SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २२५ प्रतिपत्तिः -३, दीव० वृ. 'कहिणंभंते!' इत्यादि, कन भदन्त! जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं?, भगवानाह-गौतम! जम्बूद्वीपे मन्दरस्यपर्वतस्य 'पुरच्छिमेणं'तिपूर्वस्यां दिशि पञ्चचत्वारिंशदयोजनसहस्रप्रमाणया अबाधया' अपान्तरालेन योजम्बूद्वीपस्य पुरच्छिमे पेरंते' इतिपूर्व पर्यन्तो लवणसमुद्रपूर्वार्द्धस्य 'पञ्चत्थिमेणं ति पश्चिमे भागे सीताया महानद्या उपरि 'अत्र' एतस्मिन् प्रदेशे जम्बूद्वीपस्य द्वीपस्य विजयंनाम द्वारंप्रज्ञप्तम्, अष्टौ योजनानि उच्चैस्त्वेन चत्वारियोजनानि विष्कम्भेन, 'तावइयंचेवपवेसेणं तितावन्त्येव चत्वारीत्यर्थः योजनानि प्रवेशेन, कथम्भूतमित्यर्थ,: 'सेए' इत्यादि, श्वेतं श्वेतवर्णोपेतं बाहल्येनाङ्करलमयत्वात् वरकणगथूमियाए' इतिवरकनकावरकनकमयी स्तूपिका-शिखरं यस्यतद्वरकनकस्तुपिकाकम्, 'ईहामियउसभतुरगनरमगरविहगवालगकिनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते खंभुग्गयवरवेइयापरिगयाभिरागे विजाहरजमलजुगलजंतंजुत्ते इव अच्चीसहस्समालणीएवगसहस्सकलिए मिसमाणे मिब्मिसमाणे चक्खुल्लोयणलसे सुहफासे सस्सिरीयरूवे' इति विशेषणजातं प्राग्वत् । 'वण्णोदारस्स तस्सिमो होइ' इति वर्ण' वर्णकनिवेशो द्वारस्य तस्य' विजयाभिधानस्य 'अयं वक्ष्यमाणो भवति, तमेवाह-'तंजहे' त्यादि, तद्यथा-वज्रमया नेमा-भूमिभागादूचं निष्कामन्तः प्रदेशा रिष्ठमयान प्रतिष्ठानानि-मूलपादाः 'वेरुलियरुइलखंभे' इति वैडूर्यावैडूर्यरत्नमयारुचिराः स्तम्मा यस्य तद्वैडूर्यरुचिरस्तम्भं जायरूवोवचियपवरपंचवण्णमणिरयणकुट्टिमतले' इति जातरूपेण-सुवर्णेनोपचितैः-युक्तैः प्रवरैः प्रधानैः पञ्चवर्णैर्मणिभिःचन्द्रकान्तादिभिरत्नैः कर्केतनादिभि कुट्टिमतलं-बद्धभूमितलं यस्य तत्तथा हंसगब्भमए एलुगे' इति हंसगर्भो-रलविशेषस्तन्मय एलको-देहली ___-'गोमेजमयइंदकीले' इति गोमेयकरलमय इन्द्रकी लोहिताक्षरलमय्यौ द्वारपिण्डी(चेटयौ)-द्वारशाखे जोइरसामए उत्तरंगे इतिज्योतीरसमयमुत्तरङ्ग-द्वारस्योपरितिर्यगव्यवस्थितं काष्ठं वैडूर्यमयौ कपाटौ लोहिताक्षमय्यो-लोहिताक्षरत्नात्मिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः ‘वइरामया संधी' वज्रमयाः ‘सन्धयः' सन्धिमेलाः फलकानां, किमुक्तंभवति?-वज्ररत्नापूरिताः फलकानांसन्धयः, 'नानामणिमया समुग्गया' इतिसमुद्गका इव समुद्गकाः-सूतिकागृहाणि तानि नानामणिमयानि 'वइरामय अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, आह च मूलटीकाकारः “अर्गलाप्रासादा यत्रार्गला नियम्यन्ते" इति, एतौ द्वावपि वज्ररत्नमयौ, 'रययामयी आवत्तणपेढिया' इति आवर्तनपीठिका यत्रेन्द्रकीलिका, उक्तं च मूलटीकायाम् “आवर्तनपीठिका यत्रेन्द्रकीलको भवति" 'अंकुतरपासाए' इति अङ्का अङ्करलमया उत्तरपार्वा यस्य तद् अङ्कोत्तरपार्श्व 'निरंतरियघमकवाडे' इति निर्गता अन्तरिका लध्वन्तररूपा ययोस्ती निरन्तरिकौ अतएव घनौ कपाटी यस्य तन्निरन्तरघनकपाटं 'भित्तिसुचेव भित्तिगुलिया छप्पन्ना तिन्नि होति' इति तस्य द्वारस्योभयोः पार्श्वयोर्भित्तिषु-भित्तिगता भित्तिगुलिकाःपीठकसंस्थानीयास्तिम्न षट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः, 'नानामणिरयणवालरूवगली. लट्टियसालभंजियाए' इति इदं द्वारविशेषणं, नानामणिरत्लानि-नानामणिरत्नमयानि [9] 35 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy