________________
प्रतिपत्तिः-३, दीव०
२५७
श्रवणाः, कनकमय्यो ललाटपट्टिकाः, वज्रमय्यः शीर्षघटिकाः, तपनीयमय्यः केशान्तकेशभूमयः, केशानामन्तभूमयः केशभूमयश्चेति भावः, रिष्ठमया उपरिमूर्द्धजाः केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रघरप्रतिमा हेमरजतकुन्देन्दु (समान) प्रकाशं सकोरिंटमाल्यदामधवलमातपत्रं गृहीत्वा सलीलंघरन्ती तिष्ठति । तासिणंजिणपडिमाणमित्यादि,तासांजिनप्रतिमानांप्रत्येकमुभयोः पार्श्वयो· द्वे चमरधारप्रतिमे प्रज्ञप्ते, 'चंदप्पभवइरवेरुलियनानामणिरयणखचितदंडाओ' इति चन्द्रप्रभ:-चन्द्रकान्तो कजं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचित्तानि येषु दण्डेषुते तथा, एवंरूपाश्चित्राः-नानाप्रकारा दण्डा येषां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात्, सुहुमरययदीहवालाओ' इति सूक्ष्माः-लक्ष्णा रजतस्य-रजतमया वाला येषा तानि तथा, 'संखंककुंददगरयअमयमहियफेणपुंजसन्निकासाओ धवलाओ चामराओ' इति प्रतीतं चामराणि गृहीत्वा सलील वीजयन्त्यस्तिष्ठन्ति ।
'तासि णमित्यादि, तासां जिनप्रतिमानां पुरतो वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमेद्वे द्वे कुण्डधारपरतिमे संनिक्षिप्ते तिष्ठतः, ताश्च सव्वरयणामईओ अच्छाओ' इत्यादि प्राग्वत् । तत्थण'मित्यादि, 'तस्मिन् देवच्छन्दके जिनप्रतिमानांपुरतोऽष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामटशतं सुप्रतिष्ठानामष्टशतं मनोगुलिकानां-पीठिकाविशेषरूपाणामष्टशतंवातकरकाणामष्टशतंचित्राणां रनकरण्डकाणामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानामष्टशतं नरकण्ठानामष्टशतं किंनरकण्ठानामष्टशतंकिंपुरुषकणठानामटशतंमहोरगकण्ठानामष्टशतं गन्धर्वकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणामष्टशतं चूर्णचङ्गेरीणामष्टशतं गन्धचङ्गेरीणामष्टशतं वस्त्र चङ्गेरीणामष्टशतमाभरणचोरीणामष्टशतं लोमहस्तचङ्गेरीणां लोमहस्तका-मयूरपिच्छपुननिकाः अष्टशतं पुष्पपटलकानामष्टशतंमाल्यपटलकानां मुलानि पुष्पाणि ग्रथितानिमाल्यानि अष्टशतंचूर्णपटलकानाम्, एवंगन्धवस्त्रभरणसिद्धार्थलोमहस्तकपटलकानामपि प्रत्येकं प्रत्येकमष्टशतं वक्तव्यम्, अष्टशतं सिंहासनानामटशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्रकानामष्टशतं कोष्ठसमुद्रकानामष्टशतं चोयकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टशतमेलासमुद्गकानामष्टशतंहरितालसमुद्गकानामटशतं हिङ्गुलकसमुद्गकानामष्टशतं मनःशिलासमुद्गकानामष्टशतं अंजनसमुद्गकानां, सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अटशतं ध्वजानाम्, अत्र सङ्गहणिगाथे॥१॥ "वंदनकलसा भिंगारगाय आयंसगा यथाला य ।
पाईओ सुपइट्टा मणगुलिया वायकरगा य ।। ॥२॥ चत्ता रयणकरंडा हयगयनरकंठगायचंगेरी ।
पडला सिंहासणछत्तचामरा समुग्गयक (जु)या य॥ अष्टशतं धृपकडुच्छुकानां संनिक्षिप्तं तिष्ठति ॥ 'तस्स णमित्यादि, तस्य सिद्धायतनस्य उपरि अष्टावष्टौ मङ्गलकानि, ध्वजच्छत्रातिछत्रादीनि तु प्राग्वत् ।।
मू. (१७८) तस्स णं सिद्धाययनस्स णं उत्तरपुरस्थिमेणं एत्थ णं एगा महं उववायसभा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org