________________
१७७
प्रतिपत्तिः -३, दे० तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथाउपचिता-निवेशिताःचन्दनकलशामङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि, 'चंदणघडसुकयोतोरणपडिदुवारदेसभागा' इतिचन्दनघटैः चनद्नकलशैः सुकृतानि शोभितानीति तात्पर्यार्थयानि तोरणानितानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभाग-द्वारदेशभागे येषु तानि चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि। तथा आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलावा' इतिआ–अवाङ्अधोभूमौ सक्त-आसक्तो भूमौ लग्न इत्यर्थऊर्ध्वंसक्त उत्सक्तः उल्लोचतले उपरिसंबद्ध इत्यर्थ विपुलोविस्तीर्णो वृत्तो-वर्तुलः 'वग्धारिय' इति प्रलम्बितो माल्यदामकलापः-पुष्पमालासमूहो येषु तानि आसक्तोसक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणासुरभिगन्धेन मुक्तेन-क्षिप्तेन पुष्पपुअलक्षणेनोपचारेण-पूजया कलितानि पञ्चवर्णसुरभिमुक्तपुष्पपुओपचारकलितानि, तथा कालागुरु-प्रसिद्धः प्रवरः-प्रधानः कुन्दुरुष्कः-चीडा तुरुष्कं-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुष्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्कामि तेषां धूपस्य यो मधमधायमानो गन्ध उद्भूत-इतस्ततो विप्रसृतस्तेनाभिरामाणि-रमणीयानि कालागुरुप्रवरुकन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धुताभिरामाणि।
तथा शोभनो गन्धो येषां ते सुगन्धाः ते च ते वरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषां गन्धः स एष्वस्तीति सुगन्धवरगन्धगन्धिकानि 'अतोऽनेकस्वरा'दितीकप्रत्ययः, अत एव गन्धवर्तिभूतानि, सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथाऽप्सरोगणानां सङ्कः-समुदायस्तेन सम्यग-रमणीयतयाविकीर्णानि-व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानामातोद्यानां-वेणुवीणामृदङ्गानां ये शब्दास्तैः संप्रणदितानि-सम्यकश्रोत्रमनोहारितया प्रकर्षेण सर्वकालं नदितानि-शब्दवन्ति दिव्यत्रुटितशब्दसंप्रणदितानि सर्वरलमयानि सर्वात्मना सामस्त्येन रत्नमयानि न त्वेकदेशेन सर्वरत्नमयानि-समस्तरलमयानि।
-अच्छानि-आकाशस्फटिकवदतिस्वच्छानिश्लक्ष्णानि श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि लक्ष्णदलनिष्पन्नपटवत् लण्हानि-मसृणानिघुण्टितपटवत् घट्ठा इतिघृष्ठानीवघृष्टानिखरशानया पाषाणप्रतिमावत्, ‘भट्ठा' इति मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमावदेव, अत एव नीरजांसिस्वाभाविकरजोरहितत्वात् निर्मलानि' आगन्तुकमलासम्भवात् निष्पकानि कलङ्गविकलानि कर्दमरहितानि वा निक्ककड्च्छाया' इति निष्कङ्कटा-निष्कवचा निरावरणा निरुपघातेति भावार्थछाया-दीप्तिर्येषांतानिनिष्कङकटच्छायानि 'सप्रभाणि स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गतकिरणजालानि सोद्दयोतानि' बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि 'प्रासादीयानि' प्रसादाय-मनःप्रसत्तयेहितानि मनःप्रसत्तिकारीणीति भावः, तथा 'दर्शनीयानि दर्शनयोग्यानि यानि पश्यतश्चक्षुषीन श्रमं गच्छतइतिभावः, 'अभिरुवा' इति अभि-सर्वेषां द्रष्टणां मनःप्रसादानुकूलतयाऽभिमुखं रूपं येषां तानि अभिरूपाणि-अत्यन्कमनीयानीत्यर्थः अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवमिव रूपं येषां तानि प्रतिरूपाणि ।तदेवं भवनस्वरूपमुक्तमिदानीं यत्पृष्टं कभदन्त!' भवनवासिनो देवाः परिवसन्तीति तत्रोत्तरमाह-'तत्थ णं बहवे भवणवासी देवा परिवसंति असुरा नागा भेदो भाणियव्वो जाव 912]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org