________________
प्रतिपत्तिः - ३, दीव०
२५१
ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्यामर्द्ध योजनं बाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् ।
'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधः - उत्कर्षतः पञ्च धनुःशतानि जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकनिसन्नाओ' इति पर्यङ्कासननिषण्णाः स्तूपाभिमुख्यस्तिष्ठन्ति, तद्यथा - ऋषभा वर्द्धमाना चन्द्रानना वारिषेणा ॥ 'तेसिण' मित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् । तासांच मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यवृक्षाः प्रज्ञप्ताः । ते चैत्यृक्षा अष्टौ योजनान्युर्द्धमुचैस्त्वेन अर्द्धयोजनमुत्सेधेन उण्डत्वेन द्वे योजने उच्चास्त्वेन स्कन्धः स एवार्द्ध योजनं विष्कम्भेन यावद्बहुमध्यदेशभागे ऊर्ध्वं विनिर्गता शाखा सा विडिमा सा षड् योजनान्यूर्द्धमुच्चैस्त्वेन, साऽपि चार्द्ध योजनं विष्कम्भेन, सर्वाग्रेण सातिरेकाण्यष्टौ योजनानि प्रज्ञप्तः । तेषां च चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा- 'वइरामया मूला रययसुपइट्टिया विडिमा' वज्राणि-वज्ररत्नमयानि मूलानि येषां ते वज्रमूला:, तथा रजता रजतमयी सुप्रतिष्ठिता विडिमा - बहुमध्यदेशभागे ऊर्द्धविनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन कर्म्मधारयसमासः ।
'रिट्ठमयकरंदवेरुलियरुचिरखंधी' रिष्ठमयो-रिष्ठरत्नमयः कन्दो येषां ते रिष्ठरत्नमयकन्दाः, तथा वैडूर्यो - वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्म्मधारयसमासः, 'सुजायवरजाय रूवपढमगविसालसाला' सुजातं - मूलद्रव्यशुद्धं वरं प्रधानं यज्ज्ञातरूपं तदात्मका प्रथमका - मूलभूता विशाला शाला- शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशालाः 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तवेंटा' नानामणिरत्नानां नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखाश्च येषां ते तथा, वैडूर्याणि वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत्पदद्वयपदद्वयमीलनेन कर्म्मधारयः ।
जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रक्ता - रक्तवर्णा मृदवो - मनोज्ञाः सुकुमाराः - सुकुमारस्पर्शा ये प्रवाला - ईषदुन्मीलितपत्रभावाः पल्लवाः संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुराः - प्रथममुद्भिद्यमाना अङ्कुरास्तान् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवाङ्कुरधराः, क्वचित्पाठ: 'जंबूनयरत्तमउयसुकुमालकोमलपवालपललवङ्कुरग्गसिहरा' तत्र जाम्बनदानि रक्तानि मृदूनि - अकठिनानि सुकुमाराणि-अकर्कशस्पर्शानि कोमलानि - मनोज्ञानि प्रवालपल्लवाङ्कुराः --यथोदितस्वरूपा अग्रशिखराणि च येषां ते तथा, 'विचित्तमणिरयणसुरभिकुसुमफलभरेण नमियसाला' विचित्रमणिरत्नानि विचित्रमणिरत्नमयानि यानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता- नामं ग्राहिताः शाला:- शाखा येषां ते तथा, सती-शोभना छाया येषां ते सच्छायाः, तथा सतीशोभना प्रभा - कान्तिर्येषां ते सत्प्रभाः, सह उद्घोते वर्तन्ते मणिरत्नानामुदद्योत भावात् सोद्योताः, अधिकं- अतिशयेन नयनमनोनिर्वृतिकराः, अमृतरससमरसानि फलानि येषां ते अमृतरससफलाः 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ।
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org