________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ /म० /१४५
१७०
कंदर- सन्तिसेलोवट्टाणभवणगिहेसु सनिक्खित्ताइं चिट्ठति, नो तिणट्टे समट्टे ।
एगुरुयदीवे णं भंते! दीवे मणुयाणं केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! जहन्नेणं पलिओवमस्स असंखेजइभागं असंखेज्जतिभागेण ऊणगं उक्कोसेण पलिओवमस्स असंखेज्जतिभागं । ते णं भंते! मणुया कालमासे कालं किच्चा कहिं गच्छंति कहिं उववज्र्ज्जति ?, गोयमा ! ते णं मणुया छम्मासावसेसाउया मिहुणताइं पसवंति अउणासीइं राइंदियाई मिहुणाई सारक्खति संगोविंति य, सारक्खित्ता २ उस्ससित्ता निस्ससित्ता कासित्ता अक्कट्ठा अव्यहिता अपरियाविया | पलिओवमस्स असंखिज्जइभागं परियाविय) सुहंसुहेणं कालमासे कालं किया अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवन्ति, देवलोयपरिग्गहा णं ते मणुयगणा पन्नत्ता समणाउसो !!
कहिणं भंते! दाहिणिल्लाणं आभासियमणुस्साणं आभासियदीवे नामं दीवे पन्नत्ते ?, गोयमा ! जंबूद्दीवे दीवे चुल्लहिमवंतस्स वासधरपव्वतस्स दाहिणपुरच्छिमिल्लातो चरिमंतातो लवणसमुदं तिन्नि जोयण० सेसं जहा एगुरूयामं निरवसेसं सव्वं ।
कहि णं भंते! दाहिणिल्लाणं नंगोलिमणुस्साणं पुच्छा, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपव्व० उत्तरपुरचछिमिल्लातो चरिमंतातो लवणसमुद्दे तिजोयणसताई सेसं जहा एगुरुयमणुस्साणं । कहि णं भंते! दाहिणिल्लाणं वेसाणियमणुस्साणं पुच्छा, गो० ! जंबूद्दीवे दीवे मंद० पव्व० दाहिणेणं चुल्लहिमवंतस्स वासधरपव्व० दाहिणपञ्च्चत्थिमिल्लाओ चरिमंताओ लवणसमुद्दं तिन्नि जोयण० सेसं जहा एगुरुयाणं ।
वृ. ' एगोरुयदीवरस णं भंते!' इत्यादि, एकोरुकद्वीपस्य णमिति पूर्ववत् भदन्त ! 'कीदृशः ’ क इव दृश्यः 'आकारभावप्रत्यवतारः' भूम्यादिस्वरूपसम्भवः प्रज्ञप्तः ?, भगवानाह - गौतम ! एकोरुकद्वीपे 'बहुसमरमणीयः' प्रभूतसमः सन् रम्यो भूमिभागः प्रज्ञप्तः । ' से जहानामए आलिंगपुक्खरे वा' इत्यादिरुत्तरकुरुगमस्तावदनुसर्त्तव्यो यावदनुसञ्जनासूत्रं, नवरमत्र नानात्विदं मनुष्या अष्टौ धनुःशतान्युच्छ्रिता वक्तव्याश्चतुःषष्टि पृष्ठकरण्डकाः - पृष्ठवंशाः, बृहत्प्रमाणानां हि ते बहवो भवन्ति, एकोनाशीतिं च रात्रिन्दिवानि स्वापत्यान्यनुपालयन्ति, स्थितिस्तेषां जघन्येन देशोनः पल्योपमासङ्घयेयभागः, एतदेव व्याचष्टे - पल्योपमासद्वयेय भागन्यूनः उत्कर्षतः परिपूर्ण पल्योपमासत्येयभागः । 'कहिणं भंते!' इत्यादि, क भदन्त ! दाक्षिणात्यानामाभाविकमनुष्याणामाभाधिकद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन- दक्षिणस्यां दिशि क्षुल्लहिमवतो वर्षधरपर्वतस्य पूर्वस्माच्चरमान्तात् 'दक्षिणपूर्वेण' दक्षिणपूर्वस्यां दिशि लवणसमुद्रं क्षुल्लहिमवद्दंष्ट्राया उपरि त्रीणि योजनशतान्यवगाह्यात्रान्तरे दंष्ट्राया उपरि दाक्षिणात्यानामा- भाषिकमनुष्याणामाभाषिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेषवक्तव्यता एकोरुकवद्वक्तव्या यावत्स्थितिसूत्रम् ॥
'कहि णं भंते!' इत्यादि, क्व भदन्त ! दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मंदरस्य पर्वतसय 'दक्षिणेन' दक्षिणस्यां दिशि क्षुल्लहिमवतो वर्षधरपर्वतस्य पाश्चात्याच्चरमान्ताद् 'दक्षिणपश्चिमेन' दक्षिणपश्चिमायां दिशि लवणसमुद्रं त्रीणि योजनशतान्यवगाह्यात्रान्तरे इंष्ट्राया उपरि दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेषं यथैकोरुकाणां तथा वक्तव्यं यावत्स्थितिसूत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org