________________
२२८
राजप्रश्नीयउपाङ्गसूत्रम्-१५ अञ्जनं-सौवीराअनंरत्नविशेषोवा, खञ्जनं-दीपमल्लिकामलः, कजलं-दीपशिखापतितं, मषीतदेवकज्जलंताम्रभाजनादिषुसामग्रीविशेषेणघोलितं मसीगुलिका-घोलितकज्जलगुडिका, क्वचित् 'मसी इति वा मसीगुलिया' इति न ६श्यते।
‘गवलं' माहिषं शृङ्गतदपि चोपरितनत्वग्भागापसारेण द्रष्टव्यं, तत्रैवविशिष्टस्य कालिम्रः सम्भवात्,तथातस्यैव माहिषशृङ्गनिविडतरसारनिवर्त्तिता गुटिका गवलगुटिका भ्रमरः-प्रतीतः भ्रमरावली- भ्रमर पङ्कित भ्रमरपतङ्गसारः-भ्रमरपक्षान्तर्गतो विशिष्टकालिमोपचितप्रदेशः, जम्बूफलं प्रतीतं, आर्द्रारिष्ठकःकोमलः काकः, परपुष्ट कोकिलः, गजो गजकलभश्च प्रतीतः, कृष्णसर्प- कृष्णवर्णसर्पजातिविशेषः, कृष्णकेसरः-कृष्णबकुलः 'आकाशधिग्गलं' शरदिमेघविनिर्मुक्तमा-काशखण्ड, तद्धिकृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकऋष्णबन्धुजीवाःअशोककणवरिबन्धुजीववृक्षभेदाः,अशोकादयो हिपञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासार्यं कृष्णग्रहणं, एवावत्युक्ते त्वरावानिव शिष्यः पृच्छति भवे एयारूवे' इति भवेत् मणीनां कृष्णो वर्ण 'एतद्रूपो' भीमूतादिरूप?, सूरिराह
नायमर्थः समर्थः नायमर्थ उपपन्नो, यदुत एवम्भूतः कृष्णो वर्णो मणीनामिति, यद्येवं तर्हि किमर्थं जीमूतादीनां दृष्टान्तत्वेनोपादानमत आह-औपम्यम्-उपमामात्रमेतत् उदितं हे श्रमण आयुष्मन् !, यावता पुनस्ते कृष्मा मणय ‘इतो' जीमूतादेरिष्टतरका एव-कृष्णेन वर्णेन अभीप्सित-तरका एव, तत्र किञ्चिदकान्तमपि केषाञ्चिदिष्टतमं भवति ततोऽकान्तताव्यवच्छित्यर्थमाह-'कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततयाजीमूतादेः कमनीयतरकाः, अत एवमनोज्ञतरका एव-मनसाज्ञायते-अनुकूलतया स्वप्रवृत्तिविषयीक्रयते इति मनोज्ञमनोऽनुकूलं ततःप्रकर्षविवक्षायां तर प्रत्ययः, तत्रमनोज्ञतरमपि किञ्चिमन्मध्यमं भवेत्, ततः सर्वोत्कर्षप्रतिपादनार्थमाह-'मन आपतरका एव' द्रष्टणां मनासि आप्नुवन्ति-आत्मवशतां नयन्तीति मनआपास्ततः प्रकर्षविवक्षायांतरप्प्रत्ययः,प्राकृतत्वाच्च पकारस्य मकारे मणामतरा इति भवति
तथा तत्थणमित्यादि, तत्रतेषांमणीनांमध्येयेतेनीलामणयस्तेषामयमेतद्रूपोवर्णावासो वर्णकनिवेशः प्राप्तः, तद्यथा-'से जहानामए' इत्यादि स यथ नाम भृङ्गः-कीटविशेषः पक्ष्मलः 'भृङ्गपत्रं तस्यैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्मः, शुकः-कीरः, शुकपिच्छं-शुकस्य पत्रं, चाषः-पक्षिविशेषः, 'चाषपिच्छं चाषपक्षः, नीलीप्रतीता, नीलीभेदो-नीलीच्छेदः, नीलीगुलिकागुलिकाद्रव्यगुटीका,श्यामाको-धान्यविशेषः, 'उच्चंतगो दन्तरागः, वनराजी प्रतीता, हलधरोबलदेवस्तस्य वसनं हलधरवसनं, तच्च किल नीलं भवति सदैव यथास्वभावताय, हलधरस्य नीलवस्त्रपरिधानात्, मयूरग्रीवापारापतग्रीवाअतसीकुसुमबाणवृक्षकुसुमानिप्रतीतानि, इतऊर्द्ध कवचित् 'इंदनीले इ वा महानीले इ वा मरगते इ वा' इति श्यते तत्रेन्द्रीनलमहानीलमरकता रत्न- विशेषाः प्रतीताः, अञ्जनकेशिका-वनस्पतिविशेषस्तस्य कुसुममञ्जनकेसिकाकुसुमं, नीलोत्पलं- कुवलयं, नीलाशोककणवीरनीलबन्धुजीवाअसोकादिवृक्षविशेषाः, 'भवेयारूवे' इत्यादि प्राग्वद् व्याख्येयं।
तथा तत्थ णमित्यादि, 'तत्र' तेषां मणीनां मध्ये ये ते लोहिता मणयस्तेषामयमेतद्रूपो वर्णावासःप्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, तद्यथा नामशशकरुधिरंउरभ्रः-ऊरणस्तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org