________________
२२६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१६७ व्यालरूपकाणिलीलास्थितशालमनिकाच--लीलास्थितपुत्रिकाश्च यस्य तत्तथा 'वाइरामएकूडे' वज्रमयो-वज्ररलमयः कूटो माडभागः रजतमय उत्सेधः-शिखरम्, आह च मूलटीकाकारः
“कूडो-माडभागउच्छ्रयः-शिखर"मिति, केवलं शिखरमत्र तस्यैवमाडभागस्य संबन्धि द्रष्टव्यं न द्वारस्य, तस्य प्रागेवोक्तत्वात्, 'सव्वतवणिज्जमए उल्लोए' सर्वात्मना तपनीयमय उल्लोकः-उपरिभागः 'नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे' इति, मणयो-मणिमया वंशा येषां तानि मणिमयवंशकानि लोहिताक्षा-लोहिताक्षमयाः प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि रजता-रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतत्वात्समासान्तो मकारस्य च द्वित्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्लानि-नानामणिरलमयानिजालपाराणि-गवाक्षापरपरयायाणियस्मिन्द्वारेतत्तथा, पदानामन्यथोपनिपातः प्राकृतत्वात्, 'अंकमया पक्खा पक्खबाहाओ जोईरसामया वंसा वंसकवेल्लुगाय रययामईओपट्टियाओजायरूवमईओ ओहाडणीओवइरामईओउवरिपुंछणीओ सव्वसेयरययामए छा(य)णे' इति पद्मवरवेदिकावद्भावनीयम् ।
'अंकमयकणगकूडतवणिजथूभियागे' इति अकमयं-बाहुल्येनाङ्करत्नमयंपक्षबाह्लादीनामकरलात्मकत्वात् कनकं-कनकमयं कूट-शिखरं यस्य तत् कनककूटं तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपायस्यतत्तपनीयस्तूपिकाकं, ततः पदत्रयस्यपदद्वयमीलनेनकर्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं सेए वरकणगथूभियागे' इति तदेव प्रपञ्चतो भावितमिति ।
सम्प्रति तदेवश्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति-‘सेए' श्वेतं,श्वेतत्वमेवोपमया द्रढयति-'संखतलविमलनिम्मलदधिघणगोखीरफेणरययनिगरप्पगासे' इत विमलं-विगतमलं यत् शङ्कतलंशङ्खस्योपरितनो भामो यश्च निर्मलोदधिघनोघनीभूतं दधिगोक्षीरफेनो रजतनिकरच तद्वप्रकाशः-प्रतिमता यस्य तत्तथा, 'तिलगरयणद्धचंदचित्ते' इतितिलकरलानि-पुण्ड्रविशेषास्तैरर्द्धचन्द्रश्च चित्राणि-नानारूपाणि तिलकार्द्धचन्द्रचित्राणि, क्वचित् संखतलविमलनिम्मलदधिघणगोखीरफेणरययनियरप्पगासद्धचंदचित्ता' इति पाठस्तत्र पूर्ववत् पृथक् पृथग् व्युत्पत्तिं कृत्वा पश्चात्पदद्वयस्य २ कर्मधारयः, 'नानामणिदामालंकिए नानामणयो-नानामणिमयानि दामानि-मालास्तैरलङ्क तं नानामणिदामालङ्कृतम् अन्तर्बहिश्च 'लक्ष्णं' श्लक्ष्णपुद्गलस्कन्धनिपितं तवणिज्जवालुयापस्थडे' इतितपनीयाः-तपनीयमय्योयावालुका:-सिकतास्तासां प्रस्तट:-प्रस्तारो यस्मिन् तत्तथा, 'सुहफासे सस्सिरीयस्वे पासाईए जाव पडिलवे' इति प्राग्वत्
'विजयस्स णं दारस्से' त्यादि, विजयस्य णमिति प्राग्वत् द्वारस्य उभयोः पार्श्वयोरेकैकनैषेधिकीभावेन 'दुहतो' इति द्विघातो द्विप्रकारायां नैषेधिक्यां, नैषेधिकी-निषीदनस्थानम्, उक्तंच मुलटीकाकारेण-"नैषेधिकी निषीदनस्थान"मिति प्रत्येकं द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती, तेच चन्दनकलशाः 'वरकमलपइट्वाणा' इति वरं-प्रधानं यत्कमलं तत्प्रतिष्ठानं आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाकाः-चन्दनकृतोपरागाः 'आविद्धकंठेगुणा इतिआविद्धः-आरोपिताः कण्ठेगुणो-रक्तसूत्ररूपोयेषुतेआविद्धकण्ठेगुणाः, कण्ठेकालवत्सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इति पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधानाः 'सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् ‘महयामहया' इति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org