________________
१९४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/३०/१६० तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादिषु प्रतिकृतित्वेन स्थितानि तिलकाश्च-मित्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राणि, तथा नानामणिमयीभिर्दामभिरल तानिनानामणिमयदामाल तानि, तथाऽन्तर्बहिश्च श्लक्ष्मानि-मसृणानि, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या रुचिराया वालुकायाः-सिकतायाः प्रस्तट:-प्रतरो येषु तानि तपनीयरुचिरवालुकाप्रस्तटानि, तथा सुखस्पर्शानि शुभस्पर्शानि वा शेषं प्राग्वद् यावद् ‘बहस्सइचंदा' इत्यादि।
बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चरराहुधूमकतुबुधाङ्गारकाः तप्ततपनीयकनकवर्णाईषत्कनकवर्णा, तथा ये ग्रहा ज्योतिष्के ज्योतिश्चक्रचारंचरन्ति केतवःयेच बाह्यद्वीपसमुद्रेष्वगतिरतिकाः येचाष्टाविंशतिविधा नक्षत्रदेवगणास्ते सर्वेऽपिनानाविधसंस्थानसंस्थिताःचशब्दात्तप्ततपनीयकनकवर्णाश्च, तारकाः पञ्चवर्णा, एतेचसर्वेऽपि स्थितलेश्या अवस्थिततेजोलेश्याकाः, तथायेचारिणः-चाररतास्तेऽविश्राममण्डलगतिकाः,तथासर्वेऽपिप्रत्येकं नामाङ्केन-स्वस्वनामापातेन प्रकटितं चिह्न मुकुटो येषां ते प्रत्येकं स्वनामाङ्कप्रकटितमुकुटचिह्नाः, किमुक्तं भवति?
चन्द्रस्य स्वमुकुटे चण्द्रमण्डलं लाञ्छनं स्वनामाङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य ग्रहमण्डलं नक्षत्रस्य नक्षत्रमण्डलंतारकस्य तारकाकारमिति,शेषप्राग्वत्पर्षनिरूपणार्थमाह'सूरस्सणं भंते!' जोइंदिस्स जोइसरन्नो कइ परिसाओपन्नत्ताओ?,गोयमा ! तिन्नि परिसाओ पन्नताओ, तंजहा-तुंबा तुडिया पेच्चा, अभितरिया तंबा मज्झिमिया तुडिया बाहिरिया पेचा, सेसं जहा कालस्स, अट्ठो जहा चमरस्स, चन्दस्सवि एवं चेव पाठसिद्धं । ज्योतिष्कास्तिर्यग्लोक इति तिर्यगलोकप्रस्तावाद्दीपसमुद्रवक्तव्यतामाह
- देवाधिकार अन्तर्गतः द्वीपसमुद्र अधिकार:मू. (१६१) कहि णं भंते! दीवसमुद्दा? केवइया णं भंते ! दीवसमुद्दा ? केमहालया णं भंते ! दीवसमुद्दा? किंसंठियाणंभंते! दीवसमुद्दा? कीमाकारभावपडोयाराणंभंते! दीवसमुद्दा गंपन्नत्ता? गोयमा! जंबुद्दीवाइयादीवालवणादीया समुद्दा संठाणतो एकविहविधाणा वित्यारतो अनेगविधविधाणा दुगुणादुगुणे पडुप्पाएमाणा २ पवित्थरमाणा २ ओभासमाणवीचीया बहुउप्पलपउमकुमुदणलिणसुभगसोगंधियपोंडरीयमहापोंडरीयसतपततसहस्सपत्तपप्फुलकेसरोवचिता पत्तेयं पत्तेयं पउमवरवेइयापरिखित्ता पत्तेयं पत्तेयंवनसंडपरिक्खित्ता अस्सिंतिरितलोए असंखेजा दीवसमुद्दा सयंभुरमणपजवसाणा पन्नता समणाउसो!॥
वृ. 'कहिणं भंते ! दीवसमुद्दा' इत्यादि, 'कव' कस्मिन् णमिति वाक्यालङ्कारे 'भदन्त !' परमकल्याणयोगिन् ! द्वीपसमुद्राः प्ररूपिता?,अनेन द्वीपसमुद्राणामवस्थानं पृष्टं, 'केवइयाणं भंते ! दीवसमुद्दा' इति 'कियन्तः' कियत्सङ्ख्याका णमिति वाक्यालङ्कारे भदन्त ! द्वीपसमुद्राः प्रज्ञप्ताः?,अनेन द्वीपसमुद्राणां सङ्ख्यानं पृष्टं, 'केमहालियाणं भंते ! दीवसमुद्दा' इति किं महाना लय-आश्रयो व्याप्यक्षेत्ररूपो येषां ते महालयाः किंप्रमाणमहालया णमिति प्राग्वद्वीपसमुद्राप्रज्ञप्ताः ?, किंप्रमाणं द्वीपमसुद्राणां महत्वमिति भावः, एतेन द्वीपसमुद्राणामायामादिपरिमाणं पृष्टं, तथा 'किंसंठियाणंभंते! दीवसमुद्दा' इति किं संस्थितं-संस्थानं येषांते किंसंस्थिता णमिति पूर्व भदन्त ! द्वीपसमुद्राः प्रज्ञप्ताः?, अनेन संस्थानं पप्रच्छ, 'किमागारभावपडोयाराणं भंते!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org