________________
२६६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१७९ 'हट्टतुट्ठचित्तमानंदियापीइमणा परमसोमनस्सियाहरिसवसविसप्पमाणहिययाकरयलपरिग्गहियं दसनहंसिरसावत्तंमत्थए अंजलिंक?' इतिपूर्ववत्, विनयेन वचनं प्रतिश्रृण्वन्ति' अभ्युपगच्छन्ति, कथम्भूतेन विनयेन? इत्याह-‘एवंदेवा तहत्ति आणाए इतिहे देवाः ! एवं-यथैव यूयमादिशत तथैवाज्ञया-युष्मदादेशेन कुर्म इत्येवंरूपेण प्रतिश्रुत्य वचनमुत्तरपूर्वं दिग्भागमीशानकोणमित्यर्थः तस्यात्यन्तप्रशस्तत्वात् 'अपक्रमन्ति' गच्छन्ति अपक्रम्य च वैक्रियसमुद्घातेन-वैक्रियकरणाय प्रयत्नविशेषेण 'समोहणंति' समवहन्यन्ते समवहता भवन्तीत्यर्थ, समवहताश्चात्मप्रदेशान् दूरतो विक्षिपन्ति, तथा चाह
___ 'संखेज्जाणि जोयणाणि दंडं निसरंति' दण्ड इव दण्ड ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तंशरीरस्य बहि सङ्घयेयानियोजनानियावत् 'निसृजन्ति' निष्काशयन्ति, निसृज्य च तथाविधान् पुद्गलानाददते, एतदेव दर्शयति तद्यथा-'रलानां' कर्केतनादीनां १ वज्राणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लानां ५ हंसगर्भाणां ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानाम् ९ अञ्जनानाम् १०- अञ्जनपुलकानां ११ रजतानां १२ जातरूपाणाम् १३ अङ्गानां १४ स्फटिकानां १५ रिष्ठानां १६, यथाबादरान्-असारान् पुद्गलान् परिशातयन्ति यथासूक्ष्मान्-सारान् पुद्गलान् पर्याददते।
-पर्यादाय च चिकीर्षितरूपनिर्माणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते समवहत्ययथोक्तानां रत्नादीनां योग्यान् यथाबादरान्पुद्गलान् परिशातयन्तियथासूक्ष्मानाददते आदाय च 'अष्टसहस्रम्' अष्टाधिकं सहस्रं सौवर्णिकानां कलशानां विकुर्वन्ति १ अरसहनं रूप्यमयानाम् २ अष्टसहस्रमणिमयानाम् ३ अष्टसह सुवर्णरूप्यमयानाम्४ अष्टसह सुवर्णमणिमयानाम् ५ अष्टसहनं रूप्यमणिमयानाम् ६ अष्टसहस्रं सुवर्णरूप्यमणिमयानाम् ७ अष्टसहनं भौमेयानाम् ८ अष्टसहनं भृङ्गाराणाम् ९, एवमादर्शस्थालपात्रीसुप्रतिष्ठमनोगुलिकावातकरकचित्ररत्नकरण्डकपुष्पचङ्गेरीयावल्लोमहस्तचङ्गेरीपुष्पपटलकयावल्लोमहस्तपटलकसिंहासनच्छत्रचामरसमुद्गध्वजधूपकडुच्छुकानां प्रत्येक प्रत्येमष्टसहस्र विकुर्वन्ति, विकुर्वित्वा -
-'ताए उक्किट्ठाए' इत्यादि पूर्व व्याख्याताई यत्रैव क्षीरोदसमुद्रस्तत्रागच्छन्ति, आगत्य चक्षीरोदकंगृह्णन्ति, यानि च तत्र उत्पलानि पद्मानि कुमुदानि नलिनानि सुभगानि सौगन्धिकानि पुण्डरीकाणि महापुण्डरीकाणि शतपत्राणि सहस्रपत्राणि शतसहस्रपत्राणि च तानि गृह्णन्ति, गृहीत्वा पुष्करोदे समुद्रे समागत्य तत्रोदकमुत्पलदीनि च गृह्णन्ति, तदनन्तरं यत्रैव समयक्षेत्रं यत्रैव भरतैराक्तानि क्षेत्राणियत्रैवच तेषुभरतैरावतेषुवर्षेषुमागधवरदामप्रभासाख्यानि तीर्थानि तत्रैवपागत्य तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु महानदीषु नादकमुभयतटमृत्तिकां च गृह्णन्ति, ततः क्षुल्लहिमवच्छिखरिषु समागत्य सर्वतुबरान् कषायान् सर्वाणिजातिभेदेन पुष्पाणि सर्वान् । 'गन्धान्’ गन्धवासादीन् सर्वाणि माल्यानि-प्रथितादिभेदभिन्नानि सर्वौषधीः सिद्धार्थकांश्च गृह्णन्ति, गृहीत्वा तदनन्तरं पद्महदपुण्डरीकहदेषूपागत्य तदुदकमुत्पलादीनिच गृह्णन्ति, ततोहैमवतैरण्यवतेषुवर्षेषु रोहितारोहितांशासुवर्णकूलारूप्यकूलासु महानदीषु नधुदकमुभयतटमृत्तिकांतदनन्तरंशब्दापातिविकटापातिवृत्तैताट्येषु सर्वतुबरादीन् ततो महाहिमवद्रूपिवर्षधरपर्वतेषु सर्वतुबरादीन्ततो महापद्ममहापौण्डरीकहदेषु हृदोदकमुत्पJain Education International
For Private & Personal Use Only
www.jainelibrary.org