________________
प्रतिपत्तिः - ३, दे०
Trust - कपोलौ यैस्तानि मृष्टगण्डानि कर्णपीठानि - आभरणविशेषरूपाणि धारयन्तीत्येवंशीला अङ्गदकुण्डलमृष्टगण्डकर्णपीठधारिणः, तथा विचित्राणि - नानारूपाणि हस्ताभरणानि येषां ते विचित्रहस्ताभरणाः । तथा 'विचित्तमालामउलिमउडा' इति, विचित्रामाला - कुसुमम्नग् मौलौमस्तके मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः, तथा कल्याणक-कल्याणकारि प्रवरं वस्त्रं परिहितं यैस्ते कल्याणकवस्त्रपरिहिताः, सुखादिदर्शनान्निष्ठान्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणकं- कल्याणकारि यत् प्रवरं मालंय- पुष्दाम यच्चानुलेपनं तद्धरन्तीत कल्याणकप्रवरमाल्यानुलेपनधराः, तथा भास्वरा - देदीप्यमाना बोन्दिशरीरं येषां ते भास्वरबोन्दयः, तथा प्रलम्बत इति प्रलम्बा या वनमालां तां धरन्तीति प्रलम्बवनमालाधराः ।
दिव्येन 'घर्णेन' कृष्णादिना 'दिव्येन गन्धेन' सुरभिणा 'दिव्येन स्पर्शेन' मृदुस्निग्धादिरूपेण दिव्येन शक्तिविशेषमपेक्ष्य संहननेनेव संहननेन न तु साक्षात्संहननेन, देवानां संहननासम्भवात्, संहननं हि अस्थिरचनात्मकं, न च देवानामस्थीनि सन्ति, तथा चोक्तं प्रागेव - "देवा असंघयणी तेसिं नेव सिरा" इत्यादि, 'दिव्येन संस्थानेन' समचतुरस्ररूपेण भवधारणीयशरीरस्य, तेषामन्यसंस्थानासम्भवात्, 'दिव्यया ऋद्धया' परिवारादिकया 'दिव्ययाद्युत्या' इष्टार्थसंप्रयोगलक्षणया, 'अभिगमने ' इतिवचनात् 'दिव्यया प्रभया' भवनावासगतया 'दिव्यया छायया' समुदायशोभया 'दिव्येनार्चिषा' स्वशरीरगतरत्नादितेजोज्वालया 'दिव्येन तेजसा' शरीरप्रभवेन 'दिव्यया लेश्यया' देवर्णसुन्दरतया दश दिशः 'उदद्योतयन्तः' प्रकाशयन्तः 'पभासेमाणा' इति शोभयन्तस्ते भवनवासिनो देवा णमिति वाक्यालङ्कारे 'तंत्र' स्वस्थाने 'साणं साणं' ति स्वेषां स्वेषामात्मीयात्मीयानां भवनावासशतसहस्रणां स्वेषां स्वेषां सामानिकसहस्रणां स्वेषां स्वेषां त्रायस्त्रिंशकानां स्वेषां स्वेषां लोकपालानां स्वासां स्वासाम् 'अग्रमहिषीणा' पट्टराज्ञीनां स्वेषां स्वेषामनीकानां स्वेषां स्वेषामकाधिपतीनां स्वेषां स्वेषामात्मरक्षदेवसहस्रणाम्, अन्येषां च बहूनां स्वस्वभवनावासनगरीवास्तव्यानां भवनवासिनां देवानां देवीनां च ।
१७९
- 'आहेवच्च' मित्यादि, अधिपतेः कर्म्म आधिपत्यं रक्षेत्रय्थः, सा च रक्षा सामानेयनापि (आ) रक्षकेणेव क्रियते तत आह- पुरस्य पति पुरपतिस्तस्य कर्म्मपौरपत्यं सर्वेषामात्मीयानामग्रेसरत्वमिति भावः तच्चाग्रेसरत्वं नायकत्वमन्तरेणापि नायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्यर्थमाह- 'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावो नायकत्वमित्यर्थः, तदपि च नायकत्वं कथञ्चित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्य, तत आह- 'भर्तृत्वं' पोषकत्वमत एव महत्तरकत्वं, तदपि महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि संभवति यथा कस्यचिद्वणिजः स्वदासदासी प्रति, तत आह
'आणाईसरसेणावच्चं' आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पति सेनापति आज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म्म आज्ञेश्वरसेनापत्यं स्वस्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भावः कारयन्तोऽन्यैर्नियुक्तकैः पुरुषैः पालयन्तः स्वयमेव, महता रयेणेति योगः, , 'आहय' इति आख्यानकप्रतिबद्धानि यदिवा 'अहतानि' अव्याहतानि नित्यानुबन्धीनीति भावः ये नाट्यगीते नाट्यं - नृत्यं गीतं गानं यानि च वादितानि तन्त्रीतलतालत्रुटितानि तन्त्री - वीणा तलौ-हस्ततलौ तालः -- कंसिका त्रुटितानि --वादित्राणि, तथा यश्च घनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्र घनमृदङ्गो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org