________________
औपपातिकउपासूत्रम्-१०
लापनेयःसचासौ मल्लश्चेति यल्लमल्लः, सच कलकंच-दुष्टतिलकादिकं स्वेदश्च-प्रस्वेदो रजश्चरेणुस्तेषां यो दोषो-मालिन्यकरणंतेनवर्जितं शरीरं यस्य सतथा, सचासावतएव निरुपलेपश्चेति कर्मधारयः। 'छायाउज्जोइयंगमंगे' छायया-दीप्तया उद्योतितं प्रकाशितं अङ्गमङ्गं यस्य ।
_ 'घणनिचियसुबद्धलकखणुण्णयकूडागारनिभपिडियग्गसिरए घननिचितम्-अत्यनिबिडं घनवद्वा-अयोधनवत् निचितं-सुबद्धं सुष्टु स्नायुबद्धं लक्षणोन्नतं-प्रशस्तलक्षणं कूटस्य-प्रवतशिखरस्य आकारेणसंस्थानेन निभं-सशं यत्तत्तथा, पिण्डिकेव- पाषाणपिण्डिकेवाग्रम्-उष्णीषलक्षणंयस्यतत्तथा, तदेवंविधंशिरोयस्यस घननिचितादिविशेषणशिरस्कः
सामलिबोंडधणनिचियप्फो (च्छो) डियमिउविसयपसत्थसुहमलक्खणसुगंधसुंदरभुअमो अगभिंगनेलकज्जलपहिभमरगणणिद्धनिकुरुंबनिचियकुंचियपयाहिणावत्तमुद्धसिरए' शाल्मली-वृक्षविशेषः तस्या यहोण्डं-फलं घननिचितम्-अतीव निबिडं 'छोटियं ति छोटितं स्फोटितं तद्वत् मृदवः-सुकुमाराश्च विरादाश्च-व्यक्ताः प्रशस्ताश्च-शुभाः सूक्ष्माश्च-लक्ष्णाः लक्षणाश्च- लाक्षणिकाः सुगन्धयश्च-सुरभयः सुन्दराश्च-शोभनाः भुजमोचकवद्-रत्नविशेष इव भृङ्गवत्कीटविशेषवदङ्गारविशेषवद्वा नैलवत्-नीलीविकारवत् अथवा भृङ्गनेलवत् कजलवत्-मषीव प्रहृष्टभ्रमरगणवच्च-निरुजद्विरेकवृन्दमिव स्निग्धः-कृष्णच्छायो निकुरुम्बसमूहोयेषां ते तथा,तेच निचिताश्च-निविडाः कुञ्चिताश्च-कुण्डलीभूताःप्रदक्षिणावर्ताश्च प्रतीताः मूर्द्धनि-मस्तके शिरोज-वाला यस्य स तथा, अधिकृतवाचनायां भुजमोचकशब्दादारभ्य चेदमधीयते न सामलीत्यादीति।
'दालिमपुप्फप्पगासतवणिज्जसरिसनिम्मलसुणिद्धकेसंतकेसभूमी' दाडिमपुष्पप्रकाशाच रक्तेत्यर्थः, तपनीयसशी च-रक्तसुवर्णसमवर्णेत्यर्थ, निर्मला चसुस्निग्धाचप्रतीता केशान्तेवालसमीपेकेशभूमि-केशोत्पत्तिस्थानभूता मस्तकत्वक्यस्य स तथा। घननिचियेत्यादिप्राग्वत्, छत्राकारोत्तमाङ्गदेशः, उन्नतत्वसाधात्। 'निव्वणसमलट्ठमट्टचंदद्धसमणिडाले निव्रणविस्फोटकादिकृतक्षतरहितं समम्-अविषममत एव लष्टं-मनोज्ञं मृष्टं-शुद्धं चन्द्रार्धसमं- शशधरशकलसशं ललाटम्-अलिकं यस्य स तथा । 'उडुवइपडिपुण्णसोमवयणे' इह प्राकृतत्वात् प्रतिपूर्णोडुपतिसौम्यवदन इति दृश्यम्, उडुपति चन्द्रः ।।
'अल्लीणपमाणजुत्तसवणे आलीनौ नतुटप्परौप्रमाणयुक्तौ स्वप्रमाणोपेतौ श्रवणौ-कर्णी यस्य स तथा, अत एव 'सुश्रवणः' शोभनश्रोत्रः शोमनश्रवणव्यापारो वा । 'पीणमंसलकवोलदेसभाए' पीनौ-अकृशौ यतो मांसली समांसौ कपोलौ-गण्डौ तयोस्तावेव वा मुखस्य देशरूपी भागौयस्य स तथा। 'आणामियचावरुइलकिण्हब्भराइतणुकसिणणिद्धभमुहे' आनामितम्-ईषन्नामित यच्चापं-धनुस्तद्रुचिरे-मनोज्ञे कृष्णाभ्रराजीव-कालिकमेघरेखेव तनुके कृष्णे-काले स्निग्धे च-सुच्छाये ध्रुवी-नेत्रावयवविशेषौ यस्य स तथा, वाचनान्तरे तु श्यते 'आणामियचावरुइलकिण्हब्भराइसंठियसंगयआययसुजायभमुए' आनामितचापवद्रुचिरे कृष्णाभ्रराजीवच संस्थिते-तत्संस्थानवत्यौ सङ्गते-उचिते आयते-दीर्घ सुजाते-सुनिष्पन्ने भ्रुवी यस्य स तथा।
'अवदालियपुंडरीयणयणे अवदालितं-रविकरैर्विकासितंयत्पुण्डरीकं-सितपञतद्वन्नयने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org