________________
१२८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-२/१०२ तह पंचमए पयरे उस्सेहो धणुसयं तु पणवीसं । 'सो चेवय' इत्यस्यार्थोऽत्रापि पूर्ववत् । तमःप्रभायाः प्रथमे प्रस्तटे पञ्चविंशं धनुःशतं ततः परतरे तु प्रस्तटद्वये क्रमेण प्रत्येकं सार्द्धानि द्वाषष्टिर्धनूंषि प्रक्षेप्तव्यानि, तत एवं परिमाणं भवति-द्वितीये सार्द्धसप्ताशीत्यधिकं धनुःशतं तृतीयेऽर्द्धतृतीयानि धनुःशतानि, उक्तञ्च॥१॥ “सो चेव य छट्ठीए पढमे पयरंमि होइ उस्सेहो ।
बासहिधणु य सडा पयरे पयरे य वुड्डी य॥ ॥२॥ (सवा य सत्तसीइ बीए पयरंमि होइ धणुयसय)
छट्ठीए तइयपयरे दो सय पण्णासया हंति ।। सप्तमपृथिव्यां पञ्च धनुःशतानि, उत्तरवैक्रया तु सर्वत्रापि भवधारणीयापेक्षया द्विगुणप्रमाणाऽवसातव्या ॥सम्प्रति संहननप्रतिपादनार्थमाह
मू. (१०३) इमीसे णं भंते ! रयणप्प० पु० नेरइयाणं सरीया किंसंघयणी पन्नता ?, गोयमा! छण्हं संघयणाणं असंघयणा, नेवट्ठी नेवछिरा नविण्हारू नेव संघयणमस्थि, जे पोग्गला अनिट्ठा जाब अमणामा ते तेसिं सरीरसंघायत्ताए परिणमंति, एवं जाव अधेसत्तमाए।
इमीसे णं भंते ! रयण पु० नेरतियाणं सरीरा किंसंठिता पन्नत्ता?, गोयमा! दुविहा पन्नता तंजहा-भवधारणिजा य उत्तरवेउव्विया य, तत्थ णं जे ते भवधारणिज्जा ते हुंडसंठिया पन्नता, तत्थ गंजे ते उत्तरवेउब्विया तेवि हुंडसंठिता पन्नत्ता, एवं जाव अहेसत्तमाए।
इमीसे णं भंते ! रयण पु० रतियाणं सरीरमा केरिसता वण्णेणं पन्नत्ता?, गोयमा ! काला कालोभासा जाव परमकिण्हा वण्णेणं पन्नत्ता, एवं जाव अहेसत्तमाए।
इमीसे णं भंते रयम० पु० नेरइयाणं सरीरया केरिसया गंधेणं पन्नत्ता?, गोयमा ! से जहानामए अहिमडे इ वा तं चेव जाव अहेसत्तमा।
इमीसे णं रयण० पु० नेरइयाणं सरीरया केरिसया फासेणं पन्नता?, गोयमा ! फुडितच्छविविच्छविया खरफरुसझामझुसिरा फासेणं पन्नत्ता, एवं जाव अधेसत्तमा ।।
पृ. 'रयणप्पभे' त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किंसंहननिनः' केन संहननेन संहननवन्तः प्रज्ञप्ताः?, भगवानाह-गौतम! 'छण्हं संघयणाण' मित्यादि प्राग्वत्, एवंप्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी।
सम्प्रति संस्थानप्रतिपादनार्थमाह-'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि 'किंसंस्थितानि' केन संस्थानेन संस्थानवन्ति प्रज्ञप्तानि ?, भगवानाह-गौतम ! रत्नप्रभापृथिवीनैरयिकाणांशरीराणिद्विविधानि प्रज्ञप्तानि, तद्यथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्रयानि भवधारणीयानि तानितथामवस्वाभाव्यादवश्य हुण्डनामकर्मोदयतोहुण्डसंस्थानानि, यान्यपि घोत्तरवैक्रियरूपाणि तान्यपि यद्यपि शुभमहं वैक्रयं करिष्यामीति चिन्तयति तथाऽपि तथामवस्वाभाव्यतो हुण्डसंस्थाननामकर्मोदयत उत्पाटितसकलरोमपिच्छकपोतपक्षिण इव हुण्डसंस्थानानि भवन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तम्याम्।
__सम्प्रति नारकाणां शरीरेषुवर्णप्रतिपादनार्थमाह-‘रयणप्पभे त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त! शरीरकाणि कीशानि वर्णेन प्रज्ञप्तानि?, भगवानाह-गौतम! 'काला कालोभासा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org