________________
१५८
औपपातिकउपाङ्गसूत्रम् - ४४
ऊर्ध्वभवनं कर्म च - उत्क्षेपणादिकाक्रिया 'बले इ व 'त्ति बलं शारीरः प्राणः 'वीरिए इ वा ' वीर्य - जीवप्रभवः प्राण एव 'पुरिसक्कारपरिक्कमे इ व 'त्ति पुरुषकारः - पुरुषाभिमानः स एव निष्पादितफलः पराक्रमः, 'हंते' त्ति एवमेवेत्यर्थः ।
'ते णं देवा परलोगस्स आराहग'त्ति ते अकामनिर्जरालब्धदेवभवा व्यन्तराः 'परलोकस्य’जन्मान्तरस्य निर्वाणसाधनानुकूलस्य 'आराधका' निष्पादका इति प्रश्नः ?, 'नो इडे' त्ति नायमर्थ 'सम' त्ति समर्थ - सङ्गत इत्युत्तरम्, अयमभिप्रायो - ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः स्युस्त एवावश्यंतया आनन्तर्येण पारम्पर्येण वा निर्वाणानुकूलं भवान्तरमावर्जयन्ति, तदन्ये तु भाज्याः ५ ।
'से जे' इत्यादिसूत्रं व्यक्तं, नवरं सेशब्दोऽथशब्दार्थ, अथशब्दश्चेह वाक्योपक्षेपार्थो, ग्रामादयः प्राग्वत्, ‘अंडुबद्धग' त्ति अण्डूनि - अन्दुकानि काष्ठमयानि लोहमयानि वा हस्तयोः पादयोर्वा बन्धनविशेषाः 'नियलबद्धग' त्ति निगडानि - लोहमयानि पादयोर्बन्धनानि 'हडिबद्धग' त्ति हडि-खोटकः 'चारगबद्धग' त्ति चारको - गुप्ति 'मुरवच्छिन्नग' त्ति मुरजो- गलघण्टिका 'मज्झच्छिन्नग' त्ति मध्य - उदरदेशः 'वइकच्छच्छिन्नग' त्ति उत्तरासङ्गन्यायेन विदारिताः, 'हियउप्पाडियग'त्ति उत्पाटितहृदया आकृष्टाकालेयकमांसा इत्यर्थः ।
'वसणुप्पाडियग' त्ति उत्पाटितवृषणा आकृष्टाण्डा इत्यर्थः, 'तण्डुलच्छिन्नग'त्ति तण्डुलप्रमाणखण्डैः खण्डिताः 'कागणिमंसखाइय'त्ति काकणीमांसानि तद्देहोद्धतश्लक्ष्णमांसखण्डानि तानि खादिताः 'उल्लंबियग' त्ति अवलम्बितकाः रज्वा बद्धा गर्तादाववतारिताः, उल्लम्बितपर्यायास्तु नैते भवन्ति, उल्लम्बितानां वैहायसिकशब्देन वक्ष्यमाणत्वादिति, 'लंबियग' त्ति लम्बितकाः - तरुशाखायां बाहौ बद्धाः 'घंसियग' त्ति घर्षितकाश्चन्दनमिव ादि 'घोलियय'तिघोलितका दघिघट इवपट इव वा फालियय'त्ति स्फालितकाः कुठारेण दारुवच्छाटकवद्वा, पुस्तकान्तरे ‘पीलियग' त्ति पीडितका यन्त्रैरिक्षुवदिति 'सूलाइयग'त्ति शूलाचितकाः सूलिकाप्रोताः 'सूलभिन्नग' त्ति मस्तकोपरि निर्गतशूलिकाः 'खारवत्तिय'त्ति क्षारेण क्षारे वा तोक्षकतरुभस्मादिनिर्मितमहाक्षारे वर्तिता - वृत्ति कारिताः तत्र क्षिप्ता इत्यर्थः, क्षारपात्रं वा कृताः - क्षारपात्रिताः तं भोजितास्तस्य वाऽऽधारतां नीता इत्यर्थः ।
'वझवत्तिय'त्तिवर्षेण सह वृत्तिं कारिताः वर्द्धपात्रता वा - तेन बद्धा इत्यर्थ, उत्पाटितबद्धा वा, 'सीहपुच्छियय'त्ति इह पुच्छशब्देन मेहनं विवक्षितम् उपचारात् ततः सीहपुच्छं कृतं सञ्जातं वा येषां ते सिंहपुच्छित्तास्त एव सिंहपुच्छितकाः, सिंह्य हि मैथुनान्निवृत्तस्यात्याकर्षणात् कदाचिन्मेहनं त्रुटयति एवं ये कचिदपराधे राजपुरुषैस्त्रोटितमेहनाः क्रियन्ते ते सिंहपुच्छितका व्यपदिश्यन्त इति, अथवा कृकादिकातः पुतप्रदेशं यावद्येषां वर्ध उत्कर्त्य सिंहपुच्छाकारः क्रियते ते तथोच्यन्ते इति, 'दवग्गिदड्डग'त्ति दवाग्निदावानलस्तेन ये दग्घास्ते तथोक्ताः 'पंकोसन्नग' त्ति पङ्के ये अवसन्नाः - सर्वथा निमग्नास्ते पङ्कावसन्नाः 'पंके खुत्तग' त्ति पङ्के मनाङ मग्नाः केवलं तत उत्तरीतुमशक्ताः 'वलयमयम'त्ति वलन्तः - संयमाद् भ्रश्यन्तः अथवा बुभुक्षादिना वेल्लन्तो ये मृतास्ते वलन्मृतकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org