________________
२३२
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १६८
प्राकृतत्वात्, नवा त्वग् येषां ते नवत्वचः कुशान्ता-दर्भपर्यन्ताः, नवत्वचश्च ते कुशान्ताश्चनवत्वक्कशा न्ताः प्रत्यग्रत्वगदर्भपर्यन्तरूपाणि त्वतिकोमलानि लित्तानि - नम्र ( मन ) शीलानि च केसराणि, क्वचित् सिंहकेसरेति पाठस्तत्र सिंहकेसराणीव केसराणि मध्ये मसूरकाणां तानि नवत्वकुशान्तचिल्ल केसराणि सिंहकेसरेति पाठपक्षे एकस्य केसरशब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसूरकैर्नवत्वक्कुशान्तलिच्च (त्त) केसरैः प्रत्यवस्तृतानि - आच्छादितानि सन्ति यानि अमिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो याच्छिकः प्राकृतत्वात् ।
'आईणगरुयबूरनवणीयतलफासा' इति आजिनकंचर्म्ममयं वस्त्रं तच्च स्वभावादतिकोमलं वति रूतं - कर्पासपक्ष्म बूरो- वनस्पतिवशेषः नवनीतं प्रक्षणं तूलं - अर्कतूलं तेषामिव स्पर्शो येषां तानि तथा, तथा सुविरचितं रजम्नाणं प्रत्येकमुपरि येषां तानि सुविरचितरजम्नणानि 'उवचिय(खोम) दुगुल्लपट्टपडिच्छायणे' इति उपचितं परिकर्म्मितं यत्क्षौमं दुकूलं- कार्पासिकं वस्त्र तव्प्रतिच्छादनं - रजस्राणस्योपरि द्वितीयमाच्छादनं प्रत्येकं येषां तानि तथा, तत उपरि 'रतुंस्यसंवुया' इति रक्तांशुकेन - अतिरमणीयेन रक्तेन वस्त्रण संवृतानि - आच्छादितानि रक्तांशुकसंवृतानि अत एव सुरम्याणि 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ।
'तेसि ण 'मित्यादि, तेषां च सिंहासनानामुपरि प्रत्येकं प्रत्येकं विजयदृष्यं वस्त्रविशेषः प्रज्ञप्तः, आह च मूलटीकाकारः - "विजयदुष्यं वस्त्रविशेष” इति । 'ते ण' मित्यादि, तानि च विजयदूष्याणि 'शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशानि' शङ्खः प्रतीतः कुन्देति - कुन्दकुसुमं दकरजः - उदककणाः अमृतस्य-क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्ज - डिण्डीरोत्क - रस्तत्सन्निकाशानि - तत्समप्रमाणि, पुनः कथम्भूतानि ? इत्यत आह- 'सव्वरयणामया' सर्वात्मना रत्नमयानि 'अच्छा सण्हा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् ।
'तेसि ण' मित्यादि, तेषां - सिंहासनोपरस्थितानां विजयदूष्याणां प्रत्येकं प्रत्येकं बहुमध्यदेशभागे वज्रमयाः वज्ररत्नात्मकाः 'अङ्कृशाः ' अङ्कुशाकारा मुक्तादामावलम्बनाश्रयभूताः प्रज्ञप्ताः, तेषु च वज्रमयेष्वङ्कुशेषु प्रत्येकं प्रत्येकं 'कुम्भानं' मगधदेशप्रसिद्धं कुम्भप्रमाणमुक्तामयं मुक्तादाम प्रज्ञप्तं, तानि च कुम्भाग्राणि मुक्तादामानि प्रत्येकं प्रत्येकमन्यैश्चतुर्भि कुम्भायैर्मुक्तादामभिस्तदर्धोच्चप्रमाणमात्रैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तानि ।
'ते णं दामा तवणिजलंबूसगा नानामणिरयणविविहहारहारउवसोभियसमुदाया ईसिमन्नमन्नमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइजमाणा २ वेइज्जमाणा २ पकंपमाणा पकंपमाणं पझंझमाणा पझंझमाणा ओरालेणं मणुण्णेणं मनहरेणं कण्णमणनि चुइकरेणं ते पएसे सव्वतो समंता आपूरेमाणा सिरीए उवसोभमोणा चिह्नंति' ॥
मू. (१६९) विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो तोरणा पन्नता, ते णं तोरणा नानामणिमया तहेव जाव अट्ठट्टमंगलका य छततातिछत्ता ।। तेसि णं तोरणाणं पुरतो दो दो सालभंजिताओ पन्नत्ताओ, जहेव णं हेट्ठा तहेव ।
तेसि णं तोरणाणं पुरतो दो दो नागदंतगा पन्नत्ता, तेणं नागदंतगा मुत्ताजालंतरूसिया तहेव, तेसु णं नागदंतएसु बहवे किण्हे सुत्तवट्टवग्घारितमल्लदामकलावा जाव चिट्ठति ।
तेसिणं तोरणाणं पुरतो दो दो हयसंघाडगा पन्नत्ता सव्वरयणामया अच्छा जाव पडिरूवा,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International