________________
मूलं-१२
२२१ देवे जंबूद्दीवं २ भारहं वासंआमलकप्पंनयरी अंबसालवनं चेइयंसमणं भगवं महावीरंअभिवंदए, तंतुब्भेऽविणं देवाणुप्पिया! सबिटीएअकालपरिहीणाचेव सूरियामस्स देवस्स अंतियंपाउब्भवह
वृ.'तएणंसे इत्यादि जावपडिसुणित्ता इति, अत्रयावच्छब्दकरणात् करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कडएवं देवा! तहत्ति आणाए विनएणं वयणं पडिसुणेइ'त्ति द्रष्टव्यं, 'तिक्खुत्तो उल्लालेइ'त्ति त्रिकृत्वः-त्रीन् वारान् उल्लालयति-ताडयति, ततो 'ण'मिति वाक्यालकारे तस्यां मेघौघरसितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायांत्रिकृत्वस्ताडितायां सत्यां यत् सूर्याभविमानं (तत्र) तत्यासादनिष्कुटेषुच ये आपतिताः शब्दाःशब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानिघण्टाप्रतिश्रुताशतसहस्राणि-घण्टाप्रतिशब्दलक्षाणि तैः सङ्कुलमपि जातमभूत्, किमुक्तं भवति।
घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताःशब्दपुद्गलास्त प्रतिघातवशतः सर्वासु दिक्षु विदिक्षुच दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमेकयोजनलक्षमानमपि वधिरितमजायत इति ॥ एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति, न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरूपजायते ? इति यच्चोधते तदपाकृतमवसेयं, सर्वत्र दिव्यानुभावतः तथारूपप्रतिशब्दोच्छलने यथोक्तोषासम्भवात् ।
तए णमित्यादि, ततो ‘णमिति पूर्ववत् तेषां सूर्याभदेवविमानवासिनां बहूनां वैमानिकदेवानां देवीनां च एकान्तेन सर्वात्मना रतौ-रमणे प्रसक्ता एकान्तरतिप्रसक्ता अत एव नित्यं-सर्वकालं प्रमत्ता नित्यप्रमत्, कस्मादिति चेदत आह-'विसयसुहमुच्छियात्ति' विषयसुखेषु मूर्छिता-अध्युपपना विषयसुखनित्यं सर्वकालंप्रमत्ता निप्रमत्ताः,कस्मादिति चेदत आह-'विसयसुहमुच्छियत्ति' विषयसुखेषु मूर्छिता अध्युपपन्ना विषयसुखमूर्छिता अध्युपपन्नास्ततो नित्यप्रमत्ताः ततः पदत्रयस्य पदव्यमीलनेन विशेषणसमासः, तेषां 'सुसरघंटारवविउलबोलतुरियचवलपडिबोहणे' इति सुस्वराभिधानायाघण्टायारवस्ययःसर्वासु दिक्षु विदिक्षु च प्रतिशब्दोच्छलनेन विपुलः-सकलविमानव्यापितया विस्तीर्णो बोलःकोलाहलस्तेन त्वरितं-शीघ्नं चपलं-आकुलं प्रतिबोधने कृते सति 'घोसणकोउहलादिनकनएगग्गचित्तउवउत्तमाणसाणमिति' कीग नाम घोषणं भविष्यतीत्येवं घोषणे कुतूहलेन दत्तौ कर्णी यैस्ते घोषणकुतूहलदत्तकर्णाः।
तथा एकाग्रं-घोषणाश्रवणैकविषयं चित्तं येषां ते एकाग्रचिताः, एकाग्रचित्तत्वेऽपि कदाचिदनपयोगः स्यादत आह-उपयोकतमानसाः, ततः पूर्वपदेन विशेषणसमासस्तेयां, पदात्यनीकाधिपतिर्देवस्तास्मिन् घण्टारवे निसंतपसंतंसी'ति नितरांशान्तो निशान्तः-अत्यन्तमन्दीभूतस्ततः प्रकर्षण-सर्वात्मना शान्त प्रशान्तः ततश्छिन्नारूढ इत्यादाविव विशेषणसमासस्तस्मिन् महता २ शब्देन उदघोषयन्नेवमवादीत्-'हन्त सुगंतु' इत्यादि, हन्तेति हर्षे उक्तंच
'हन्त हर्षेऽनकम्पायामित्यादि, हर्षश्च स्वामिनाऽऽदिष्टत्वात् श्रीमन्महावीरपादवन्दनार्थं च प्रस्थानसमारम्भात्, शृण्वन्तु भवन्तो बहवः सूर्याभविमानवासिनो वैमानिकदेवा देव्यश्च, सूर्याभविमानपतेर्वचनं हितसुखार्थं हितार्थसुखार्थं चेत्यर्थ, तत्र हितंजन्मान्तरेऽपिकल्याणावह तथाविधकुशलं, सुखं तस्मिन् भवे निरपद्रवता, आज्ञापयति भो देवानां प्रियाः ! सूर्याभो देवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org