________________
प्रतिपत्तिः-३, ति०-उद्देशकः १
१५१ छगणयोनौकृमकुलंकीटकुलं वृश्चिककुलमित्यादि, अथवाजातिकुलमित्येकंपदं, जातिकुलयोन्योश्च परस्परं विशेषः एकस्यामेव योनावनेकजातिकुलसम्भवात् । तद्यथा-एकस्यामेव छगणयोनी कृमिजातिकुलं कीटजातिकुलं वृश्चिकजातिकुलमित्यादि, एवं चैकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवाहाणि जातिकुलानि संभवन्तीत्युपपद्यते, खचरपञ्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुलकोटिशतसहस्राणि, अत्र सङ्ग्रहणिगाथा॥१॥ "जोणीसंगहेस्सादिट्ठी नाणे य जोग उवओगे।
उववायठिईसमुग्घाय चयणंजाई कुलविही उ॥" अस्या अक्षरगमनिका-प्रथमं योनिसङ्गहद्वारं ततो लेश्याद्वारं ततो टिद्वारमित्यादि । 'भुयगाणं भंते!' इत्यादि, भुजगानां भदन्त! कतिविधो योनिसङ्ग्रहःप्रज्ञप्तः?, इत्यादिपक्षिवत् सर्व-निरवशेषं वक्तव्यं, नवरं स्थितिच्यवनकुलकोटिषु नानात्वं, तद्यथा-स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनम्-उद्वर्तना, तत्र नरकगतिचिन्तायामधोयावद्दितीयापृथिवी उपरियावत्सहस्रारः कल्पस्तावदुत्पद्यते, नव तेषां जातिकुलकोटियोनिप्रमुखशतसहस्राणिप्रज्ञप्तानि । एवमुरःपरिसाणामपि वक्तव्यं, नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पञ्चमी पृधिवीति वक्तव्यं, कुलकोटिचिन्तायां दशजातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि ।
___ 'चउप्पयाण'मित्यादि, चतुष्पदानांभदन्त! कतिविधोयोनिसङ्ग्रहः प्रज्ञप्तः?, भगवानाहगौतम! द्विविधो योनिसङ्ग्रहःप्रज्ञप्तः, तद्यथा-पोतजाःसंमूर्छिमाश्च, इह येऽण्डजव्यतिरिक्ता गर्भव्युत्क्रन्तास्तेसर्वेजरायुजा अजरायुजा वा पोतजा इति [पूर्वमपि विवक्षिताः परमत्रतु सर्वेऽपि गर्भव्युत्क्रान्तिकाः पोतजतया] विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रह उक्तः, अन्यथा गवादीनां जरायुजत्वात् तृतीयोऽपि जरायु लक्षणो योनिसङ्ग्रहो वक्तव्यः स्यादिति, तत्र येतेपोतजास्तेत्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाच, तत्रयेते संमूर्छिमास्ते सर्वेनपुंसकाः, शेषद्वारकलापःपूर्ववत्, नवरं स्थितिर्जघन्येनान्तर्मुहूर्त-मुत्कर्षतस्त्रिणिपल्योपमानि, व्यवनद्वारेऽधश्चिन्तायां यावच्चतुर्थी पृथिवी ऊर्ध्वं यावत्सहसारः, जातिकुलकोटियोनिप्रमुखशतसहसण्यत्रापि दश । 'जलचराणा'मित्यादि, जलचराणां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ?, भगवानाह- गौतम ! त्रिविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा-अण्डजाः पोतजाः संमूर्छिमाच, अण्डजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाश्च, पोतजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाच, तत्र येते संमूर्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलापचिन्ता प्राग्वत्, नवरंस्थितिच्यवन-जाति-कुलकोटिषुनानात्वं, स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽधश्चिन्तायां यावत्सप्तमी ऊर्ध्व यावत्सहनारः, कुलकोटियोनिप्रमुखशतसहस्राणि अर्द्धत्रयोदश सार्द्धानि द्वादशेत्यर्थः।
'चउरिंदियाण मित्यादि चतुरिन्द्रियाणां भदन्त ! कति जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि?, भगवानाह नव जातिकुलकोटियोनिप्रमुखशतसहनाणि प्रज्ञप्तानि, एवं त्रीन्द्रियाणामष्टौ जातिकुलकोटियोनिप्रमुखशतसहस्राणि, द्वीन्द्रियाणां सप्तजातिकुलकोटियोनिप्रमुखशतसहस्राणिप्रज्ञप्तानि।इहजातिकुलकोटयोयोनिजातीयास्ततो भिन्नजातीयाभिधानप्रसङ्गतो गन्धाङ्गानि भिन्नजातीयत्वात् प्ररूपयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org