________________
२२४
राजप्रश्नीयउपाङ्गसूत्रम्-१५ योजनशतसहनविस्तीर्ण-योजनलक्षविस्तारं दिव्यं प्रधानं 'गमनसजगमनप्रवणं शीघ्रगमननामधेयं जाणविमाणं' यानरूपं वाहनरूपं विमानंयानविमानं, शेषप्राग्वत् । 'तस्सण'मित्यादि, तस्सणमितिपूर्ववत् दिव्यस्य यानविमानस्य तिदिसिं इति तिन दिशःसमाहतास्त्रिदिक्तस्मिन् त्रिदिशि, तत्र 'तिसोवाणपडिरूवए' इति त्रीणि एकैकस्यां दिशिएकैकस्य भावात्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारस्सिोपानं त्रिसोपानानिचतानि प्रतिरूपकाणिचेतिविशेषणसमासः, विशेषमस्यात्र परनिपातःप्राकृतत्वात्
तेसिणमित्यादि,तेषांचत्रिसोपानप्रतिरूपकाणामयमेतद्रूपो-वक्ष्यमाणस्वरूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'वज्रमया' वज्ररत्नमया 'नेमी' नेमिभूमिका तत्र ऊर्द्ध निर्गच्छन्तःप्रदेशाःरिष्ठरन्तमयानि प्रतिष्ठानानिनिष्ठानानि त्रिसोपानमूलप्रदेशाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि, लोहिताक्षय्यःसूचयः-फलकद्वय-सम्बन्धविघटनाभावहेतुपादुकास्थानीयाः 'वज्रमया वज्ररलपूरिताः ‘सन्धयः' फलकद्वाया-पान्तरालप्रदेशाः नानामणिमयानि अवलम्ब्यन्ते इति अवम्बनानि–अवतरतामुत्तरतां चालम्ब-नहेतुभूता अवम्लबन्बाहातो विनिर्गताः केचिदवयवाः, 'अवलम्बणवाहाओ यत्ति अवलम्बनवाहाश्च नानामणिमय्यः,अवलम्बनबाहानाम उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, पासाइयाओ' इत्यादि पदचतुष्टयं प्राग्वत्।
"तेसि णमित्यादि, तेषां णमिति वाक्यालङ्कारे त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येक तोरणं प्रज्ञप्तं, तेषां च तोरणानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तोरणा नानामणिमयाइदि, कचिदेवंपाः-'तेसिणं तिसोवाणपडिरूवगाणंपुरतो तोरमे विउव्वइतोरणा नानामणिमया' इत्यादि, मणयः-चन्द्रकान्ताद्याः, विविधमणिमयानि तोरणानि नानामणिमयेषु स्तम्भेषु उपनिविष्यनि-समीप्येन स्थितानि, तानि च कदाचिच्चलानि अथवा अपदपतितानि वाऽऽशङक्येरन् तत आह-सम्यक्-निश्चलतया अपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, उपनिविष्टसन्निविष्टानि, "विविहमुत्तंतरो वचियाई' इतित विविधा विविधवि. च्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अन्तरे तिअन्तराशब्दोऽगृहीत-वीप्योऽपिसामर्थ्याद्वीप्सां गमयति, अन्तरा रूपोपचितानि यावता तत्र तानि तथा।।
'विविहतारोवचियाई विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभार्थ तारिका निबध्यन्ते इति प्रतीतं लोकेऽपीति विविधतारारूपोपचितानि 'जाव पडिरूवा' इति यावत्करणात् 'ईहामिगउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवइरवेइयापरिगयाभिरामा विजाहरजमलजुगलजंतजुत्ताविद' एवं नाम स्तम्भद्वयसनिविष्टानि तोरणानि व्यवस्थितानियथा विद्याधरमलययुगलयन्त्रयुक्तानीवप्रतिभासते इति, 'अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसिमामा भिब्मिसमाणाचकखुल्लोयणलेसा सुहफासा सस्सिरीयरूवापासाइया दरिसणिज्जा अभिरुवा' इतिपरिग्रहः, क्वचिदेतत्सा-क्षाल्लिखितमपि दृश्यते।
मू. (१५-यति) तेसि गं तोरणाणं उप्पिं अट्ठमंगलगा पन्नता, तंजहा-सोत्थियसिरिवच्छनंदियावत्तवद्धमाणगमदासणकलसमच्छदप्पणा (जावपडिरूवा) तेसिंणंतोरणाणं उप्पिं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only