SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६० जीवाजीवाभिगमउपाङ्गसूत्रम् ३/म०/१३८ तंजहा-सम्मत्तकिरियं वा मिच्छत्तकिरियं वा ।। वृ. 'अन्नउत्थिया णं भंते !' इत्यादि, 'अन्ययूथिकाः' अन्यतीर्थिका भदन्त ! चरकादय एवमाचक्षते सामान्येन ‘एवं भाषन्ते' स्वशिष्यान् श्रवणं प्रत्यभिमुखानवबुध्य विस्तरेण व्यक्तं कथयन्ति, एवं 'प्रज्ञापयन्ति प्रकर्षेण ज्ञापयन्ति यथा स्वात्मनि व्यवस्थितंज्ञान तथा परेष्वप्यापादयन्तीति, एवं प्ररूपयन्ति तत्वचिन्तायामसंदिग्धमेतदिति निरूपयन्ति, इह खल्वेको जीव एकेन समयेन युगपवेक्रिये प्रकरोति, तद्यथा सम्यक्त्वक्रियाच सुन्दराध्यवसायात्मिकां मिथ्यात्वक्रियाच' असुन्दराध्यवसायात्मिका, 'जंसमयमिति प्राकृतत्वात्सप्तम्यर्थे द्वितीया यस्मिन् समये सम्यक्त्वक्रया प्रकरोति तंसमय'मिति तस्मिन् समये मिध्यात्वक्रिया प्रकरोति, यस्मिन् समये मिथ्यात्वक्रिया प्रकरोति तस्मिन् समये सम्यक्त्वक्रियांप्रकरोति, अन्योऽन्यसंवलितोभयनियमप्रदर्शनार्थमाह-सम्यक्त्वक्रियाप्रकरणेन मिथ्यात्वक्रिया प्रकरोति मिथ्यात्वक्रियाप्रकरणेन सम्यक्त्वक्रियाप्रकरोति, तदुभयकरणस्वभावस्य तत्तक्रियाकरणात्सर्वात्मना प्रवृत्तेः, अन्यथाक्रियाऽयोगादिति, ‘एवं खल्वि'त्यादि निगमनं प्रतीतार्थं से कहमेयं भंते!' इत्यादि, तत्कथमेतद्भदन्त ! एवम्?, तदेवं गौतमेन प्रश्ने कृते सति भगवानाह-गौतम! यत्णमिति वाक्यालङ्कारे 'अन्याथिकाः' अन्यतीर्थिका एवमाचक्षते इत्यादि प्राग्वत् यावत्तत् मिथ्या ते एवमाख्यातवन्तः । अहं पुनर्गौतम! एवमाचक्षे एवं भाषेएवं प्रज्ञापयामि एवंप्ररूपयामि, इह खल्वेकोजीव एकेनसमयेनैकां क्रियां प्रकरोति, तद्यथा-सम्यक्त्वक्रियांवामिथ्यात्वक्रियांवा, अतएव यस्मिन् समयेसम्यक्त्वक्रियांप्रकरोतिनतस्मिन् समयेमिथ्यात्वक्रियाप्रकरोतियस्मिन्समयेमिथ्यात्वनियां प्रकरोतिनतस्मिन् समयेसम्यक्त्वक्रियांप्रकरोति, परस्परवैविक्त्यनियमप्रदर्शनार्थमाह- सम्यक्त्वक्रियाप्रकरणेन न मिथ्यात्वक्रियांप्रकरोति मिथ्यात्वक्रियाप्रकरणेन न सम्यक्त्वक्रियांप्रकरोति, सम्यक्त्वक्रियामिथ्यात्वक्रिययोः परस्परपरिहारावस्थानात्मकतयाजीवस्य तदुभयकरणस्वभावत्वायोगात्, अन्यथा सर्वथा मोक्षाभावप्रसक्तेः, कदाचिदपि मिथ्यात्वानिवर्तनात् ।। तृतीय प्रतिपतौ-तिर्यंचयोनिकस्य उद्देशकः-२ समाप्तः -: मनुष्य अधिकारःव्याख्यातस्तिर्यग्योनिजाधिकारः, सम्प्रति मनुष्याधिकारव्याख्यावसरः, तत्रेदमादिसूत्रम् मू. (१४०) से किंतं मणुस्सा?, मणुस्सांदुविहा पन्नत्ता, तंजहा०-समुच्छिममणुस्साय गब्भवक्कंतियमणुस्सा य ॥ से किं तं समुच्छिममणुस्सा?, २एगागारा पन्नता । कहि णं भंते ! संमुच्छिममणुस्सा संमुच्छंति?, गोयमा ! अंतोमणुस्सखेत्ते जहा पन्नवणाए जाव सेत्तं समुच्छिममणुस्सा ।। वृ. 'से किंत'मित्यादि, अथ के ते मनुष्याः?, सूरिराह-मनुष्या द्विविधाः प्रज्ञप्तास्तद्यथासंमूर्छिममनुष्याश्च गर्भव्युत्क्रान्तिकमन० चशब्दौ द्वयानामपि मनुष्यत्वजातितुल्यतासूचकौ । 'सेकिंत'मित्यादि, अथकेतेसंमूर्छिममनुष्याः?,सूरिराह-संमूर्छिममनुष्याः 'एकाकारः' एकस्वरूपाः प्रज्ञप्ताः । अथ क तेषं सम्भवः ? इति जिज्ञासिषुर्गौतमः पृच्छति 'कहिणंभंते!' इत्यादि, क भदन्त! संमूर्छिममनुष्याः संमूर्छन्ति?, भगवानाह–अन्त Jain Education International For Private & Personal Use Only ... www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy