SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ९२ औपपातिकउपासूत्रम्-११ च-अभिधानं यथा महावीर इति, गोत्रंच-वंशोयया काश्यपगोत्र इति, नामगोत्रमिति द्वन्द्वैकत्वमतस्तस्य, अथवा नामाभिधानं गोत्रंच यथार्थ, ततः कर्मधारय इति । “सवणयाए'त्ति श्रवणानां भावः श्रवणता तया, स्वार्थिको वा ताप्रत्ययः प्राकृतशैलीप्रभव इति । मू. (१२) तए णं से कूणिए राया भभसारपुत्ते तस्स पवित्तिवाउअस्स अंतिए एयमद्वं सोचा निसम्म हट्टतुट्टजावहिअए विअसिअवरकमलनयनवयणे पअलिअवरकडगतुडियकेयूरमउडकुंडलहारविरायंतरइयवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियं चवलं नरिंदे सीहासणाउ अब्भुट्टेइ २ ता पायपीढाउ पच्चोरुहइ २ ता पाउआओ ओमुअइ २ ता अवहट्ट पंच रायककुहाइं तंजहा -- खग्गं १ छत्तं २ उपफेसं ३ वाहणाओ४ बालवीअणं ५ एकसाडियं उत्तरासंगकरेइ र त्ता आयंते चोक्खे परमसुइभूए अंजलिमउलिअग्गहत्थे तित्थगराभिमुहे सत्तट्ठ पयाइं अनुगच्छति सत्तट्ठ पयाईअणुगच्छित्ता वामंजाणुंअंचेइ वामं जाणु अंचेत्ता दाहिणंजाणुंधरणितलंसि साहटु तिकखुत्तो मुद्धाणं धरणितलंसि निवेसेइ २ ता । ईसिं पचुण्णमति पच्चुण्णमित्ता कडगतुडियथंभिआओ भुआओ पडिसाहरति रत्ता करयल जाव कट्टु एवं वयासी वृ. 'सोचा निसम्मत्ति श्रुत्वा श्रोत्रेणाकर्ण्य निशम्य-हृदयेनावधार्य । 'धाराहयनीवसुरभिकुसुमचंचुमालइअउच्छियरोमकूवे' धाराभि-जलधरवारिधाराभिर्हतं यत्रीपस्य-कदम्बस्य सुरभिकुसुमं तत्तथा, तदिव चंचुमालइयत्ति-पुलकितोऽत एव उच्छ्रितरोमकूपश्च यः स तथा, इदं च विशेषणं कचिदेव श्यते। 'विअसियवरकमलणयणवयणे' विकसितानिभगवदागमनवाश्रिवणजनितानन्दातिशयादुत्फुल्लानि वरकमलवन्नयनवदनानि यस्य स तथा। ‘पचलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतरइयवच्छे' प्रचलितानिभगवदागमनश्रवणजनितसम्भ्रमातिरेकात् कम्पितानिवराणि-प्रधानानिकटकानिच कणानि तुटिकाश्च-बाहुरक्षकाः केयूराणि च-अङ्गदानि मुकुटं च-किरीटं कुण्डले च-कर्माभरणे यस्य स तथा, हारो-मुक्ताकलापो विराजन्–शोभमानो रचितो-विहितो वक्षसि उरसियेन स तथा, ततः कर्मधारयः । पालंबपलंबमाणघोलंतभूसणधरे' प्रालम्बो-झुम्बनकंप्रलम्बमानं-लम्बमानं घोलं च-दोलायमानं यद्भूषणम्-आभरणं तद्धारयति यः स तथा। ससंभमति सादरं 'तुरियं' चवलंति-अतित्वरितं, क्रयाविशेषणे चैते । पञ्चोरुहइत्ति प्रत्यवरोहति-अवतरतीत्यर्थ, कवचिदिदं पादुकाविशेषणं दृश्यते-'वरुलियवरिट्ठरिट्ठअंजणनिउणोवियमिसिमिसिंतमणिरयणमंडियाओत्तिएवंचात्राक्षरघटना-वरिष्ठानि-प्रधानानि वैडूर्यरिष्ठाञ्जनानि-रलविशेषा ययोस्ते तथा, तथा निपुणेन-कुशलेन शिल्पिना ओवियत्तिपरिकर्मिते येते तथा, अत एव मिसिमिसिंतत्ति-चिकिचिकायमाने मणिरलैः चन्द्रकान्तादिकतनादिभिर्मण्डिते-भूषिते ये तथा, ततः पदचतुष्टयस्य कर्मधारयः। तथेदमपि अवहट्टुपंचरायककुहाई, तंजहा-खग्गंछत्तंउपफेसंवाहणाओ वालवीअणं'ति तत्रावहटु-अपहत्य-परिहृत्य राजककुदानि-राजचिह्नानि उप्फेसंति-मुकुटं वालव्यजनीचामरमिति। 'एगसाडियंउत्तरासंगति एकः साटकोयस्मिन्नस्तिस एकसाटिकःउत्तरासङ्गो-वैकक्षकम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003346
Book TitleAgam Sutra Satik 12 Auppatik UpangSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages150
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy