________________
प्रतिपत्तिः - ३, दीव०
२३१
चरत्नानि - कर्केतनादीनि येषां भक्तिभि - विच्छित्तिभिश्चित्रा - नानारूपा आश्चर्यवन्तो वा नानाविधमणिरलभक्तिविचित्राः 'वाउद्धुयविजयवेजयंतीपडागछत्तातिछत्तकलिया' वातोद्धूता - वायुकम्पिता विजयः अभ्युदयस्तत्संसूचिका वैजयन्तीनामानो (नाम्यो) याः पताकाः, अथवा विजया इतिवैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिछत्राणि - उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्धूतविजयवैयन्तीपताकाछत्रातिच्छत्रकलिताः 'तुङ्गाः ' उच्चा उच्चैस्त्वेन चतुर्योजनप्रमाणत्वात्
*
अत एव ‘गगनतलमणुलिहन्तसिहरा' इति, गगनतलम् - अम्बरम् अनुलिखन्तिअभिलङ्घयन्ति शिखराणि येषां ते गगनतलानुलिखच्छिखराः, तथा जालानि - जालकानि यानि भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, तथा पञ्जराद् उन्मीलिता इव - बहिष्कृता इव यथा हि किल किमपि वस्तु वशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तविनष्टच्छायं भवति एवं तेऽपि प्रासादावतंसका इति भावः, तथा मणिकनकानि - मणिकनकमय्यः स्तूपिकाः – शिखराणि येषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि भित्यादिषु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिषु तैश्चित्रा - नानारूपा आश्चर्यभूता विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्राः अन्तर्बहिश्च श्लक्ष्णाः' मसृणाः, तथा तपनीयंसुवर्ण विशेष स्तन्मय्या वालुकायाः प्रस्तटं प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत् । 'तेसि ण' मित्यादि, तेषां च प्रासादावतंसकानाम् 'उल्लोकाः ' उपरितनभागाः पद्मलता-भक्तिचित्रा अशोकलताभक्तिचित्राश्ञ्चम्पकलताभक्तिचित्राश्धूतलताभक्तिचित्रा वनलता - भक्तिचित्रा वासन्तिकलताभक्तिचित्राः सर्वात्मना तपनीयमयाः 'अच्छा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् 'तेसि ण' मित्यादि, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहा नामए आलिंगपुक्खरे इ वा' इत्यादि समस्तं भूमिवर्णनं मणीनां वर्णपञ्चकसुर- भिगन्धशुभस्पर्शवर्णनं प्राग्वत् ।
7
'तेसि ण' मित्यादि, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं तेषां च सिंहासनानामयमेतद्रूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - रजतमयाः सिंहा तैरुपशोभितानि सिंहासनानि 'सौवर्णिका: ' सुवर्णमयाः पादाः तपनीयमयानि चक्कलानि - पादानामधः प्रदेशाः भवन्ति [मुक्तानानामणिमयानि पादानामधः प्रदेशाः ] प्रयुक्ता, नानामणिमयानि 'पादशीर्षकाणि' पादानामुपरितना अवयवविशेषा जाम्बूनदमयानि गात्राणि ईषदच्छाः 'वज्रमयाः' वज्रनापूरिताः 'सन्धयः' गात्राणां सन्धिमेला नानामणिमयं 'वेचं' वयूतं वानमित्यर्थ, आह च चूर्णिकृत-
“वेच्चे वाणकतेण”मित्यादि, तानि च सिंहासनानि ईहामृगऋषभतुरगनरमकरव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्राणि 'ससारसारोवचियविविहमणिरयमपादपीढा' इति, सारसारैः - प्रधानप्रधानैर्विविधैर्मणिरत्नैरुपचितैः पादीठैः सह यानि तानि तथा, प्राकृतत्वाच्च उपचितशब्दस्यान्तरुपन्यासः, ‘अच्छरमउयमसूरगनवतयकुसन्तलित्तकेसरपञ्चत्थुयाभिरामा' इति, आस्तरक- आच्छादनं मृदु येषां मसूरकाणां तानि आस्तरकमृदूनि, विशेषणस्य परनिपातः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org