________________
प्रतिपत्तिः-३, दीव०
१९५ दीवसमुद्दा पन्नत्ता' इति आकारभावः-स्वरूपविशेषः कस्याकारभावस्य प्रत्यवतारो येषां ते किमाकारभावप्रत्यक्ताराः, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः,णमितिपूर्ववद्, द्वीपसमुद्राः प्रज्ञप्ताः ?, किं स्वरूपं द्वीपसमुद्राणामिति भावः, अनेन स्वरूपविशेषविषयः प्रश्नः कृतः,
___ भगवानाह- 'गोयमे त्यादि, गौ०!जम्बूद्वीपादयो द्वीपा 'लवणादिकाः' लवणसमुद्रादिकाः समुद्राः, अनेन द्वीपानांसमुद्राणां चादिरुक्तः, एतच्चापृष्टमपि भगवता कथितमुत्तरत्रोपयोगित्वात् गुणवतेशिष्यायापृष्टमपिकथनीयमितिस्थापनार्थंच, 'संठाणतो इत्यादि, संस्थानतः' संस्थानमाश्रित्य 'एगविहिविहाणा' इति एकविधि-एकप्रकारं विधानं येषां ते एकविधिविधानाः, एकस्वरूपा इतिभावः,सर्वेषांवृत्तसंस्थानसंस्थितत्वाद्, 'विस्तारतः' विस्तारमधिकृत्य पुनरनेकविधिविधानाः अनेकविधानि-अनेकप्रकाराणि विधानानि येषां ते तथा, विस्तारमधिकृत्य नानास्वरूपा इत्यर्थः, तदेव नानास्वरूपत्वमुपदर्शयति-'दुगुणादुगुणे पडुप्पाएमाणा २ पवित्थरमाणा' इति, द्विगुणं द्विगुणं यथा भवति एवं प्रत्युत्पद्यमाना गुण्यमाना इत्यर्थः, 'प्रविस्तरन्तः' प्रकर्षेण विस्तारं गच्छन्तः तथाहि-जम्बूद्वीप एकंलक्ष लवणसमुद्रो वेलक्षेधातकीखण्डश्चत्वारि लक्षाणीत्यादि, 'ओभासमाणवीचीया' इतिअवभासमाना वीचयः-कल्लोला येषां तेअवभासमानचीचयः, इदं विशेषणं समुद्राणां प्रतीतमेद ।
द्वीपानामपि च वेदितव्यं, तेष्वपि हृदनदीतडागादिषु कल्लोलसम्भवात्, तथा बहुभिरुत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डीकशतपत्रसहनपत्रैः ‘पप्फुल्ल'त्ति प्रफुल्लैः-विकसितैः 'केसरे तिकेसरोपलक्षितरुपचिताः-उपचितशोभाका बहूत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापौण्डरीकशतपत्रसहस्रपत्रप्रफुल्लकेसरोपचिताः, तत्रोत्पलं-गर्दभकं पद्म-सूर्यविकासि कुमुदं-चन्द्रविकासि नलिनम्-ईषद्रक्तं पद्मं सुभगं--पद्मविशेषः सौगन्धिकं-कल्हारं पीण्डरीकं -सिताम्बुजं तदेव बृहत्मपौण्डरीकंशतपत्रसहनपत्रे-पद्मविशेषी पत्रसङ्ख्याकृतभेदी, पत्तेयं २' इति प्रतिशब्दोऽत्राभइणउख्ये 'लक्षणेनाभिप्रती आभिमुख्ये' इति च समासस्ततो वीप्साविवक्षायां प्रत्येकशब्दस्य द्विवचनं पद्मवरवेदिकापरिक्षिप्ताः प्रत्येक वनखण्डपरिक्षिप्ताश्च । 'सयंभूरमणप्जवसाणा' इति जम्बूद्वीपादयो द्वीपाः स्वयम्भूरमणद्वीपपर्यवसाना लवणसमुद्रादयः समुद्राः स्वयम्भूरमणसमुद्रपर्यवसाना अस्मिन् तिर्यग्लोके यत्र वयं स्थिता असङ्खयेया द्वीपसमुद्राः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! इह 'अस्सिं तिरियलोए' इत्यनेन स्थामुक्तम्, 'असंखेज्जा' इत्यनेन सङ्घयानं, 'दुगुणादुगुण मित्यादिनामहत्वं 'संठाणतो' इत्यादिना संस्थानम् ॥ सम्प्रत्याकारभाप्रत्यवतारं विवक्षुरिदमाह
मू. (१६२) तत्थ णं अयं जंबुद्दीवे नामंदीवे दीवसमुद्दाणं अभिंतरिए सव्वखुड्डाए बट्टे तेल्लापूयसंठाणसंठिते वट्टे रहचक्कवालसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुत्रचंदसंठाणसंठिते, एकजोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस य सहस्साइं दोन्नि य सत्तावीसे जोयणसते तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलकं च किंचिविसेसाहियं परिक्खेवेणं पन्नत्ते ।। से णं एक्कए जगतीए सव्यतो समंता संपरिखित्ते॥
साणं जगती अट्ठ जोयणाई उह उच्चत्तेणं मूले बारस जोयणाई विखंभेणं माझे अट्ठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org