SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुताङ्गसूत्रम् १/७/२९ तम्, 'अभिक्खणं तिपुनःपुनः ‘कट्ठाइंति क्लेशहेतुकानि कलुणाईतिकरुणोत्पादकानि वीसराइंति विरूपध्वनीनीतिगम्यते, 'कूयमाणं तिकूजन्तम्-अव्यक्तं भणन्तं, शेषं सर्वप्रथमाध्ययनवत् नवरं देहंबलियाए देहबलिमित्यस्याभिधानंप्राकृतशैल्या देहबलियातीए देहंबलियाए 'पाड'त्ति पाडलिसंडाओ नगराओ 'पडिणि त्ति पडिनिक्खमइत्ति दृश्य, 'जेणेव समणे भगवं महावीरे तेणामेवउवागच्छति२ गमणागमणाएपडिकमई ईपिथिकी प्रतिक्रमतीत्यर्थ भत्तपाणंआलोएइ २ भत्तपाणं पडिसेइ २ समणेणं भगवा अब्मणुन्नाए यावत्करणात् 'समाणे' इत्यादिश्य। 'बिलमिव पन्नगभूए अप्पाणेणं आहारमाहारेइत्तिआत्मना आहारयति, किंभूतः सन् ? इत्याह-'पन्नगभूतः' नागकल्पो भगवान आहारस्य रसोपलम्मार्थमचर्वणात, कथम्भूतमाहारम् -बिलमिव असंस्पर्शनात्, नागो हि बिलमसंस्पृशन् आत्मानं तत्र प्रवेशयति, एवं भगवानप्याहारमसंस्पृशन् सोपलम्मानपेक्षः सन्नाहरयतीति । 'दोचंपित्ति द्विरपि द्वितीयां वाराम् _ 'अटुंगाउव्वेयपाढए'त्तिआयुर्वेदो-वैद्यकशास्त्रं कुमारभिचं ति कुमाराणां-बालकानां भृतौ-पोषणे साधुकुमारभृत्यं, तद्धिशास्त्रंकुमारभरणस्य-क्षीरस्यदोषाणांसंशोधनार्थ दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं चेति १ 'सलाग'त्ति शलाकायाः कर्म शालाक्यं तप्रतिपादक तन्त्रमपिशालाक्यं, तद्धिऊर्ध्वजन्तुगतानां रोगाणां श्रवणवदनादिसंश्रितानामुपशमनार्थमिति 'सल्लहत्ते'ति शल्यस्य हत्या हननमुद्धार इत्यर्थ शल्यह्या तत्प्रतिपादकं शास्त्रं शल्यहत्यमिति 'कायतिगिच्छिति कायस्य-ज्वरादिरोगग्रस्तशरीरस्य विकित्सा-रोगप्रतिक्रिया यत्राभिधीयते तत्कायचिकित्सैव, तत्तन्त्रं हि मध्याह्नसमाश्रितानां ज्वरातीसारादीनां शमनार्थमिति। _ 'जंगोले'त्ति विषघातक्रियाऽभिधायकं जङ्गोलं-अगदं तत्तन्त्रं तद्धि सर्पकीटलूतादष्टविनाशार्थं विविधविषसंयोगोपशमनार्थं चेति 'भूयवेज'त्ति भूतानां निग्रहार्था विद्या-शास्त्रं भूतविद्, साहि देवासुरगन्धर्बयक्षराक्षसाधुपसृष्टचेतसांशान्तिकर्मबलिकरणादिभिर्ग्रहोपशमनार्था रसायणे'त्ति रसः-अमृतरसस्तस्यायनं प्राप्ति रसायनंतद्विधयःस्थापनमायुर्मेघाकरं रोगोपहरणसमर्थचतदभिधायकंतन्त्रमपि रसायनम् वाईकरणे'त्तिअवाजिनो वाजिनःकरणंवाजीकरणंशुक्रवर्द्धनेनाश्वस्येव करणमित्यर्थतदभिधायक शास्त्रम्, अल्पक्षीणवि-शुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थं चेति । 'सिवहत्थे'त्ति आरोग्यकरहस्तः 'सुहहत्थे'त्ति शुभहस्तः-प्रशस्तकरः सुखहेतुहस्तो वा 'लहुहत्थे ति दक्षहस्तः। 'राईसर' इत्यत्र यावत्करणात् 'तलवरमाडंबियकोडुंबियसेट्ठी तिश्यं, 'दुब्बलाण यत्ति कृशानां हीनबलानां वा 'गिलाणाण यत्ति क्षीणहर्षाणां शोकजनितपीडानामित्यर्थ वाहियाण यत्तिव्याधि-चिरस्थायीकुष्ठादिरूपःससंजातो येषांतेव्याथिता व्यथितावा-उष्णादिभिरभिभूता अतस्तेषां 'रोगियाणं'ति संजाताचिरस्थायिज्वरादिदोषाणां, केषामेवंविधानाम् ? इत्याह'सणाहाणय'त्ति सस्वामिनाम् 'अणाहाण यत्ति निस्वामिनां 'समणाण यत्ति गैरिकादीनां 'भिक्खगाण यत्ति तदन्येषां 'करोडियाण य'त्ति कापालिकानाम् 'आउराणं'ति चिकित्साया अविषयभूतानाम् ‘अप्पेगइयाणं मच्छमंसाई उवइसति' इत्येतस्य वाक्यस्यानुसारेणागेतनानि वाक्यानि ऊह्यानि, मत्स्याः कच्छपा ग्राहाः मकराः सुंसुमाराः अजाः एलकाः रोज्झाः शूकराः मृगाः शशकाः गावः महिषाः तित्तिराः वर्तकाः लावकाः कपोताः कुकटाः मयूराश्च प्रतीताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003345
Book TitleAgam Sutra Satik 11 Vipakshrut AngSutra 11
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages86
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 11, & agam_vipakshrut
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy