SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२६ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-२/१०२ चैवं-द्विविधा रलप्रभापृथिवीनैरयिकाणां शरीरारावगाहना-भवधारणीया उत्तरवैक्रिया च, तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलासङ्खयेयभाग उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट् परिपूर्णान्यकुलानि, उत्तरवैक्रियाजघन्यतोऽङ्गुलसद्धयेयभागउत्कर्षतः पञ्चदशधषि द्वौ हस्तावेका वितस्ति, शर्कराप्रभायां भवधारणीया जघन्यतोऽङ्गलासङ्खयेयभाग उत्कर्षतः पञ्चदश धनूंषि द्वौ हस्ताका वितस्ति, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्खयेयभाग उत्कर्षत एकत्रिंशद्धनूंषि एको हस्तः, वालुकाप्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्ख्येयभागउत्कर्षत एकत्रिंशद्धषिएको हस्तः, सानिद्वाषष्टिधनूंषि, उत्तरवैक्रया जघन्यतोऽङ्गुलसङ्खयेयभागउत्कर्षतः पञ्चविंशंधनुःशतं __-धूमप्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्खयेयभाग उत्कर्षतः पञ्चविंशं धनुःशतं, उत्तरवैक्रिया जघन्योऽङ्गुलसङ्ग्येयभाग उत्कर्षतोऽर्द्धतृतीयानिधनुःशतानि, तमःप्रभायां भवधारणीयाजघन्यतोऽङ्गुलासङ्घयेयभागमात्रा उत्कर्ष,तोऽर्द्धतृतीयानि धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्खयेयभाग उत्कर्षतः पञ्चधनुःशतानि, तमस्तमःप्रभाया भवधारणीया जघन्यतोऽङ्गुलासङ्खयेयभागउत्कर्षतः पञ्च धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्ख्येयभाग, उत्कर्षतो धनुःसहसमिति। यदि पुनःप्रतिप्रस्तटे चिन्ताक्रियतेतदैववगन्तव्या-तत्रजघन्या भवधारणीयासर्वत्राप्यकुलासङ्घयेयभागः, उत्तरवैक्रिया तुअङ्गुलसङ्खयेयभागः, उक्तंचमूलटीकाकारेणान्यत्र- "उत्तरवैक्रियातु तथाविधप्रयलाभावादाद्यसमयेऽप्यकुलसद्धयेयभागमात्रैवेति, उत्कृष्टातुभवधारणीयाया रत्नप्रभायाः प्रथमे प्रस्तटे त्रयो हस्ताअत ऊर्ध्वं क्रमेण प्रतिप्रस्तटं सार्द्धानिषटपञ्चाशदङ्गुलानि प्रक्षिप्यन्ते, तत एव परिमाणं भवति, द्वितीये प्रस्तटे धनुरेकमेको हस्तः सार्धानि चाष्टावगुलानि, तृतीये धनुरेकं त्रयो हस्ताः सप्तदशाङ्गुलानि, चतुर्थे द्वे धनुषी द्वौ हस्तो सामेकमङ्गुलं, पञ्चमे त्रीणि धनूंषि दशाङ्गुलानि, षष्ठे त्रीणि धनूंषि द्वौ हस्तौ सार्वान्यष्टादशाङ्गुलानि, सप्तमे चत्वारि धनूंषि एको हस्तस्त्रीणि चाङ्गुलानि, अष्टमे चत्वारिधनूंषि त्रयो हस्ताः सार्धान्येकादशाङ्गुलानि, नवमे पञ्चधषिएको हस्तो विंशतिरङ्गुलानि, दशमेषड्धनूंषि सानिचत्वार्यङ्गुलानि, एकादशे षड् धषि द्वौ हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धनूंषि सार्द्धान्येकविंशतिरकुलानि, त्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट्च परिपूर्णान्यङ्गुलानि, उक्तञ्च॥१॥ “रयणाए पढमपयरे हत्थतियं देह उस्सए भणियं । छप्पन्नंगुलसवा पयरे पयरे हवइ वुड्डी।" शर्कराप्रभायांप्रथमेप्रस्तटेसप्तधनूंषि त्रयो हस्ताः षट्चाङ्गुलानि, अतऊर्चतुप्रतिप्रस्तटं त्रयो हस्तास्त्रीणि चाङ्गुलानि क्रमेण प्रक्षेप्तव्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटेऽष्ट धनूषि द्वौ हस्तौ नव चाङ्गुलानि, तृतीये नव धनूंषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे दश धनूंषि पञ्चदशाङ्गुलानि, पञ्चमेदशधषि त्रयो हस्ता अष्टादशाङ्गुलानि, षष्ठे एकादशधनूंषि द्वौ हस्तावेकविंशतिरङ्गुलानि, सप्तमेद्वादश धनूंषि द्वौ हस्तौ, अष्टमे त्रयोदश धषिएको हस्तस्त्रीणि चाङ्गुलानि, नवमे चतुर्दशधषिषट्चाङ्गुलानि, दशमेचतुर्दशधनूंषि त्रयोहस्ता नव चाङ्गुलानि, एकादशे पञ्चदशधनूंषि द्वौ हस्ती एका वितस्ति, उक्तञ्च ॥१॥ “सोचेव य बीयाए पढमे पयरंमि होइ उस्सेहो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy