SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मूलं - ३९ २९५ चुचूया तवणिजमया सिरिवच्छा सिलप्पवालमया ओट्ठा फालियामया दंता वणिजसईओ जीहाओ तवणिजमया तालुया कणगामईओ नासिगाओ अंतोलोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि रिट्ठामईओ ताराओ । रिट्ठामयाणि अच्छिपत्ताणि रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ निडालपट्टियातां वइरामईओ सीसघडीओ तवणिजमईओ केसंतकेसभूमीओ रिट्ठामया उवरि मुद्धया, तासि णं जिन डिमाणं पिट्ठतो पत्तेयं २ छत्तधारगपडिमाओ पन्नत्ताओ, ताओ णं छत्तधारगपडिमाओ हिमरययकुंदेदुप्पगासाइं सकोरेंटमल्लदामाई धवलाई आयवत्ताइं सलीलं धारेमाणीओ २ चिट्ठति, तासि णं जिनपडिमाणं उभओ पासे पत्तेयं २ चामरधारपडिमाओ पन्नत्ताओ, ताओ पंचामरधारपडिमातो नानामणिकणगरयणविमलमहरिह जाव सलीलं धारेमाणीओ २ चिट्ठति, तासि णं जिन डिमाणं पुरतो दोदो नागपिडमातो भूयपडिमातो जक्खपडिमाओ कुंडधारपिडमाओ सव्वरयणामईओ अच्छाओ जाव चिह्नंति, तासि णं जिन डिमाणं पुरतो अट्ठसयं घंटाणं अट्ठसयं कलसाणं अट्ठसयं भिंगाराणं एवं आयंसाणं थालाणं पाईणं सुपट्टाणं मनोगुलियाणं वायकरगाणं चित्तगराणं रयणकरंडगाणं हयकंठाणं जाव उसभकंठाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं धूवकडुच्छुयाणं संनिखित्तं चिट्ठति, सिद्धायतनस्स णं उवरि अट्टमंगलगा झया छत्तातिच्छत्ता । वृ. ' सभाएण' मित्यादि, सभायाः सुधर्मायाः 'उत्तरपुरच्छ्रिमेण' मिति उत्तरपूर्वस्यां दिशि महदेकं सिद्धायतनं प्रज्ञप्तम्, एकं योजनशतमायामतः पञ्चाशत् विष्कम्भतो द्वासप्ततिर्योजनान्यूर्ध्वमूचैस्त्वेनेत्यादि सर्वं सुधर्मावत् वक्तव्यं यावत् गोमानसीवक्तव्यता, तथा चाह- 'सभागमएण जाव गोमाणसियाओ' इति, किमुक्तं भवति ? -यथा सुधर्मायाः सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपाः तेषां च मुखमण्डपानां पुरतः प्रेक्षागृहमण्डपाः तेषां च प्रेक्षागृहमण्डपानां पुरतश्चैत्यस्तूपाः सप्रतिमाः तेषां च चैत्यतूपानां पुरतः चैत्यवृक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः तेषामपि पुरतो नन्दापुष्करिण्यस्तदनन्तरं गुलिका गोमानस्यश्चोक्ताः तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेषं वक्तव्यं, उल्लोकवर्णनं भूमिभागवर्णनं च प्राग्वत् । 'तस्स ण' मित्यादि, तस्य सिद्धायतनस्यान्तर्वहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्यतः 'सव्वमणिमयी' त्यादि प्राग्वत् । 'तीसे ण'मित्यादि, तस्याश्च मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दक प्रज्ञप्तः, सचषोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूर्ध्वचैस्त्वेन 'सव्वरयणामए' इत्यादि प्राग्वत्, तत्र च देवच्छन्दके 'अष्टशतं' अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां, पञ्चधनुः शतप्रमाणानामिति भावः, सन्निक्षिप्तं तिष्ठति । 'तासि णं जिन डिमाण' मित्यादि, तासां जिनप्रतिमानामयमेतद्रूपो 'वर्णावासो' For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy