________________
२७३
मूलं-३० सुरम्मा इति' अस्य व्याख्या।
इह प्रायो वृक्षाणां मध्यमे वयसि वर्तमानानि पत्राणि कृष्णानि भवन्ति ततस्तद्योगात् वनखण्डाअपि कृष्णाः, न चोपचारमात्रात्ते कृष्णा इति व्यपदिश्यन्ते किन्तु तथा प्रतिभासनात्, तथा चाह- कृष्णावभासा' यावति भागे कृष्मावभासपत्राणि सन्ति तावति भागे तेवनखण्डाः कृष्णा अवभासन्ते, ततः कृष्णोऽवभासो येषांतेकृष्मावभासा इति,तता हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद्वनखण्डा अपि नीलाः, न चैतदुपचारमात्रेणोच्यते किन्तु तथावभासात्, तथा चाहनीलावभासाः, समासःप्राग्वत्, यौवनेतान्येव पत्राणि किसलयत्वं रक्तत्वंचातिक्रान्तानि ईषत्हरितालाभानिपाण्डूनिसन्ति हरितानीतिव्यपदिश्यन्ते, ततस्तद्योगात् वनखण्डा अपिहरिताः,नचैतदुपचारमात्रादुच्यते, किन्तुतथाप्रतिभासात्, तथा चाह-हरितावभासाः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगादनखण्डा अपि शीता इत्युक्ताः,नचन ते गुणतस्तथा किन्तु तथैव, तथाचाह-शीतावभासाः,अधोभागवर्तिनां वैमानिकदेवानां देवीनां तद्योगशीतवातसंस्पर्शतः ते शीता वनखण्डा अवभासन्ते इति ।
तथा एते कृष्णनीलहरितवर्णा यथा स्वस्मिन् स्वरूपे अत्यक्ते स्निग्धा भष्यन्ते तीव्राश्च ततः तद्योगात्वनखण्डाअपि स्निग्धाः तीव्राश्चइत्युक्ताः, नचैतदुपचारमात्रंकिन्तु तथावभासोऽप्यस्तिततउक्तं-स्निग्धावभासास्तीव्रावभासा इति, इहावभासभ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रोपदर्शनेन यथावस्थितं वरतुस्वरूपं वर्णितं भवति किन्तु ततास्वरूपप्रतिपादनेन, ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह-'किण्हा किण्हच्छाया' इत्यादि।
__कृष्णा वनखण्डः, कुत इत्याह-कृष्णच्छायाः 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शन मितिवचनात् हेतौ प्रथमा, ततोऽयमर्थः-यस्मात्कृष्णाछाया-आकरः सर्वाविसंवादितया तेषां तस्मात् कृष्णाः, एतदुक्तं भवति-सविसंवादितया तत्र कृष्ण आकार उपलभ्यते, नच प्रान्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्ववृत्यातेकृष्णानभ्रान्तावभासमात्रव्यवस्थापिता इति, एवं नीला नीलच्छाया इत्याद्यपि भावनीयं, नवरं शीताः शीतच्छाया इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः।
_ 'घनकडितडियच्छाया' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितटंघना अन्योऽन्यशाखाप्रशाखानुप्रदेशतो निविडा कडितटे-मध्यभागेछाया येषांतेतथा, मध्यभागे निविडतरच्छाया इत्यर्थ, अत एव रम्यो-रमणीयः तथा महान् जलभारावनतप्रावृटकालभावी यो मेघनिकुरुम्बो-मेघसमूहस्तं भूता-गुणैः प्राप्ता महामेघनिकुरुंबभूताः, महामेघवृन्दोपमा इत्यर्थः।।
'ते णं पायवा' इत्यादि, अशोकवरपादपपरिवारभूतपरागुक्ततिलकादिवृक्षवर्णनवत परिभावनीयं, नवरं 'सुयबरहिणमयणसलागा' इत्यादि विशेषणमत्रोपमयाभावनीयं अनेगसगडरहजाणे' त्यादि तदाकारभावतः॥
मू. (३१) तेसिं णं वनसंडाणं अंतो बहुसमरमणिज्जा भूमिभागा, से जहा नामए [818]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org