________________
प्रतिपत्तिः
२४९
शयोजनान्यायामेन षट्सक्रोशानि योजनानि विष्कम्भेन नव योजनानि ऊर्द्धमुच्चैस्त्वेन 'अप्पेगे' त्यादि अनेकेषु स्तम्भशतेषु सन्निविष्टा अनेकस्तंभशतसन्निविष्टा 'अब्मुग्गयसुकयवरवेइया तोरणवररइयसालभंजिया सुसिलिट्ठविसिट्ठलट्टसंठियपसत्थवेरुलियविमलखंभा' अभ्युद्गता - अतिरमणीयतया द्रष्टणां प्रत्यभिमुखमुत्- प्राबल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः, अभ्युद्गता चासौ सुकृता च अभ्युद्गतसुकृता वज्रवेदिका - द्वारमुण्डकोपरि वज्ररत्नमयी वेदिका तोरणं चाभ्युद्गतसुकृतं यत्र सा तथा, तथा वराभि-प्रधानाभि रचिताभि - विरचिताभि रतिदाभिर्वा सालमञ्जिकाभिश्लिष्टा - संबद्धा विशिष्टं प्रधानं लष्टं मनोज्ञं संस्थितं संस्थानं येषां ते • विशिष्टलष्टसंस्थिताः प्रशस्ताः - प्रशंसास्पदीभूता वैडूर्यस्तम्भाः - वैडूर्यरत्नमयाः स्तम्भा यस्यां सा वररचितशालभञ्जिकासुलिष्टविसिष्टसंस्थितप्रशस्तवैडूर्यस्तम्भा ।
.
ततः पूर्वपदेन कर्म्मधारयः, तथा नानामणिकनकरत्नानि खचितानि यत्र स नानामणिकनकरत्नखचितः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, नानामणिकनकरत्नखचितः उज्यलो - निलो बहुसमः - अत्यन्तसमः सुविभक्तो निचितो - निबिडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकरत्नखचितोज्ज्वलबहुसमसुविभक्त (निचितरमणीय) भूमिभागा 'ईहामिगउसहतुरगनरमगरविहवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ता' इति तथा स्तम्भोद्गतया - स्तम्भोपरिवर्त्तिन्या वज्रवेदिकया-वज्ररत्नमय्या वेदिकया परिगता सती याऽभिरामा स्तम्भोदतवज्रवेदिकापरिगताभिरामा 'विज्जाहरजमलजुगलजंतजुत्ताविव अचिसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इतिप्राग्वत् 'कंचणमणिरयणधूभियागा' इति काञ्चनमणिरत्नानां स्तूपिका- शिखरं यस्याः सा काञ्चनमणिरत्नस्तूपिकाका ।
-
दीव०
३,
'नाणाविहपंचवणणघंटापडागपरिमंडियग्गसिहरा' नानाविधाभि-नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभि पताकाभिश्च परि-सामस्त्येन मण्डितमग्रशिखरं यस्याः सा नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरा 'धवला' श्वेता मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुञ्चन्ती 'लाउल्लोइयमहिया' इति लाइयं नाम यद् भूमेर्गोमयादिना उपलेपनम् उल्लोइयं कुष्ठयानां मालस्य च सेटिकादिभिः संमृष्टीकरणं लाउल्लोइयं ताभ्यामिव महिता - पूजिता लाउल्लोइयमहिता, तथा गोशीर्षेण-गोशीर्षनामचन्दनेन सरसरक्तचन्दनेन दद्दरेण - बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला - हस्तका यत्र सा गोशीर्षक सरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितला, तथा उपचितानिवेशिता वन्दनकलशा - मङ्गलकलशा यस्यां सा उपचितवन्दनकलशा 'चंदनघडसुकयतोरणपडिदुवारदेसभागा' इति चन्दनकलशैः सुकृतानि - सुष्ठु कृतानि शोभनानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागे यस्यांसा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागा ।
तथा 'आसत्तोसत्तवट्टवग्घारिय मल्लदामकलावा' इति आ - अवाङ् अधोभूमी सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्व सक्त उत्सक्तः - उल्लोचतले उपरिसंबद्ध इत्यर्थ, विपुलो - विस्तीर्ण वृत्तो- वर्तुलः 'वग्घारिय' इति प्रलम्बितो माल्यदामकलापः - पुष्पामालासमूहो यस्यां सा आसक्तोत्सक्तविपुलवृत्तवग्घारितमाल्यदामकलापा, तथा पञ्चवर्णेन सरसेन सच्छायेन सुरभिणा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org