________________
मूलं- ३१
१३९
दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठट्ठमंगलया पुरओ अहाणुपुवीए संपट्टिआ, तंजहासोवत्थिय सिरिवच्छ नंदिआवत्त वद्धमाणक भद्दासण कलस मच्छ दप्पण, तयाऽनंतरं चणं पुन्नकलसभिंगारं दिव्या य छत्तपडागा सचामरा दंसणरइअआलोअदरसणिञ्जा वाउछूयविजयवेजयंती ऊस्सिआ गगनतलमणुलिहंती पुरओ अहानुपुच्चीए संपड़िआ ।
तयाऽनंतरं च णं वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभियं चंदमंडलणिभं समूसिअविलं आयवत्तपवरं सीहासणं वरमणिरयणपादपीढं सपाउआजोयसमाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहानुपुवीए संपट्ठियं ।
तयाऽ नंतरं बहवे लठ्ठेिग्गाहा कुंत ग्गाहा चावग्गाहा चामरग्गाहा पासग्गाहा पोत्थयग्गाहा फलकग्गाहा पीढग्गाहा वीणग्गाहा कुंतग्गाहा हडप्फग्गाहा पुरओ अहानुपुवीए संपट्टिआ ।
तयाऽनंतरं बहवे इंडिगो मुंडिणो सिहंडिणो जडिणो पिंछिणो हासकरा डमरकरा चाटुकरी वादकरा कंदम्पकरा दवकरा कोक्कइआ किट्टिकरा बायंता गायंता हसंता नचंता भासता सावेंता रक्खता आलोअं च करेमाणा जयरसद्दं पउंजमाणा पुरओ अहानुपुवीए संपट्टिआ ।
वृ. 'पुण्णकलसभिंगार' ति जलपरिपूर्णी घटभृङ्गारावित्यर्थ । 'दिव्वा य छत्तपडागा' दिव्येव दिव्या - शोभना सा च छत्रेण सह पताका छत्रपताका, 'सचामर' त्ति चामरयुक्ता, 'दंसणरइयआलोयदरसणिज्जा' दर्शने - राज्ञो दृष्टिमार्गे रचिता -विहिता दर्शनरचिता दर्शने वा सति रतिदासुखप्रदा दर्शन - रतिदा आलोकं दृष्टिपथं यावदृश्यते अत्युच्चैस्त्वेन या आलोकदर्शनीया ततः कर्मधारयः ।
'वाउद्धूयविजयबेजयंती' वातेनोद्धूता - उत्कम्पिता विजयसूचिका वैजयन्ती पार्श्वतो लघुपताकिकाद्वययुतः पताकाविशेष एव 'उस्सिय'त्ति उत्सृता - ऊर्ध्वकृता 'सपाउयाजोयसमाउत्तं' ति स्वः स्वकीयो राजसत्क इत्यर्थो यः पादुकायोगः- पादुकायुगं तेन समायुक्तं यत्तत्तथा, 'बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं' बहवो ये किङ्कराः - प्रतिकर्म प्रभोः पृच्छापूर्वकारिणः कर्मकराश्च - तदन्यविधास्ते च ते पुरुषाश्चेति समासः, पादातं--पदातिसमूहस्तैः परिक्षिप्तं यत्तत्तथा, कचित् 'दासीदासकिंकरकम्मकरपुरिसपायत्तपरिखित्त' मिति ध्श्यते ।
तत्र दास्यश्च - चेटयो दासाश्च चेटकाः । 'लठ्ठिग्गाह' त्ति काष्ठिकाः, कवचिदृश्यते 'असिलठ्ठिग्गाहा' तत्र असि - खङ्गः स एव यष्टि-दण्डोऽसियष्टि, अथवा असिश्च यष्टिश्चेति द्वन्द्वः, कुन्तचामराणि प्रतीतानि, पाशा-धूतोपकरणं उत्त्रस्तास्वादिबन्धनानि वा चापं धनुः पुस्तकानि -- आयपरिज्ञानहेतुलेखकस्थानानि पण्डितोपकरणानि वा फलकानि - सम्पुटफलकानि खेटकानि वा अवष्टम्भनानि वा द्यूतोपकरणानि वा पीठकानि - आसनविशेषा वीणाः - प्रतीताः कुतुप:पक्वतैलादिभाजनं हडप्फो- द्रम्मादिभाजनं ताम्बूलार्थे पूगफलादिभाजनं वा 'सिहंडिणो 'त्ति शिखाधारिणः 'पिञ्छिणो' त्ति मयूरादिपिच्छवाहिनः 'डमरकर 'त्ति विड्वरकारिणः ।
'दवकर’त्ति परिहासकारिणः 'चाटुकर'त्ति प्रियवादिनः 'कंदप्पिय'त्ति कामप्रधानकेलिकारिणः 'कोक्कुइय'त्ति भाण्डा भाण्डप्राया वा 'सासिंता य'त्ति शिक्षयन्तः 'सावेंत' त्ति इदं चेदं च परुत्परारि वा भविष्यति इत्येवम्भूतवचांसि श्रावयन्तः शपन्तो वा 'रक्खंत 'त्ति अन्यायं रक्षन्तः, क्वचिद् 'राविंता य'त्ति रावयन्तः शब्दान् कारयन्तो रामयन्तो वा 'आलोयं' ति अवलोकनं राजादेः कुर्वन्तः, इह गमे कानिचित् पदानि न स्पृष्टानि स्पष्टत्वात्, सङ्ग्रहगाथाश्चास्य गमस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org