________________
मूलं-५
२११ वृ. तत्र तस्मिन्विपुलेनावधिनाजम्बूद्वीपविषयेदर्शनेप्रतमाने सति श्रमण' श्राम्यतितपस्यति नानाविधमिति श्रमणः, भगः-समग्रैश्वर्यादिलक्षणः, उक्तंच॥१॥
"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः।
धर्मस्याथ प्रयलस्य, षण्णां भगइतीङ्गना॥" भगोऽस्यास्तीतिभगवान्भगवन्तं 'सूरवीर विक्रन्ती' वीरयति-कषायान्प्रति विक्रमति स्मेति वीरः महांश्चासौ वीरश्चमहावीरस्तं, जम्बूद्वीपे भारतेवर्षेआमलकल्पायांनगर्यांवहिराम्रशालवने चैत्ये अशोकवरपादपस्याधः पृथिवीशिलापट्टके सम्पर्यकनिष्ण्णं श्रमणगणसमृद्धिसंपरिवृत प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति, ६ष्ट्वा च-'हट्टतुट्ठमा दिए' इति, हृष्टतुष्टोऽतीवतुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापनो, यथा-अहो भगवानास्ते इति, तुष्ट:-सन्तोषं कृतवान्,या-भव्यमभूत्यन्मया भगवानालोकितः, तोषवशादेव चित्तमानन्दितं-स्फीतीभूतं 'टु नदि समृद्धाविति वचना, यस्य स चित्तानन्दितः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः,मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्यपदद्वयमीलने कर्मधारयः
'पीइमणे इति' प्रीतिर्मनसि यस्यासौ प्रीतिमनाः, भगवति बहुमानपरायण इति भावः, ततःक्रमेणबहुमानोत्कर्षवशात् 'परमसोमनस्सिए' इति शोभनं मनोयस्यससुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्यं च परमसौमनस्यं तत्सतमस्येति परमसौमनस्थितः, एतदेव व्यकीकुर्वनाह--'हरिवसवसविसप्पमाणहियए' हर्षवशेन विसप्पत्-विस्तारयायि हृदयं यस्य स हर्षवशविसर्पद्धदयः हर्षवशादेव 'वियसियवरकमलनयणे' विकसिते वरकमलवत् नयने यस्य सतथा, हर्षवशादेवशरीरोद्धर्षेण पयलियवरकडगतुडियकेउरमउडकुंडले तिप्रचलितानि वराणि कटकानि-कलाचिकारभारणानि त्रुटितानि-बाहुरक्षकाः केउराणि-बाहाभरणगतुयकेउरमउडकुंडलेतिप्रचलितानिवराणि कटकानि कलाचिकाभरणानित्रुटितानिवाहुरक्षकाः केउराणि-बाह्याभरणविशेषरूपाणि मुकुटो मौलिभूषणं कुण्डले कर्णाभरणे यस्य स प्रचलितवरकटकत्रुटितकेयूरमुकुटकुण्डलः।
तथा हारेण विराजमानेनरचितं-शोभितं वक्षोयस्य सहारविराजमानरचितवक्षाः, ततः पूर्वपदेन कर्मधारयःसमासः, तथाप्रलम्बते इति प्रलम्बः-पदकस्तंप्रलम्बमानं-आमरणविशेष घोलन्तिच भूषणानिधरन्तीति प्रलम्बप्रलम्बमानघोलभूषणधरः, सूत्रेचप्लम्बमानपदस्य विशेष्यापरतो निपातः प्राकृतत्वात्, हर्षवशादेव ससंभम' संभ्रम इह विवक्षितक्रयाया बहुमानपूर्विका प्रवृत्ति सह सम्भ्रमो यस्य वन्दनस्य नमनस्य वा तत्सम्प्रभमं, क्रयाविशेषणेतत्, त्वरितं-शीघ्रं पच्चोरुहतिर तापाउयाओमुयइओमुयइत्ता तित्थयराभिमुहेसत्तकृपयाइंअनुगच्छइ अनुगच्छित्ता वामंजाणुअंचेइ (उफत्पाटयति) दाहिणं जाणुधरमितलंसि निहट्टुतिखुत्तोमुद्धाणंधरणितलंसि निमेइ निमित्ता(निवेसेइ २त्ता)।
ईसिपचुन्नमइपचुनमित्ताकड़ियतुडियर्थभियभुयाओसाहरइसाहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-नमोऽत्युंणं अरिहंताणं भगवंताणं जाव ठाणंसंपत्ताणं, नमोऽत्युणंसमणस्स भगवओ महावीरस्सआदिगरस्सतित्ययरस्सजावसंपाविउकामस्स, वंदामिण भगवंतं तत्थगयं इह गए इति परिग्रहः पश्यति मांस भगवान् तत्र गत इह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org