SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४२ जीवाजीवाभिगमज्पाङ्गसूत्रम् ३/नै०-२/१०६ चतुर्थे जघन्या चतुर्दश सागरोपमाणि एकः सागरोपमस्य पञ्चभागः उत्कृष्टा परिपूर्णानि सप्तदश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः, पञ्चमे जघन्या पादश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः उत्कृष्टा परिपूर्णानि सप्तदश सागरोपमाणि, एष चात्र भावार्थसागरोपमदशकस्योपरि प्रतिप्रस्तटं क्रमेणैकं सागरोपमं द्वौ च सागरोपमस्य पञ्चभागाविति वर्द्धयितव्यं ततो यथोक्तं परिमाणं भवति। तमःप्रभायांप्रथमे प्रस्तटे जघन्या स्थिति सप्तदशसागरोपमाणि उत्कृष्टाऽष्टादश साग०द्वौचसागरोपमस्य त्रिभागौ, द्वितीये जघन्याऽष्टादशसाग० द्वौ च सागरोपमस्यं त्रिभागौ उत्कृष्टा विंशति साग० एकः सागरोपमस्य त्रिभागः, तृतीये जघन्या विंशति साग० एकः सागरोपमस्य त्रिभागः उत्कृष्ट द्वाविंशति साग०, अत्राप्येष तात्पर्यार्थ- सप्तदश सागराणामुपरि प्रतिप्रस्तटं क्रमेणैकं सागरोपमं द्वौ चसागरोपमस्य त्रिभागावितिवर्द्धयितव्यं, ततो यथोक्तंपरिमाणं भवति। सप्तम्यां तु पृथिव्यामेक एव प्रस्तट इति तत्र पूर्वोक्तमेव परिमाणं द्रष्टव्यम् । मू. (१०७) इमीसेणंभंते! रयणप्पभाए नेरतियाअनंतरं उव्वट्टिय कहिं गच्छंति? कहि उववजंति ? किं नेरतिएसु उबवजंति ? किं तिरिक्खजोणिएसु उववजंति ?, एवं उव्वट्टणा माणितव्वा जहा वकंतीए तहाइहवि जाव अहसेत्तमाए।।। वृ.सम्प्रति नैरयिकाणामुद्वर्तनामाह-‘रयणप्पभापुढवि' इत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त! अनन्तरमुवृत्य कव गच्छन्ति?, एतदेव व्याचष्टे-कोत्पद्यन्ते इत्यादि, यथा प्रज्ञापनायां व्युत्क्रान्तिपदेतथावक्तव्यं यावत्तमस्तमायां, तच्चातिप्रभूतमितितत एवावधार्यम्, एषचसक्षेपार्थः रत्नप्रभापृथिवीनैरयिका यावत्तमःप्रभापृथिवीनैरयिका अनन्तरमुद्वृत्ता नैरयिकदेवैकेन्द्रियविकलेन्द्रियसंमूर्छिमपञ्चेन्द्रियासङ्घयेयवर्षायुष्कवर्जेषु शेषेषु तिर्यमनुष्येषूत्पद्यन्ते, सप्तमपृथिवीनैरयिकास्तु गर्भजतिर्यकपञ्चेन्द्रियेष्वेव न शेषेषु । सम्प्रति नरकेषु पृथिव्यादिस्पर्शस्वरूपमाह मू. (१०८) इमीसे णं भंते ! रयण० पु० नेरतिया केरिसयं पुढविफासं पच्चणुब्भवमाणा विहरंति?, गोयमा! अनिलुजाव अमणामं, एवंजाव अहेसत्तमाए, इमीसे गंभंते ! रयण-पु० नेरइया केरिसयं आउफासं पञ्चणुभवमाणा विहरंति?, गोयमा ! अनि8 जाव अमणाम, एवं जाव अहेसत्तमाए, एवं जाव वणप्फतिफासं अधेसत्तमाए पुढवीए। इमाणंभंते! रयणप्पभापुढवी दोच्चं पुढविपणिहायसव्वमहंतिया बाहल्लेणं सब्बक्खुडिया सब्बतेसु?, हंता! गोयमा! इमाणं रयणप्पभापुढवी दोच्चं पुढविं पणिहाय जाव सव्वक्खुड्डिया सव्वंतेसु, दोच्चा णंभंते! पुढवी तच्छं पुढविं पणिहाय सव्वमहंतिया बाहल्लेणं पुच्छा, हंता गोयमा दोघाणं पुढवीजाव सव्वक्खुड्डिया सव्वंतेसु एवंएएणंअभिलावेणंजाब छट्टिता पुढवी अहेसत्तमं पुढविं पणिहाय सव्वक्खुड्डिया सव्वंतेसु । वृ. 'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त! कीशं पृथिवीस्पर्शप्रत्यनुभवन्तो विहरन्ति?, भगवानाह-गौतम ! अनि8 अकंतं अप्पियं अमणुन्नं अमणाम' अस्यार्थ प्राग्वत्, एवं प्रतिपृथिवि तावद्वक्तव्यं यावत्तमस्तमायाम्, एवमप्तेजोवायुवनस्पतिस्पर्शसूत्राण्यपि भावनीयानि, नवरं तेजःस्पर्शउष्णरूपतापरिणतनरककुड्यादिस्पर्श परोदीतवैक्रियरूपो वा Jain Education International. For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy