SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ७६ औपपातिकउपाङ्गसूत्रम्-४ एएसिं वन्नओ भाणियब्वो जाव सिबियपविमोवणा सुरम्मा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा, ते णं तिलया जाव नंदिरुक्खा अन्नेहिं बहूहिँ पउमलयाहिं नागलयाहिं। असोअलयाहिं चंपगलयाहिं चूयलयाहिं वनलयाहिं वासंतियलयाहिं अइमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सव्वओ समंता संपरिखित्ता, ताओ णं पउमलयाओ निच्चं कुसुमियाओ जाव वडिंसयधरीओ पासादीयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ॥ १.सोऽशोकवरपादपः अन्यैर्बहुभिस्तिलकैलकुचैरछत्रोपैः शिरीषैः सप्तपणे अयुक्छदपर्यायरयुक्पत्रनामकैः दधिपणे लोधैः धवैः चन्दनैः-मलयजपर्यायरर्जुनः ककुरापर्यायः नीपैः-कदम्बैः कुटजैः-गिरिमल्लिकापर्यायः सव्यैः पनसैर्दाडिमैः शालैः-सर्जपर्यायस्तालैःतृणराजपर्यायः तमालैः प्रियकैः-असनपर्यायः प्रियङ्गुभिः-श्यामपर्यायैः पुरोपगैः राजवृक्षैः नन्दिवृक्ष-रूढिगम्यैः सर्वतः समन्तात् सम्परिक्षिप्त इत्यादि सुगममापद्मलताशब्दादिति। ___ 'पउमलयाहिं'ति पद्मलताः-स्थलकमलिन्यः पद्मकाभिधानवृक्षलता वा, नागादयो वृक्षविशेषास्तेषां लताः-तनुकास्त एव, तत्राशोकः-कथेल्ली चूतः-सहकारः वनः-पीलुकः, वासन्तीलता अतिमुक्तकलताश्च य्यप्येकार्था नामकोशेऽधीतास्तथाऽपीह भेदो रूढितोऽवसेयः, श्यामा प्रियङ्गु, शेषलता रूढिगम्याः, इह लतावर्णकानन्तरमशोकवर्णकं पुस्तकान्तरे इदमधिकमधीयते-'तस्स णं असोगवरपायवस्स उवरिबहवे अडअट्ठमंगलगा पन्नत्ता' अष्टावष्टाविति वीप्साकरणाप्रत्येकं तेऽष्टावित्ति वृद्धाः, अन्ये त्वष्टाविति सङ्ख्या, अष्टमङ्गलकानीति च संज्ञा । तंजहा-सोवत्थिय १ सिरिवच्छ २ नंदियावत्त ३ वद्धमाणग ४ भद्दासण ५ कलस ६ मच्छ७ दप्पणा ८, तत्र श्रीवत्सः तीर्थङ्करहृदयावयवविशेषाकारो, नन्द्यावर्त-प्रतिदिग्नवकोणः स्वस्तिविशेषो रूढिगम्यो, वर्द्धमानकं-शरावं, पुरुषारूढः पुरुष इत्यन्ये, भद्रासनं-सिंहासनं, दर्पणः-आदर्श, शेषाणि प्रतीतानि । ____ 'सव्वरयणामया' 'अच्छाः' स्वच्छाःआकाशस्फटिकवत्, 'सण्हा' श्लक्ष्णाः श्लक्ष्णपुद्गलनिवृतत्वात्, मण्हा मसृणाः, 'घटा घृष्या इवघृष्टा खरशानया प्रतिमेव मठ्ठा' मृष्टाः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेववाशोधिताः,अतएव 'निरया' नीरजसः रजोरहिताः निर्मलाः' कठिनमलरहिताः 'निप्पंका' आर्द्रमलरहिताः 'निकंकडच्छाया' निरावरणदीप्तयः 'सप्पहा' सप्रभाः 'समिरीया' सकिरणाः ‘सउनोया' प्रत्यासन्नवस्तुद्योतकाः 'पासादीया ४।। 'तस्सणंअसोगवरपायवस्सउवरिबहवे किण्हचामरज्झया' कृष्णवर्णचामरयुक्तध्वजाः 'नीलचामरज्झया लोहियचामरज्झया सुकिल्लचामरज्झया हालिद्दचामरज्झया अच्छा सण्हा' 'रुप्पपट्टा' रौप्यमयपताकापटाः वइरामयदंडा' वज्रदण्डाः ‘जलयामलगंधिया' पद्मवत् निर्दोषगन्धाः 'सुरम्मापासादीया' 'तस्सणं असोगवरपायवस्स' 'उवरि' उपरिष्टत् 'बहवे' 'छत्ताइच्छत्ता' उपर्युपरिस्थिताऽऽतपत्राणि 'पडागाइपडाया' पताकोपरिस्थितपताकाः 'घण्टाजुयला चामरजुयला' 'उप्पलहत्थगा' नीलोत्पलकलापाः । 'पउमहत्थगा' पद्मानिरविबोध्यानि 'कुमुयहत्थगा' कुमुदानिचन्द्रबोध्यानीति, 'कुसुमहत्थय'त्ति पाठान्तरं 'नलिमहत्थगा सुभगहत्थगा सोगंधियहत्थगा' नलिनादयः पद्मविशेषा रूढिगम्याः, 'पुंडरीयहत्थया' पुण्डरीकाणि-सितपद्मानि 'महापुंडरीयहत्था' महापुण्डरीकाणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003346
Book TitleAgam Sutra Satik 12 Auppatik UpangSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages150
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy