________________
१४६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/३०-३/१२२ मू. (१२२) अस्साओ उववन्नो अस्साओ चेव चयइ निरयभवं।
सब्बपुढवीसु जीवो सब्वेसु ठिइविसेसेसुं॥ वृ. कश्चित् जीवः ‘सर्वास्वपि पृथिवीषु' रत्नप्रभादिषु तमस्तमापर्यन्तासु सर्वेष्वपि च 'स्थितिविशेषेषु जघन्यादिरूपेषु असातः' असातोदयकलित उपपन्नः, उत्पत्तिकालेऽपिप्राग्भवमरणकालानुभूतमहादुःखानुवृत्तिभावात्, उत्पत्यनन्तरमपि 'असात एंव' असातोदयकलित एव सकलमपि निरयभवं त्यजति' क्षपयति, न तुजातुचिदपि सुखलेशमप्यास्वादयति । मू. (१२३) उववाएण व सायं नेरइओ देवकम्मुणा वावि।
अज्झवसाणनिमित्तं अहवा कम्माणुभावेणं ।। वृ. आह-किं तत्र कदाचित्सातोदयोऽपि भवति येनेदमुच्यते ?, उच्यते, भवति, तथा चाह-उववाएण' इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले सात सातवेदनीयकर्मोदयं कश्चिद्वेदयते, यःप्राग्भवे दाघच्छेदादिव्यतिरेकेण मरणमुपगतोऽनतिसङिक्लष्टाध्यवसायी समुत्पद्यते, तदानीं हि न तस्य प्राग्भवानुबद्धमाधिरूपं दुःखं नापि क्षेत्रस्वभावजं नापि परमाधार्मिककृतं नापि परस्परोदीरितं तत एवंविधदुःखाभावादसौ सातं कश्चित् वेदयते इत्युच्यते।
'देवकम्मुणावावि' इति देवकर्मणापूर्वसाङ्गतिकदेवप्रयुक्तयाक्रियया, तथाहि-गच्छति पूर्वसाङ्गतिको देवः पूर्वपरिचितस्य नैरयिकस्य वेदनोपशमनार्थं यथा बलदेवः कृष्णवासुदेवस्य, सच वेदनोपशमोदेवकृतोमनाकालमात्र एव भवति, ततऊर्ध्वं नियमाक्षेत्रस्वभावजाऽन्योऽन्या वा वेदना प्रवर्तते, तथास्वाभाव्यात्,।
'अज्झवसाणनिमित्त' मिति अध्यवसानिमित्तं सम्यक्तोत्पादकाले तत ऊर्च कदाचित्तथाविधविशिष्टशुभाध्यवसायप्रत्ययं कश्चिद्नैरयिकोबाह्यक्षेत्रस्वभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धस्य चक्षुभि इव महान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचितीर्थकरगुणानुमोदनाद्यनुगतां विशिष्ट भावनां भावयतः, ततो बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽप्यन्तः सातोदयो विजृम्भमाणो न विरुध्यते।
'अहवा कम्माणुभावेण मिति अथवा 'कर्मानुभावेन' बाह्यतीर्थकरजन्मदीक्षाज्ञानापवर्गकल्याणसंभूतिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च सातवेदनीयस्य कर्मणोऽनुभावेन-विपाकोदयेन कश्चित्सातं वेदयते, न चैतद्वयाख्यानमनाथ यत उक्तं वसुदेवचरिते। मू. (१२४) नेरइयाणुप्पाओ उक्कोसं पंचजोयणसयाई।
दुक्खेणभिट्ठयाणं वेयणसयसंपगाढाणं ।। वृ. इह नैरयिकाः कुम्भ्यादिषु पच्यमानाः कुन्तादिभिर्भिद्यमाना वा भयोत्रस्तास्तथाविधप्रयलवशादूर्द्धमुत्प्लवन्ते, ततस्तदुत्पातपरिमाणप्रतिपादनार्थमाह-नैरयिकाणां दुःखेनाभिद्रुतानां सर्वात्मना व्याप्तानां वेदनाशतसंप्रगाढाना वेदनाशतानि अपरिमिता वेदनाः संप्रगाढानि-अवगाढानि येषां ते वेदनाशतसंप्रगाढाः सुखादिदर्शनात् निष्ठान्तस्य परनिपातः, तेषां हेतुहेतुमद्भावश्चात्र, यतो वेदनाशतसंप्रगाढास्ततोदुःखेनाभिद्रुताः, तेषांजघन्यत उत्पातो गव्यूतमात्रम्, एतच्च संप्रदायादवसीयते, तथा च श्यते कचिदेवमपि पाठः-"नेरइयाणुप्पाओ गाउय उक्कोस पंचजोयणसयाई" इति, उत्कर्षतः पञ्च योजनशतानि इति।
मू. (१२५) अच्छिनिमीलियमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org