SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २५२ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१७४ 'तेणंचेइयरुस्खा' इत्यादि, ते चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवङ्गछत्रोपगशिरीषसप्तपर्णदधिपर्णलोध्रधवचन्दननीपकुटजकदम्बपनसतालतमालप्रियालप्रियमुपारापतरा जूक्षनन्दिवृक्षैः सर्वतः समन्तात्संपरिक्षिप्ताः ।। तेणं तिलगा' इत्यादि, तेतिलका यावन्नन्दिवृक्षामूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्राग्वत्तावद्वक्तव्यं यावदनेकशकटरथयानशिबिकास्यन्दमानिकाप्रतिमोचनासुरम्याइति ।। ते णंतिलगा' इत्यादि, तेतिलका यावन्नन्दिवृक्षा अन्याभिर्बहुभिः पद्मलताभिना'गलताभिरशोकतलताभिश्चम्पकलताभिश्चूलताभिर्वनलताभिर्वासन्तिकालताभिरतिमुक्तकलताभि कुन्दलताभि श्यामलताभिसर्वतः समन्तात्संपरिक्षिप्ताः, ताओणंपउमलयाओजावसामलयाओ निच्चं कुसुमियाओ' इत्यादिलतावर्णनंतावद्वक्तव्ययावत् 'पडिरूवाओं इति, व्याख्या चास्यपूर्ववत्। तेसिण मित्यादि, तेषां चैत्य वृक्षाणामुपरिअष्टावष्टौ मङ्गलानि बहवः, तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं प्रत्येकं मणि पीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्माम्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमय्यः, अच्छा इत्यादि प्राग्वत् ॥ 'तासि ण'मित्यादि तासां मणिपीठिकानामुपरिप्रत्येकं प्रत्येकंमहेन्द्रध्वजःप्रज्ञप्तः, तेच महेन्द्रध्वजा अर्धाष्टमानि' सानि सप्त योजनान्यूमुच्चैस्तेन, अद्धक्रोशं-धनुः सहप्रमाणमुद्वेधेन, अर्द्धक्रोशं- धनुः सहस्रप्रमाणं विष्कम्भेन विस्तारेण, “वइरामयवट्टलठ्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपइट्ठिया" इति वज्रमयावज्ररत्नमयाः तथा वृतं- वर्तुलं लष्टं मनोज्ञं संस्थितं-संस्थानं येषां ते वृत्त लष्ट संस्थिताः, तथा सुश्लिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशानया पाषाण प्रतिमेव सुश्लिष्ट परिघृष्टाः मृष्टाः सुकुमारशानयापाषाणप्रतिमेव सुप्रतिष्ठितामनागप्यचलनान्, 'अनेगवरपंचवण्णकुडभी सहस्स परिमंडियाभिरामाः' अनेकैवरः-प्रधानैः पञ्च वणैः कुडभीसहैः-लघुपताका सहैः परिमण्डिताः सन्तोभिरामा अनेकवरपञ्च वर्णकुऽभी सहन परिमण्डिताभिरामाः “वाउछुयविजयवेजयंती पडागा" छत्ताइछत्तकलिया तुंगागगनतलमनुलिहंतसिहरा पासाईयाजाव पडिरुवा" इति प्राग्वत् 'तेसिणमित्यादि, तेषांमहेन्द्रध्वजानामुपरिअष्टावष्टौमङ्गलकानिबहवः कृष्णचामरध्वजा इत्यादि पूर्ववत् सर्वं वक्तव्यं यावद्बहवः सहस्रपत्रकहस्तका इति ।। 'तेसि णमित्यादि, तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येकं 'नन्दा' नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, 'अर्द्धत्रयोदश' सार्दानि द्वादश योजनानि आयामेन, षड् योजनानि सक्रोशानि विष्कम्भेन, दश योजनान्युद्वेधेन-उण्डत्वेन, 'अच्छासो सहाओरययमयकूड़ाओ' इत्यादिवर्णनं जगत्युपरिपुष्करिणीवन्निरवशेषंवक्तव्ययावत् पासाईयाओउदगरसेणंपन्नत्ताओ' ताश्च नन्दापुष्करिण्यःप्रत्येकं २ पद्मवरवेदिकया प्रत्येकंर वनषण्डेन च परिक्षिप्ताः, तासांचनन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां च वर्णनं तोरणवर्णनं च प्राग्वत् । 'सभाएणंसुहम्माए' इत्यादि, सभायांसुधर्मायांषड् (मनो) गुलिकासहस्राणिप्रज्ञप्तानि, तद्यथा-वे सहने पूर्वस्यां दिशि द्वे पश्चिमायामेकं सहस्रं दक्षिणस्यामेकमुत्तरस्यामिति, एतासुच फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् ॥ ‘सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायां षड्गोमानसिकाः-शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि, तद्यथ-द्वे सहन पूर्वस्यां दिशि द्वे पश्चिमायामेकं दक्षिणस्यामेकमुत्तरस्यामिति, ताखपि फलकवर्णनं नागदन्तवर्णनं घूपघटिकावर्णनं च विजयद्वारवत् । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy