________________
२६४
राजप्रश्नीयउपाङ्गसूत्रम्-२८ पिनद्धानि-आविद्धानि यासां ता नानामाल्यपिनद्धाः, क्तान्तस्य परनिपातः सुखादिदर्शनात्, 'मुद्दिगिज्झसुमज्झाओ' इति मुष्टिग्राह्य सुष्टु-शोभनं मध्य-मध्यभागोयासांतास्तथा, 'आमेलगजमलजुगलवट्टियअब्मुन्नयपीणरइयसंठियपीवरपओहराओ पीनं-पीवरंरचितं संस्थितं-संस्थान यकाभ्यां तो पीनरचितसंस्थानी आमेलकः-आपीडः शेखरक इत्यर्थः।
तस्य यमलयुगलं-समश्रेणिकंययुगलं तद्वत्वर्तितौ-वद्धस्वभावावुपचितकठिनभावावितिभावः अभ्युन्नतौ पीनरचितसंस्थानौ चपयोधरौयासांतास्तथा, रत्तावंगाओ' इति रक्तोऽपाङ्गो-नयनोपान्तरूपोयासांतास्तथा, 'असियकेसिओ' इति असिताः कृष्णाः केशा यासांता असितकेश्यः, एतदेव सविशेषमाचष्टे-'मिउविसयपसत्थलक्खणसंवेल्लियग्गसरियाओ' मृदवः कोमला विशदा-निर्मलाः प्रशस्तानि-शोभनानि अस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां तेप्रशस्तलक्षणाः ‘संवेल्लितं' संवृतमग्रं येषांते संवेल्लिताग्राः शिरोजाः--केशा यासांता मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः, 'ईसिं असोमवरपायवसमुट्ठियाओ' ईषत्-मनाक् अशोकवरपादवे समुपस्थिताः-आश्रिता ईषदशोकवरपादपसमुपस्थितास्तथा 'वामहत्वग्गहियग्गसालाओ' वामहस्तेन गृहीतमग्रं शालायाः-शाखायाः अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताग्रशालाः। ___'ईसिं अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विवे'ति ईषत्-मनाक् अर्द्ध-तिर्यक् वलितमक्षि येषु कटाक्षरूपेण चेष्टितेसु तैर्मुष्णन्त्य इव सुरजनाना मनांसि चक्खुल्लोयणलेसेहिंय अनमन्नं खिजमाणीओविव' 'अन्योऽन्यं परस्परं चक्षुषांलोकनेन-आलोकनेन येलशा:-संश्लेषस्तैः खधमानइव, किमुक्तं भवति?-एवंनामानस्ति (मोर्यग्वलिताक्षिकटाक्षः परस्परमवलोकमाना अवतिष्ठन्ति यथा नूनूं परस्परं सौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षैः परस्परं खिद्यन्ति इवेति, 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपगता विमानवत् ।
___'चंदाननाओ' इति चन्द्र इवाननं-मुखं यासांतास्तथा 'चंदविलासिणीओ' इति चन्द्रवत् मनोहरं विलसन्तीत्येवंशीलाचन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धसमम्अष्टमीचन्द्रसमानं ललाटंयासांतास्तथा 'चंदाहियसोमदंसणाओ' इतिचन्द्रादपिअधिकं सोमसुभगकान्तिमत् दर्शनम्-आकारोयासांतास्तथाउल्काइव उद्योतमानाः 'विजुघणमरिचिसूरदिप्पं ततेयअहिययरसन्निकासातो' इति विद्युतोयेघना-बहलतरामरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानं दीप्तं-तेजस्तस्मादपिअधिकतरः सन्निकाश:-प्रकाशोयासांतास्तथा, 'सिंगारागारचारुवेसाओ पासाइयाओ दरिसणिज्जाओ पडिरूवाओ अभिरुवाओ चिट्ठति' इति प्राग्वत् ॥
मू. (२९) तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस सोलस जालकडगपरिवाडीओ पन्नत्ता, ते णं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं दाराणं उभओ पासे दुहाओ निसीहियाए सोलस सोलस घंटापरिवाडीओ पन्नत्ता, तासिणं घंटाण इमेयारूवे वन्त्रावासे पन्नत्ते, तंजहा
___ जंबूणयामईओ घंटाओ वयरामयाओ लालाओ नानामणिमया घंटापासा तवणिजामइयाओ संखलाओरययामयाओ रज्जूतो, ताओणंघंटाओ ओहस्सराओ मेहस्सराओसीहस्सराओ दुंदुहिस्सराओ कुंचस्सराओ नंदिस्सराओ नंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org