________________
औपपातिकउपाङ्गसूत्रम्-२
विस्तीर्ण वृत्तो - वर्त्तुलः ' वग्घारिओ' त्ति प्लम्बमानः माल्यदामकलापः - पुष्पमालासमूहो यत्र तत्तथेति 'पञ्चवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए' पञ्चवरेणेन सरसेन सुरभिणा मुक्तेन- क्षिप्तेन पुष्पपुञ्चलक्षणेनोपचारेण पूजया कलितं यत्तत्तथा ।
'कालागुरुपवरकुंदुरुक्क तुरुक्कधूवमधमधन्तगन्धुद्धुयाभिरामे' कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्धः उद्भुत उद्भूतस्तेनाभिरामं यत्तत्तथा, तत्र 'कुंदुरुक्क' तिचीडा 'तुरुक्क' ति च सिल्हकं । ‘सुगन्धवरगंधगंधिए' सुगन्धा ये वरगन्धाः - प्रवरवासास्तेषां गन्धो यत्रास्ति तत्तथा गन्धवट्टिभूए' सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पमित्यर्थः । 'नडनट्टे' त्यादि पूर्ववन्नवरमिह भुयगा-भुजङ्गा भोगिन इत्यर्थः, भोजका वा तदर्च्चकाः 'मागधा' भट्टा इति । 'बहुजणजाणवयस्स विस्सुयकित्तिए' बहोर्जनस्य - पौरस्य जानपदस्य च - जनपदभवलोकस्य विश्रुतकीर्तिकंप्रतीतख्यातिकं । 'बहुजणस्स आहुस्स' त्ति आहोतुः - दातुः क्वचिदिदं न दृश्यते, 'आहुणिजे त्ति आहवनीयं - सम्प्रदानभूतं । 'पाहुणिज्जे' त्ति प्रकर्षेण आहवनीयं ।
1
‘अच्चणिज्जे’ चन्दनगन्धादिभि । 'वन्दणिज्जे' स्तुतिभि । 'नमंसणिज्जे' प्रणामतः । 'पूयणिज्जे' पुष्पैः । ' सक्करणिजे ' वस्त्रैः । 'सम्माणणिजे ' बहुमानविषयतया । 'कल्लाणं मङ्गलं देवयं चेइयं विनएणं पज्जुवासणिजे ' कल्याणमित्यादिबुद्धया विनयेन पर्युपासनीयं तत्र 'कल्याणम्' अर्थहेतुः 'मङ्गलम्' अनर्थप्रतिहतिहेतुः 'देवतं' देवः 'चैत्यम्' इष्टदेवताप्रतिमा 'दिव्वे' दिव्यं प्रधानं । 'सच्चे' सत्यं सत्यादेशत्वात् । 'सच्चोवाए' सत्यावपातं । 'सत्यसेवं' सेवायाः सफलीकरणात् ।
'सन्निहियपाडिहेरे' विहितदेवताप्रातिहार्यं । 'जागसहस्स भागपडिच्छए' यागाःपूजाविशेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागम् - अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा, वाचनानन्तरे ‘यागभागदायसहस्सपडिच्छए' यागाः --पुजाविशेषाः भागा- विंशतिभागादयो दायाः-सामान्यदानान्येषां सहस्राणि प्रतीपच्छति यत्तत्तथा । 'बहुजणो' इत्यादि सुगमं, नवरं 'पुन्नभद्दचेइयं २' इति अत्र द्विर्वचनं भक्तिसम्भ्रमविवक्षयेति ।
७२
नू. (३) से णं पुन्नभद्दे चेइए एक्केणं महया वनसंडेणं सव्वओ समंता संपरिक्खित्ते, सेणं वनसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिब्वे तिब्वोभासे । किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए निद्धे निद्धच्छाए तिब्वे तिव्बच्छाए घणकडि अकडिच्छाए रम्मे महामेहणिकुरंबभूए ।
वृ. 'सव्वओ समन्ता' इति सर्वतः - सर्व्वदिक्षु समन्तात् - विदिक्षु । 'किण्हे' त्ति कालवर्ण । 'किण्होभासे 'त्ति कृष्णावभासः कृष्णप्रभः, कृष्ण एवावभासत इति कृष्णावभासः । एवं 'नीले नीलोभासे' प्रदेशान्तरे, 'हरिए हरिओमासे' प्रदेशान्तरे एव, तत्र नीलो - मयूरगलवत्, हरितस्तु शुकपुच्छवत्, हरितालाभ इति वृद्धाः । 'सीए' त्ति शीतः स्पर्शापेक्षया, बल्याद्याक्रन्तत्वात् इति वृद्धाः । 'निद्धे' त्ति स्निग्धो न तु रूक्षः । 'तिव्वे' त्ति तीव्रो वर्णादिगुणप्रकर्षवान् ।
'किण्हे किण्हच्छाए 'त्ति, इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि - कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः । 'घणकडियकडिच्छाए' त्ति अन्योऽन्यं शाखानुप्रवेशाद् बहलनिरन्तरच्छाय इत्यर्थ । 'महामेहणिकुरंबभूए' त्ति महामेघवृन्दकल्पः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org