________________
१५०
औपपातिकउपाङ्गसूत्रम्-३४
अतीन्द्रियार्थद्रष्टारो न सम्भवन्ति
__-रागादिमत्वात्पुरुषाणाम्, अस्मदादिवदितितन्मतनिरासार्थमृषिसत्ताभिधानं, तन्निरासश्च चन्द्रोपरागादिज्ञानामविसंवाददर्शनादिति, देवाद्यस्तिताभिधानं च ये मन्यन्ते-न सन्ति देवादयोऽप्रत्यक्षत्वात्, तन्मतव्युदासार्थं, तत्र सिद्धि-ईषयाग्भारा निष्ठितार्थतावा सिद्धास्तुतद्वन्तः परिनिर्वाणं-कर्मकृतसन्तापोपशान्त्या सुस्थत्वं परिनिर्वृतास्तु-तद्वन्तः, तथा ये मन्यन्तेप्राणातिपातादयो न बन्धमोक्षहेतवो भवन्ति, बन्धनीयस्य मोचनीयस्य च जीवस्याभावात्, तन्मतनिषेधार्थम् 'अस्थि पाणाइवाए' इत्याधुक्तं ।।
केवलमत्र सूत्रे बन्धमोक्षहेतुरिति वाक्यशेषाश्यः, इह च यावत्करणादिदं श्यं–'पेजे दोसेकलहेअमक्खाणे पेसुन्नेपरपरिवाए अरइरईमायामोसे तितत्रपेजेत्ति-प्रेमानभिव्यक्तमायालोभव्यक्तिकमभिष्वङ्गमानं 'दोसे'त्ति द्वेषः अनभिव्यक्तक्रोधमानव्यक्तिकमप्रीतिमात्रं कलहोराटि अभ्याख्यानम्-असदोषारोपणं पैशुन्यं-प्रच्छन्नं सदोषाविष्करणं परपरिवादो-विप्रकीर्ण परेषां गुणदोषवचनम् 'अरइरइत्ति अरति-अरतिमोहनीयोदयाचित्तोद्वेगस्तत्फला रति-विषयेषु मोहनीयाञ्चित्ताभिरति अरतिरति ।
'मायामोसित्तितृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषावाद इति, 'मिच्छादसणसल्ले त्ति मिथ्यादर्शनं शल्यमिव विविधव्यथानिबन्धनत्वात् मिथ्यादर्शनशल्यं ।
मू. (३४-वर्तते) अत्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिन्नादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छादसणसल्लविवेगे सव्वं अस्थिभावं अस्थित्ति वयति, सव्वं नस्थिभावं नस्थित्ति वयति
-सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुन्नपावे, पञ्चायति जीवा, सफले कल्लाणपावए।
धम्ममाइक्खइ-इणमेव निग्गंथे पावयणे सच्चे अनुत्तरे केवलए संसुद्धे पडिपुन्ने नेआउए सल्लकत्तणेसिद्धिमग्गे मुत्तिमग्गेनिव्वाणमग्गेनिजाणमग्गेअवितहमविसंधिसव्वदुक्खप्पहीणमग्गे इहलिआ जीवा सिझंति बुझंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करंति।।
कृ. पाणाइवायवेरमणे' इत्यादौ तु तत्सत्ताभिधानम् अप्रमादस्य सर्वथा कर्तुमशक्यत्वेन तदसम्भव इत्येतन्मतनिषेधार्थं, किंबहुना?-'सब्बमस्थिभावं'ति अस्तीतिक्रयायुक्तो भावोऽस्तिभावस्तं, नास्तीतिविवक्षानिबन्धनभूतो भावो नास्तिभावोऽतस्तं, 'सुचिण्णाकम्मत्तिसुचरितानि तपःप्रभृतीनि कर्माणि-क्रियाः 'सुचिण्णफल'त्ति सुचरितं-सुचरितहेतुकत्वात् पुण्यकर्मबन्धादि तदेव फलं येषां तानि तथा, शुभफलानीत्यर्थ, न निष्फलानि नाप्यशुभफलानीति हृदयम्, एवं विपर्ययवाक्यमपि, ततश्च ‘फुसइ पुन्नपावे' बध्नाति जीवः शुभाशुभं कर्म सुचरितेतरक्रियाभिः, ततः ‘पञ्चायंति'त्ति जीवाः प्रत्याजायन्ते-उत्पद्यन्ते, न पुनः भस्मीभूतस्य शान्तस्य, पुनरागमनं कुत?' इत्येतदेव नास्तिकवचनं सत्यं, ततश्चोत्पत्तौ सत्यां ‘सफले कल्लाणपावए' सौभाग्यादीतरनिबन्धनत्वात् फलवच्छुभाशुभं कर्मेति । प्रकारान्तरेण भगवतो धर्मप्ररूपणां दर्शयन्नाह'धम्ममाइक्खइ इत्यादि पडिरूवे इत्येतदन्तम्', इदं च व्यक्तं, नवरम् इदमेव प्रत्यक्षं 'निग्गंथे पावयणे नैर्ग्रन्थं प्रवचन-जिनशासनं 'सच्चे सद्भयो हितम् अनुत्तरे' नेतःप्रधानतरमन्यदस्तीत्यर्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org