________________
२३०
राजप्रश्नीयउपाङ्गसूत्रम् - १५
कणवीरश्वेतबन्धुजीवाः प्रतीताः, 'भवेयारूवे सिया' इत्यादि प्राग्वत् ।
तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपं प्रतिपादनार्थमाह-
मू. (१५-वर्तते) तेसि णं मणीणं इमेयारूवे गंधे पन्नत्ते, से जहानामए कोट्ठपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण वा दमणा पुडाण वा कुंकुमपुडाण वा चंदनपुडाण वा उसीरपुडाण वा मरु आपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा हाणम-ल्लियापुडाण वा केतगिपुडाण वा पाडलिपुडाण वा नोमालियापुडाण वा
-अगुरुपुडाण वा लवंगपुडाण वा कप्पूरपुडाण वा वासपुडाण वा अणुवायंसि वा ओभिजमाणाण वा कोट्टिजमाणाण वा मंजिजमाणाण वा उक्करिजमाणाण वा विक्करिजमाणाण वा परिभुजमाणाण वा पिमाइजमाणाण वा भंडाओ वा भंडं साहरिजमाणाण वा ओराला मणुण्णा मनहरा धाणमणनिव्युतिकरा सव्वतो समंता गंदा अभिनिस्सवंति ।
भवेयारूवे, सिया ?, नो इमट्ठे समट्ठे, ते णं मणी एत्तो इट्ठतराए चेव गंधेणं पत्रत्ता ।
बृ. 'तेसि णमित्यादि, तेषां मणीनामयमेतद्रूपो गन्धः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि, प्राकृतत्वात् ' से ' इति बहुवचनार्थ प्रतिपत्तव्यः, ते यथा नाम गन्धा अभिनिर्गच्छन्तीति सम्बन्धः, कोष्ठं- गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेषां वाशब्दाः सर्वत्रापि समुच्चये, इह एकस्य पुटस्य प्रायो न ताशो गन्ध आयाति, द्रव्यस्याल्पत्वात्, ततो बहुवचनं, तगरमपि गन्धद्रव्यं, एलाः प्रतीताः, चोयं - गन्धद्रव्यं चम्पकदमनककुङ्कुमचन्दनोशीरमरुकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलीनवमालिकाऽगुरुलवङ्गकुसुमवासकर्पूराणि प्रतीतानि, नवरमुशीरंवीरणीमूलं स्नानमल्लिका - स्नानयोग्यो मल्लिकाविशेषः, एतेषां पुटानामनुवाते-आधायकविवक्षितपुरुषाणानुकूले वाते वाति सति उद्भिद्यमानानामुद्घाट्यमानानां वाशब्दः सर्वत्रापि समुच्चये 'कुट्टिमाणाणवा' इति इह पुटैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्ठपुटादीनीत्युच्यन्ते तेषां कुट्यमानानाम् उदूखले खुद्यमानानां 'भंजिज्माणाण वा' इति श्लक्ष्णखण्डीक्रियमाणानां' एतच्च विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषामेव प्रायः कुट्टन श्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनां ।
'उक्किरिजमाणाणवा' इति क्षुरिकादिभि कोष्ठादिपुटानां कोष्ठादिद्रव्याणां वा उत्कीर्यमाणानां 'विक्करिजमाणाण वा' इ विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां परिभुजमाणाण वा' परिभोगाय उपयुज्यमानानां कचित् 'परिभाइजमाणाण वा' इति विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां 'परिभुजमाणाण वा' परिभोगाय उपयुज्यमानानां, क्वचित् 'परिभाइजमाणाण वा' इति पाठस्तत्र परिभाइज्जमाणानं संह्रियमाणानां उदाराः - स्फारास्ते चामनोज्ञा अपि स्युरत आह- मनोज्ञा- मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह- मनोहराः - मनो हरन्ति - आत्मवशं नयन्तीति मनोहराः, इतस्तत विप्रकीर्यमाणेन मनोहरत्वं, कुतः ? इत्याह ।
घ्राणमनोनिर्वृतिकराः, एवंभूताः सर्वतः - सर्वासु दिक्षु समन्ततः- सामस्त्येन गन्धा अभिनिरसरन्ति, जिघ्रतामभिमुखं निस्सरन्ति, क्वचित् 'अभनिस्सवन्तीति' पाठः, तत्रापि स एवार्थो नरमभितः स्रवन्तीति शब्दसंस्कार, एवमुक्ते शिष्यः पृच्छति - 'भवेयारूवे सिया' स्यादेतत् यथा भवेद् एतद्रूपस्तेषां मणीनां गन्धः ?, सूरिराह- 'नो इणट्टे समट्टे' इत्यादि प्राग्वत् ।
Jain Education International
For Private & Personal Use Only
L
www.jainelibrary.org