________________
औपपातिकउपाङ्गसूत्रम् - ५२
वेयणिद आउयं नामं गुत्तं, सव्वबहुए से वैयणिज्जे कम्मे भवइ, सव्वत्थोवे से आउए कम्मे भवइ, विसमं समं करेइ बंधणेहिं ठिईहिं य, विसमसमकरणयाए बंधणेहिं ठिईहि य एवं खलु केवली समोहणंति एवं खलु केवली समुग्धायं गच्छंति । सब्वेवि णं भंते! केवली समुग्घायं गच्छति ?, नो इणडे समट्टे,
१८०
वृ. तदेवमुक्तो विवक्षितोपपातः, अधुनाऽनन्तरोक्तसिद्धोपपातसम्बन्धेन तत्कारणभूतसमुद्घातादिवक्तव्यतां दर्शयन्नाह - 'अनागारे ण' मित्यादि व्यक्तं, नवरं 'केवलिसमुग्धाएणं ति न कषायादिसमुद्घातेन 'समोहए' त्ति समवहतो - विक्षिप्त प्रदेशः 'केवलकप्पं' ति केवलज्ञानकल्प सम्पूर्णमित्यर्थः, वृद्धव्याख्या तु केवलः - सम्पूर्णः कल्पत इति कल्पः - स्वकार्यकरणसमर्थः वस्तुरूप इतियावत्, केवलश्चासौ कल्पश्चेति समासोऽतस्तं 'निजरापोग्गलेहिं' ति निर्जराप्रधानाः पुद्गला निर्जरापुद्गलाः, जीवेनाकर्मतामापादिताः कर्मप्रदेशा इत्यर्थः, अतस्तैर्निर्जरापुद्गलैः 'फुडे' त्ति स्पृष्टो व्याप्तः 'छउमत्थे णं' ति छद्मस्थो निरतिशयज्ञानयुक्त इह प्रतिपत्तव्यो यतः छद्मस्थोऽपि विशिष्टावधिज्ञानयुक्तो निर्जरापुद्गलान् जानात्येव 'रूवगयं (चेव) लहइ सव्व' मिति वचनात् 'वण्णेण वण्णं' ति वर्णेन-वर्णतया याथात्म्येनेत्यर्थः वर्णं - कालवर्णादिकं जानाति विशेषतः पश्यति सामान्यतः, 'नो इणडे ति नायमर्थः 'सम' त्ति समर्थ:-सङ्गतः, कर्मपुद्गलानां सातिशयज्ञान-गम्यत्वात्,
'सव्वब्यंतराए' त्ति सर्वाभ्यन्तरकः 'सव्वखुड्डाए' त्ति सर्वक्षुल्लकः, दीर्घत्वं चात्र प्राकृतत्वात्, 'वट्टे' त्ति वृत्तः, वृत्तश्च मोदकवद् धनवृत्तोऽपि स्यादतस्तद्वयवच्छेदेन प्रतरवृत्तताभिधानार्थमाह'तेल्लापूयसंठाणसंठिए 'त्तिउपलक्षणत्वादस्य घृतापूपादेरप्यत्र ग्रहः, 'रहचक्कवाल 'त्ति चक्रवालंमण्डलं मण्डलत्वधर्मयोगाच्च रथचक्रमपि रथचक्रवालं 'पुक्खरकण्णिय'त्ति पद्यबीजकोशः, 'जाव इणामेवत्तिकट्टु' त्ति यावदिति परिमाणार्थस्तावदित्यस्य गम्यमानस्य सव्यपेक्षः,
'इणामेव' ; त्ति इदं - गमनम्, एवमिति चटिकारूपशीघ्रत्वावेदकहस्तव्यापारोपदर्शनपरः, अनुस्वाराश्रवणं च प्राकृतत्वात्, द्विर्वचनं च शीघ्रतातिशयोपदर्शनपरम्, इतिरुपप्रदर्शनार्थः, कृत्वा - विधाय 'तिहिं अच्छरानिवाएहिं ति तिसृभिश्चपुटिकाभिरित्यर्थः 'तिस्सत्तखुत्तो' तित्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारास्त्रिः सप्तकृत्वः एकविंशतिवारा इत्यर्थः, 'हव्वं' तिशीघ्रं 'घाणपोग्गलेहिं' ति गन्धपुद्गलैः, इह स्थाने यावदित्यस्य सव्यपेक्षस्तावदित्ययंशब्दो दृश्यः, 'एस्सुहुमाणं' ति एतत्सूक्ष्माः कोऽर्थः ? एवं नाम सूक्ष्मास्ते यथा तांश्छद्मस्थो वर्णादिभिर्न जानातीति
'समणाउस्सो' त्ति हे श्रमण ! हे आयुष्मन् !, अथवा श्रमणश्चासावायुष्पाँश्चेति समासस्तस्यामन्त्रणं हे श्रमणायुष्मन् !, यथा अतिसूक्ष्मत्वाद्गन्धपुद्गलान्न जानातीत्येवं निर्जरापुद्गलानपीति दृष्टान्तोपनयः । ' कम्हाणं भंते! केवली समोहणंति'त्ति समवध्ान्ति- प्रदेशान् दिक्षु प्रक्षिपन्ति, एतदेव सुखप्रतिपत्तये वाक्यान्तरेणाह - 'कम्हाणं केवली समुग्धायं गच्छंति' त्ति, 'अपलिक्खीणे' त्ति स्थितेरक्षयात् 'अवेइया अनिञ्जिष्ण' त्ति कवचिद् ध्श्यते, तत्र अवेदितास्तद्रसस्याननुभूतत्वात् अनिर्जीर्णाः- तत्प्रदेशानां जीवप्रदेशेभ्योऽपरिशटनात् 'बहुए से वेयणिजे ' त्ति से - तस्य केवलिनो यः समुद्घातं प्रतिपद्यते न पुनः सर्वस्यैव, केषाञ्चिदकृतसमुद्घातानामपि समभावस्येष्टत्वात् 'बंधणेहिं' ति प्रदेशबन्धानुभागबन्धावाश्रित्येत्यर्थः, 'ठिईहि य'त्ति स्थितिबन्धविशेषानाश्रित्येत्यर्थः, 'विसमसमकरणयाए बन्धणेहिं ठिईहि य एवं खलु केवली समोहणंति' इहैवमक्षरघटना - एवं खलु विषमसमकरणाय बन्धनादिभिः केवलिनः समुद्घातयन्तीति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org