SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, ति०-उद्देशकः१ १५३ तथा चत्वारि स्थलजानां' कोरण्टकादीनां जातिभेदेन, चत्वारि महागुल्मिकादीनांजात्यादीनां, चत्वारि 'महावृक्षाणां मधुकादीनामिति । 'कइणमित्यादि, कति भदन्त! वल्लयः ? कति वल्लिशतानि प्रज्ञप्तानि?, भगवानाह-गौतम ! चतम्रोवल्लयम्रपुष्यादिमूलभेदेन, ताश्चमूलटीकाकृतावैविक्त्येन व्याख्याता इति संप्रदायादवसेयाः, चत्वारि वल्लिशतान्येवावान्तरजातिभेदेन । 'कइण मित्यादि, कति भदन्त! लताः कति लताशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! अष्टौ लता या मूलभेदेन ता अपि संप्रदायादवसातव्याः, मूलटीकाकारेणाव्याख्यानात्, अष्टौ लताशतानि प्रज्ञप्तानि, अवान्तरजातिभेदेन । 'कइ णमित्यादि, कति भदन्त ! हरितकायाः कति हरितकायशतानि प्रज्ञमानि?, भगवानाह-गौतम!त्रयो हरितकायाः प्रज्ञप्ताः-जलजाः स्थलजाउभयजाः, एकैकस्मिन् शतमवान्तभेदानामिति, त्रीणि हरितकायशतानि । 'फलसहस्संचेत्यादि, फलसहस्लंच 'वुन्तबन्धानां' वृन्ताकप्रभृतीनां फलसहनच नालबद्धानां, 'तेऽवि सव्वे' इत्यादि, तेऽपि सर्व भेदा अपिशब्दादन्येऽपितथाविधाः 'हरितकायमेव समवतरन्ति' हरितकयेऽन्तर्भवन्ति हरितकायोऽपिवनस्पती वनस्पतिरपि स्थावरेषु स्थावरा अपि जीवेषु, तत एवं समनुगम्यमाना २ स्तथा जात्यन्तर्भावेन स्वत एव सूत्रतः, तथा समनुग्राह्यमाणाः समनुग्राह्यमाणाः परेण सूत्रतएव, तथा समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणा अनुप्रेक्षया अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः समनुचिन्त्यमानास्तथा तथा तन्त्रयुक्तिभि, एतयोरेव द्वयोः काययोः समवतरन्ति, तद्यथा त्रसकायेचस्थावरकायेच, 'एवामेव' इत्यादि, एवमेव' उक्तेनैवप्रकारेण 'सपुवावरेणं' पूर्वंचापरंचपूर्वापरंसह पूर्वापरंयेन ससपूर्वापरः उक्तप्रकारस्तेन, उक्तविषयपौर्वापर्यालोचनयेति भावार्थ, 'आजीवगदिलुतेणं ति आ-सकलजगदभिव्याप्तया जीवानां यो दृष्टान्तः-परिच्छेदः स आजीवसृष्टान्तस्तेन सकलजीवदर्शनेनेत्यर्थः, आह च मूलटीकाकारः “आजीवधष्टान्तेन सकलजीवनिदर्शनेने"ति, चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहनापि भवन्तीत्याख्यातं मयाऽन्यैश्वऋषभादिभिरिति, अत्रचतुरशीतिसङ्खयोपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्रणि वेदितव्यानि, तथाहि-पक्षिणां द्वादश जातिकुलकोटियोनिप्रमुखशतसहस्राणि भुजगपरिसणां नव उरगपरिसणांदश चतुष्पदानां दशजलचराणामर्द्धत्रयोदशानिचतुरिन्द्रियाणां नवत्रीन्द्रियाणामष्टो द्वीन्द्रियाणां सप्त पुष्पजातीनां षोडश, एतेषां चैकत्रमीलनेत्रिनवतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि सार्द्धानि भवन्ति, ततश्चतुरशीतिसङ्ग्योपादानमुपलक्षणमवसेयं, न चैतद् व्याख्यानं स्वमनीषिकाविजृम्भितं । यत उक्तं चूर्णी-'आजीवगदिलुतेणं'ति अशेषजीवनिदर्शनेन चउरासीजातिकुलकोडि योनिप्रमुखशतसहना एतत्प्रमुखा अन्येऽपि विद्यन्ते इति ॥ कुलकोटिचारणे विशेषाधिकाराद्विमानान्यप्यधिकृत्य विशेषप्रश्नमाह मू. (१३३) अस्थि णं भंते ! विमाणाई सोत्थीयाणि सोत्थियावत्ताई सोत्थियपभाई सोत्थियकताई सोत्थियवन्नाई सोत्थियलेसाई सोत्थियज्झयाइं सोत्थिसिंगाराइं सोस्थिकूडाई सोत्थिसिट्ठाइं सोत्थुत्तरवळिसगाई?, हंता अस्थि। तेणं भंते! विमाणा केमहालता प०? गोयमा ! जावतिए णं सूरिए उदेति जावइएणं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy