________________
मूलं - ४८
१६५
‘अयपायाणि वे’त्यादिसूत्रे यावत्करणात् त्रपुकसीसकरजतजातरूपकाचवेडन्तियवृत्तलोहकंसलोहहारपुटकरीतिकामणिशङ्खदन्तचर्मचेल शैलशब्दविशेषितानि पात्राणि दृश्यानि, 'अन्नयराणि वा तहप्पगाराणि महद्धणमोल्लाई' इति च ६श्यं तत्रायो - लोहं रजतं - रूप्यं जातरूपंसुवर्णं काचः--पाषाणविकारः वेडंतियत्ति - रूढिगम्यं वृत्तलोहं- त्रिकुटीति यदुच्यते कांस्यलोहंकांस्यमेव हारपुटकं - मुक्ताशुक्तिपुटं रीतिका- पीतला अन्यतराणि वा एषां मध्ये एकतराणि एतद्वयतिरिक्तानि वा तथाप्रकाराणि भोजनादिकार्यकरणसमर्थानि महत्-प्रभूतं धनं द्रव्यं मूल्यं-प्रतीतं येषां तानि तता 'अलाबुपाएणं' ति अलाबुपात्रात् तुम्बकभाजनादित्यर्थः, तथा 'अयबन्धणाणि वे' त्यत्र यावत्करणात् त्रपुकबन्धनादीनि शैलबन्धनान्तानि पात्राणि दृश्यानि ।
'अन्नयराई तहप्पगाराई महद्धणमुल्लाई' इत्येतच्च दृश्यमिति, पुस्तकान्तरे समग्रमिदं सूत्रद्वयमस्त्येवेति, ‘नन्नत्थ एगाए धाउरत्ताए' त्ति इह युगलिकयेति शेषो दृश्यः, हारादीनि प्राग्वत्, नवरं 'दसमुद्दियामंतयं' ति रूढशब्दत्वादस्य हस्ताङ्गुलीमुद्रिकादशकमित्यर्थ, 'पवित्तएणं' त्ति पवित्रकम् - अङ्गुलीयकं 'गंथिमवेढिमपूरिमसंघाइमे 'त्ति ग्रन्थिमं- ग्रन्थनेन निर्वृत्तं मालारूपं वेष्टिमं-मालावेष्टननिर्वृत्तं पुष्पलम्बूसकादि पूरिमं पूरणनिर्वृत्तं वंशशलाकाजालकपूरणमयमिति सङ्घातिमं - सङ्घातेननिर्वृत्तम् इतरेतरस्य नालप्रवेशनेन मल्लेत्ति-माल्यानि मालायां साधूनि तस्यै हितानि वेति पुष्पाणीत्यर्थ: ‘कण्णपूरएणं' ति कर्मपूरकः- पुष्पमयः कर्माभरणविशेषः । ॥ १ ॥ मागहए पत्थए त्ति दो असईओ पसई दोहिं पसईहिं सेइया होई । चउसेइओ उ कुलओ चउकुलओ पत्थओ होइ ॥
चउपत्थमाढ्यं तह चत्तारि य आढया भवे दोणो' इत्यादिमानलक्षणलक्षितो मागधप्रस्थः, 'सेऽवि य वहमाणए 'त्ति तदपि च जलं वहमानं - नद्यादिश्रोतोवर्त्ति व्याप्रियमाणं वा, 'थिमिओदए' त्ति स्तिमितोदकं यस्याधः कर्दमो नास्ति 'बहुपसन्ने' त्ति बहुप्रसन्नम् - अतिस्वच्छं 'परिपूए' त्ति परिपूतं वस्त्रेण गालितं 'पिबित्तए 'त्ति पातुं 'चारुचमस' त्ति चरु - स्थालीविशेषश्चमसो- दर्विकेति १२ ॥
मू. (४९) तेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासिसयाई गिम्हकालसमयंसि जेट्ठामूलमासंसि गंगाए महानईए उभओकूलेणं कंपिल्लपुराओ नयराओ पुरिमतालं नयरं संपट्टिया विहाराए ।
तए णं तेसिं परिव्वायगाणं तीसे अगामियाए छिन्नोवायाए दीहमद्धाए अडवीए कंचि देसंतरमनुपत्ताणं से पुव्यग्गहिए उदए अनुपुव्वेणं परिभुंजमाणे झीणे ।
तए णं ते परिव्वाया झीणोदगा समाणा तण्हाए पारब्भमाणा पार २ उदगदातारमपस्समाणा अन्नमन्नं सहावेति सद्दावित्ता एवं वयासी एवं खलु देवाणुप्पिया ! अम्ह इमीसे अगामि आए जाव अडवीए कंचि देसंतरमनुपत्ताणं से उदय जाव झीणे तं सेयं खलु देवाणुप्पिया ।
अम्ह इमीसे अगामियाए जाव अडवीए उदगदातारस्स सव्वओ समंता मग्गणगवेसणं करितए तिकड्ड अन्नमन्नस्स अंतिए एअमठ्ठे पडिसुगंति २ त्ता तीसे अगामियाए जाव अडवीए उदगदातारस्स सव्वओ समंता मग्गणगवेसणं करेइ करिता उदगदातारमलभमाणा दोघंपि अन्नमन्नं सद्दार्वेति सद्दावेत्ता एवं वयासी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org