SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २६७ लादीनि च तदनन्तरं हरिवर्षरम्यकवर्षेषु हरकान्ताहरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकम् उभयतटमृत्तिकां च ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैताद्व्येषु सर्वतुबरादीन् ततो निषधनीलवर्षधरपर्वतेषुसर्वतुबरादीन्तदनन्तरंतद्गतेषु तिगिच्छिकेसरिमहाहदेषुहदोदकमुत्पलादीनि च ततः पर्वविदेहापरविदेहेषु शीताशीतोदामहानदीषु नधुदकम् उभयतटमृत्तिका चतदनन्तरं सर्वेषु चक्रवर्तिविजेतव्येषु मागधवरदामप्रभासाख्यतीर्थेषु तीर्थोदकानितीर्थमृत्तिकाश्च ततः सर्वेषुवक्षस्कारपर्वतेषुसर्वतुबरादीन्तदनन्तरंसस्विन्तरनदीषुनधुदकमुभयतटमृत्तिकाश्च ततोमन्दरपर्वते भद्रशालवने सर्वतुबरादीन् ततो नन्दनवने सर्वतुबरादीन्सरसंच गोशीर्षचन्दनं ततः सौमनसवनेसर्वतुबरादीन्सरसंच गोशीर्षचन्दनं दिव्यंचसुमनोदाम गृह्णन्ति, ततः पण्डकवने सर्वतुबरपुष्पगन्धमा- ल्यसरसगोशीर्षचन्दनदिव्यसुमनोदामानि - “दद्दरमलए सुगंधिए य गिण्हंति इति दर्दरः-चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितं तत्र पकवं वा यन्मलयोद्भवया प्रसिद्धत्वान्मलयं श्रीखण्डं येषु तान् ‘सुगन्धान्' परमगन्धोपेतान् गन्धान् गृह्णन्ति, गृहीत्वा एकत्र मिलन्ति, मिलित्वा तया उत्कृष्टया दिव्यया देवगत्या यत्रैवविजया राजधानी यत्रैवविजयोदेवस्तत्रैवोपागच्छन्ति, उपागत्यच करतलपरिगृहीतां शिरस्या- वर्तिकां मस्तकेऽञ्जलिं कृत्वा विजयं देवं जयेन विजयेन वर्धापयन्ति, वर्धापयित्वा महार्थं महार्ह विपुलमिन्द्राभिषेकयोग्यं क्षीरोदकादि 'उपनयन्ति' समर्पयन्ति । ___'तएणमित्यादि, ततोणमितिवाक्यालङ्कारेतं विजयं देवंचत्वारि देवसामानिकसहस्राणि चतम्रोऽग्रमहिष्यः सपरिवारास्तितः पर्षदोयथाक्रममष्टदशद्वादशदेवसहस्रपरिमाणाः सप्तानीकानि सप्तानीकाधिपतयः षोडश आत्मरक्षदेवसहस्राणि, अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवा देव्यश्चतैः-तद्गतदेवजनप्रसिद्धैः स्वाभाविकै(कुर्विकैश्च वरकमलप्रतिस्थानः सुरभिवरवारिप्रतिपूर्णैश्चन्दनकृतचर्चाकैः ‘आविद्धकण्ठेगुणैः' आरोपितकण्ठे रक्तसूत्रतन्तुभिः पद्मोत्पलपिधान-सुकुमारकरतलपरिगृहीतैरनेकसहस्रसङ्घयैः कलशैरिति गम्यते, तानेवविभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानाम्, अष्टसहस्रेणरूप्यमयानाम्, अष्टसहस्रण मणिमयानाम्, अष्टसहस्रण सुवर्णरूप्यमयानाम्, अष्टसहस्रेण सुवर्णमिणिमयानाम्, अष्टसहलेण रूप्यमणिमयानाम, अष्टसहस्रेण सवर्णरूप्यमणिमयानाम, अष्टसहस्रेण भौमेयानां,सर्वसङ्घययाऽटभिः सहस्रैश्चतुःषष्ठयधिकैः, तथा 'सर्वोदकैः' सर्वतीर्थनद्याधुदकैः सर्वतुबरैः सर्वपुष्पैः सर्वगन्धैः सर्वमाल्यैः सौषधिसिद्धार्थकैश्च।। “सर्वद्धर्या' परिवारादिकया 'सर्वधुत्या' यथाशक्ति विस्फारितेन शरीरतेजसा सर्वबलेन' सामस्त्येन स्वस्वहस्त्यादिसैन्येन 'सर्वसमुदयेन' स्वस्वाभियोग्यादिसमस्तपरिवारेण सर्वादरेण' समस्तयावच्छक्तितोलनेन ‘सर्वविभूत्या' स्वस्वाभ्यन्तरक्रियकरणादिबाह्यरलादिसम्पदा, तथा 'सर्वविभूषया' यावच्छक्तिस्फारोदारश्रृङ्गारकरणेन ‘सव्वसंभमेणं ति सर्वोत्कृष्टेन संभ्रमेण, सर्वोत्कृष्टसंभ्रमो नाम इह स्वनायकविषयबहुमानख्यापनार्थपरा स्वनायककार्यसम्पादयनाय यावच्छक्ति त्वरितत्वरिताप्रवृत्ति, सर्वपुष्पवस्त्रगन्धमाल्यालङ्कारेण, अत्र गन्धाः वासा माल्यानिपुष्पदामानः अलङ्काराःआभरणानि ततः समाहारो द्वन्द्वः, ततः सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दास्तैः सहसर्वशब्देन विशेषणसमासः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy