________________
मूलं - २४
वणजोइसोहंमीसाणे सत्त होंति रयणीओ" "गंधव्वनिकायगण' त्ति गन्धर्वाणां - व्यन्तराष्टमभेदभूतानां निकायो-वर्गो येषां ते गन्धर्वनिकाया गन्धर्वा एव तेषां ये णा-राशयस्ते तथा, पाठान्तरे 'गन्धर्वपतिगणाश्चे' ति व्यक्तमेव, किंविधास्ते इत्याह ।
'निउणगंधव्वगीयरइणो 'त्ति निपुणे- सूक्ष्मे गन्धर्वे च - नाटयोपेतगाने गीते चनाटयवर्जितगेये रतिर्येषां ते तथा, अणपत्रिकादयोऽष्टी व्यन्तरनिकायविशेषभूताः रत्नप्रभापृथिव्या उपरितनयोजनशतवर्तिनः किंविधा एत इत्याह- 'चंचलचवलचित्तकीलणदवप्पिया' चञ्चलचपलचित्ताः - अतिचपलमानसाः क्रीडनं - क्रीडा द्रवश्च -परिहासस्तप्रियाः, ततः कर्मधारयः, 'गंभीर हसियमणियपियगीयणञ्चणरई' गम्भीरं हसितं येषां भणितं च-वाक्प्रयोगः प्रियं येषां गीतनृत्तयश्च रतिर्येषां ते तथा, 'गहिरहसियगीयणञ्चणरइ'त्ति कवचिध्श्यते व्यक्तं च ।
'वणमालामेलमउडकुंडलसच्छंदविउब्वियाभरणचारुविभूसणधरा' वनमाला - रत्नादिमय आप्रपदीन आभरणविशेषः आमेलकः - पुष्पशेखरकः मुकुटं - सुवर्णादिमयं कुण्डलानि च प्रतीतानि एतान्येव स्वच्छन्दविकुर्विताभरणानि - स्वाभिप्रायनिर्मितालङ्कारास्तैर्यच्चारु विभूषणं भूषा तद्धारयन्ति ये ते तथा, 'सव्वोउयसुरभिकुसुमसुरइयपलंबसोहंतकंतवियसंतचित्त-वणमालरइयवच्छा' सर्वर्तुकानि - सर्वऋतुसम्भवानि यानि सुरभीणि-कुसुमानि तैः सुरचिता या सा तथा । सा चासौ प्रलम्बा च शोभमानाच कान्ता च विकसन्ती च चित्राच वनमाला च - वनस्पतिलक् इति समासः सा रचिता वक्षसि यैस्ते तथा, 'कामगमि' त्ति इच्छागामिनः 'कामरूवधारि 'ति ईप्सितरूपधारिणः 'नानाविहवण्णरागवरवत्थचित्तचिल्लियनियंसणा' नानाविधवर्णो रागो येषु तानि तथा, तानि वरवणि चित्रामि - विविधानि 'चिल्लिय' त्ति लीनानि दीप्तानि वा निवसनानिपरिधानानि येषां ते तथा, 'विविधदेसीणेवत्यग्गहियवेसा' विविधदेशिनेपथ्येन- नानादेशरूढवस्त्रदिन्यासेन गृहीतो वेपो - नेपथ्यं यैसेत तथा ।
'पमुइयकंदष्पकलहकेलिकोलाहलप्पिया' प्रमुदितानां यः कन्दर्प- कामप्रधानः केलि, काम एव वा, कलहश्च - राटी केलिश्च-नर्म कोलाहलश्च - कलकलस्त स्वपरकृताः प्रिया येषां ते तथा, अथवा प्रमुदिताश्च ते कन्दर्पादिप्रियाश्चेति समासः, 'हासबोलबहुला' पाठान्तरे 'हासकेलिबहुला' इति व्यक्तम्, 'अनेगमणिरयणविविहनिजुत्तचित्तचिंधगया' अनेकानि बहूनि मणिरत्नानि प्रतीतानि विविधानि - बहुप्रकाराणि नियुक्तानि - नियोजितानि येषु तानि तथा, तानि चित्राणि चिह्नानि गताः - प्राप्ता ये ते तथा, चिह्नानि च पिशाचादीनां क्रमेणैतान्युच्यन्ते
'चिंधाइ कलंबझए १ सुलस २ वडे ३ तह य होइ खट्टंगे ४ ।
१२१
आसोए ५ चंपए वा ६ नागे ७ तह तुंबुरी चेव ८ ॥
मू. (२५) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जोइसिया देवा अंतिअं पाउब्भवित्था विहस्सती चंद सूर सुक्क सणिचरा राहू धूमकेतू बुहा य अंगारका य तत्ततवणिज्ञ्जकrraण्णा जे गहा जोइसंमि चारं चरंति ।
केऊ अ गइरइआ अट्ठावीसविहा य नक्खत्तदेवगणा नानासंठाणसंठियाओ पंचवण्णाओ ताराओ ठिअलेस्सा चारिणो अ अविस्साममंडलगती पत्तेयं णामंकपागडियचिंधमउडा महिड्डिया जाव पवासंति ॥
सृ. ज्योतिष्कवर्णको व्यक्तो, नवरम् अंगारकाय'त्ति मङ्गलाः, बहुत्वं च प्रत्येकं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International