________________
२०२
जीवाजीवाभिगमउपासूत्रम् ३/दीव०/१६३ इत्याह-'सर्वरलमयानि' सर्वात्मना रलमयानि, 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् 'महयावासिक्कछत्तसमाणा' इति 'महान्ति' महाप्रमाणानि वार्षिकाणि-वर्षाकाले यानि पानीयरक्षणार्थं कृतानि तानि वार्षिकाणि तानि च तानिछत्राणि च तत्समानानि च प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! -
से एएणलेण'मित्यादि, तदेतेनार्थेन गौतम! एवमुच्यते पद्मवरवेदिका पद्मवरवेदिकेति तेषु तेषु यथोक्तरूपेषु प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमितिभावः, व्युत्पत्तिश्चैवं-पद्मवरा पद्मप्रधाना वेदिका पद्मवरवेदिका पद्मवरवेदिकेति॥
'पउमवरवेइया णं भंते ! किं सासया ?' इत्यादि, पद्मवरवेदिका णमिति पूर्ववत किं शाश्वती उताशाश्वती?, आबन्ततया सूत्रे निर्देशःप्राकृतत्वात्, किं नित्या उतानित्येति भावः, भगवानाह-गौतम! स्यात् शाश्वती स्यादशाश्वती-कथञ्चिन्नित्या कथञ्चिदनित्येत्यर्थः, स्याच्छन्दो निपातः कथञ्छिदित्येदर्थवाची । ‘से केणतुणं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौ०! 'द्रव्यार्थतया द्रव्यास्तिक-नयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्विकमभिमन्यते नपर्यायान्,द्रव्यंचान्वयि परिणामित्वाद्, अन्यथाद्रव्यत्वायोगाद्, अन्वयित्वाच्चसकलकालभावीति भवति द्रव्यार्थतया शाश्वती, वर्णपर्यायैः' तदन्यसमुत्पद्यमानवर्णवशेषरूपैरेवं गन्धपर्याय रसपर्यायः स्पर्शपर्यायैः, उपलक्षणमेतत्तदन्यपुद्गलविचटनैश्चाशाश्वती, किमुक्तं भवति ? -पर्यायास्तिकनयमतेन पर्यायप्राधान्यविवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया वा विनाशित्वात्, ‘से एएणटेण'मित्यादि उपसंहारवाक्यं सुगमं, इह द्रव्यास्तिकनयवादी स्वमत-प्रतिस्थापनार्थमेवमाह-नात्यन्तासत उत्पादो नापि सतो विनाशो, 'नासतो विद्यते भावो, नाभावो विद्यते सत' इतिवचनात्, यौतु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्रं यथा सर्पस्योत्कणत्वविफणत्वे, तस्मात्सर्वं वस्तु नित्यमिति ।
एवं च तन्मतचिन्तायां संशयः-किं घटादिवद्रव्यार्थतया शाश्वती उत सकलकालमे वंरूपा ? इति, ततः संशयापनोदा) भगवन्तं भूयः पृच्छति–'पउमवरवेइया णमित्यादि, पद्मवरवेदिका णमिति पूर्ववद् ‘भदन्त!' परमकल्याणयोगिन्! 'कियच्चिरं कियन्तं कालं यावद्भवति?, एवंरूपा कियन्तं कालमवतिष्ठते? इति, भगवानाहगौतम! न कदाचित्रासीत्सर्वदैवासीदिति भावः, अनादित्वात्, तथा न कदाचिन भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः, सदैव भावात्, तथा न कदाचिन्न भविष्यति, किन्तु भविष्यचिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति- 'भूविं चेत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वाद् 'ध्रुवा' मेर्वादिवध्रुवत्वादेव सदैव स्वस्वरूपे नियता, नियतत्वादेवच शाश्वती' शश्वद्भवनस्वभावा, शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोच्चटनसम्भवाद् ‘अक्षया' न विद्यते क्षयो-यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः साऽक्षया, अक्षयत्वादेव अव्यया' अव्ययशब्दवाच्या, मनागपिस्वरूपचलनस्य जातुचिदप्यसम्भवात्, अव्ययत्वादे स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताद् बहि समुद्रवत्, एवं स्वस्वप्रमाणे सदाऽवस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org