SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मूलं - १९ वृ. 'चियत्तोवगरणसाइज्जणय'त्ति चियत्तं - प्रीतिकरं त्यक्तं वा दोषैर्यदुपकरणंवस्त्रपात्रव्यतिरिक्तं वस्त्रपात्रमेव वा तस्य या श्रयणीयता स्वदनीयता वा सा तथा, 'अप्पाहारे' ति द्वात्रिंशत्कवलापेक्षया अष्टानामल्पत्वात्, 'अवड्डोमोयरिय'त्ति द्वात्रिंशतोऽर्द्धं षोडश, एवं च द्वादशानामर्द्धसमीपवर्तित्वादुपार्द्धाऽवमोदरिका द्वादशभिरिति, 'दुभागोमोयरिय'त्ति द्वात्रिंशतः षोडश द्विभागोऽर्द्धमित्यर्थः, ततः षोडशकवलमाना द्विभागामोदरिकेत्युच्यते, 'पत्तोमोयरियत्ति चतुर्विशतेः कवलानां द्वात्रिंशदद्वितीयार्द्धस्य मध्यभागं प्राप्तत्वाच्चतुर्विंशत्या कवलैः प्राप्तावमोदरिकेत्युते, अथवा प्राप्तेव प्राप्ता द्वात्रिंशतस्रयाणां भागानां प्राप्तत्वाच्चतुर्थभागस्य चाप्राप्तत्वादिति । १०७ 'किंचूणूमोयरिय' त्ति एकत्रिंशतो द्वात्रिंशत एकेनोनत्वात्, 'पमाणपत्ते' त्तिद्वात्रिंशता कवलैः प्राप्तप्रमाणो भवति साधुर्न न्यूनोदर इति, 'एत्तो' त्ति इतो द्वात्रिंशत्कवलमानादेकेनापि 'घासेणं' ति ग्रासेन 'नो पकामरसभोईत्ति वत्तव्वं सिया' इति नात्यर्थमन्नभोक्तेति वाच्यं स्यादिति । 'अप्पसद्दे 'त्ति अल्पकलह इत्यर्थः, कलहः -- क्रोधकार्यम् 'अप्पझंझे' त्ति अल्पझञ्झःअविद्यमानकलहविशेषः, अल्पशब्दश्चाभाववचनोऽप्यस्ति । 'दव्वाभिग्गहचरए' त्ति द्रव्याश्रिताभिग्रहेण चरति - भिक्षामटति द्रव्याश्रिताभिग्रहं व चरति - आसेवते यः स द्रव्याभिग्रहचरकः, इह च भिक्षाचर्यायां प्रक्रन्तायां यद् द्रव्याभिग्रहचरक इत्युक्तं तद्धर्मधर्मिणोरभेदविवक्षणात् द्रव्याभिग्रहश्च लेपकृतादिद्रव्यविषयः, क्षेत्राभिग्रह: -- स्वग्रामपरग्रामादिविषयः, कालाभिग्रहः -- पूर्वाह्वादिविषयः, भावाभिग्रहस्तु गानहसनादिप्रवृत्तपुरुषादिविषयः, ‘उक्खित्तचरए' त्ति उत्क्षिप्तं - स्वप्रयोजनाय पाकभाजनादुद्धृ तं तदर्थमभिग्रहतश्चरति तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवमुत्तरत्रापि 'निक्खित्तचरएत्ति निक्षिप्तंपाकभाजनादनुद्धृतं तदर्थमभिग्रहतश्चरति तद्गवेषणा गच्छतीत्युत्क्षिप्तचरकः, एवमुत्तरत्रापि, 'निक्खित्तचरए’त्ति निक्षिप्तं भोजनाप्तरामुतक्षिप्तं च स्वार्थं तत एव निक्षिप्तोत्क्षिप्तं 'वट्टिज्जमाणचरए' त्ति परिवेष्यमाणचरकः 'साहिरिज्जमामचरए 'त्ति यत् कूरादिकं शीतलीकरणार्थं पटादिषु विस्तारितं तत्पुनर्भाजने क्षिप्यमानं संह्रियमाणमुच्यते, 'उवनी अचरए 'त्ति उपनीतं केनचित्कस्यचिदुपढौकितं प्रहेणकादि, 'अवनीयचरए 'त्ति अपनीतं देयद्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थ, 'उवनीयावनीचरए 'त्ति उपनीतं विनीतं ढौकितं सत् प्रहेणकाद्यपनीतं स्थानान्तरस्थापितं अथवोपनीतं च यश्चरति स तथा, अथवा उपनीतं-दायकेन वर्णितगुणं अपनीतं-निराकृतगुणम् उपनीतापनीतं यदेकेन गुणेन वर्णितं गुणान्तरापेक्षया तु दूषितं यथाऽहो शीतलं जलं केवलं क्षारमिति, यत्तु क्षारं किन्तु शीतलं तदपनीतोपनीतमुच्यत इति, अत आह 'अवनीयउवनीयचरए'त्ति, 'संसइचरए' त्ति संसृष्टेन - खरण्टितेन हस्तादिना दीयमानं संसृष्टमुच्यते तच्चरति यः स तथा, 'असंसठ्ठचरए 'त्ति उक्तविपरीतः, 'तज्जायसंसठ्ठचरए' त्ति तज्जातेन देयद्रव्याविरोधिना यत् संसृष्टं हस्तादि तेन दीयमानं यश्चरति स तथा, 'अन्नायचरए 'त्ति अज्ञातः- अनुपदर्शितस्वाजन्यादिभावः सँश्चरति यः स तथा - - 'मोनचरए' त्ति व्यक्तं, 'दिट्ठलाभिय'त्ति दृष्टस्यैव भक्तादेर्द्वष्टाद्वा पूर्वोपलब्धाद्दायकाल्लाभो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003346
Book TitleAgam Sutra Satik 12 Auppatik UpangSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages150
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy