच्चैस्त्वेन, अर्द्धयोजनमुद्वेधेन, द्वे योजने स्कन्धः षड् योजनानि विडिमा-ऊर्द्धविनिर्गता शाखा बहुमध्यदेशभागेअष्टौयोजनान्यायामविष्कम्भाभ्यांसातिरेकान्यष्टी योजनानि 'सर्वाग्रेण' उद्वेधोच्चैस्त्वपरिमाणमीलनेन, तस्याश्च जम्ब्वा वज्रमयानि मूलानि यस्याः सा वज्रमयमूला ‘रययसुपइट्ठियविडिमा' इति रजता-रजतमयी सुप्रतिष्ठिता विडिमा बहुमध्यदेशमागे ऊर्ध्वं विनिर्गता यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन विशेषणसमासः, 'रिट्ठामयविउल- कंदावेरुलियरुइलखंधा' रिष्ठमयो-रिष्ठरत्नमयः (विपुलः) कन्दो यस्याः सा रिष्ठरलमयकन्दा, तथा वैडूर्यरत्नमयो रुचिरो-दीप्यमानः स्कन्धो यस्या सा वैडूर्यरुचिरस्कन्धा, ततः पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायस्वपढमगविसालसाला' सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यात जातरूपं तदात्मकाः प्रथमका-मूलभूता विशालाः शालाः-शाखा यस्याः सा सुजातवरजात-रूपप्रथमकविशालशालाः।
'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तविंटा' नानामणिरलानांनानामणिरत्लामिका विविधा शाखाप्रशाखा यस्याः सा तथा तथा वैडूर्याणि-वैडूर्यरत्नमयानि पत्राणि यस्याः सा तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि यस्याः सा तथा, ततः पदद्वय २ मीलनेन कर्मधारयः नानामणिरत्नविविधशाखाप्रशाखावैडूर्यपत्रतपनीयपत्रवृन्ताः, अपरे सौवर्णिक्यो मूलशाखाः प्रशाकारजतमय्य इत्युचुः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लवंकुरधरा' जाम्बूनदनामकसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदवो-मनोज्ञाः सुकुमाराः-सुकुमारस्पर्शा येप्रवाला-ईषदुन्मीलितपत्रभावाः पल्लवाः संजातपरिपूर्णप्रथमपत्रभावरूपावराङ्कुराःप्रथममुद्भिद्यमाना अडरास्तान्धरन्तीति जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लवाडरधराः, कवचित्पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org