SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ४५२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२१ कषायाः-क्रोधमानमाया एतएव महान्स्कन्धो यस्यस तथा, इह चकषायग्रहणेऽपि यल्लोभग्रहणं तत्तस्यप्रधानत्वापेक्ष,तथा चिन्ताश्च-चिन्तनानिआयासाश्च मनःप्रभृतीनांखेदाःतएव पाठान्तरेण चिन्ताशतान्येवनिचिता-निरन्तरा विपुलाः-विस्तीर्णाशाला:-शाखायस्य स तथा, तथा 'गारव'त्ति गौरवाणि-ऋद्धयादिष्वादरकरणानि तान्येव -'पविरल्लिय'त्ति विस्तारवत् अग्रविटपं-शाखामध्यभागाग्रयं विस्ताराग्रे वा यस्य स तथा, पाठान्तरे गौरवप्रविरेल्लिताग्रशिखरः, तथा 'नियडितयापत्तपल्लवधरो' निकृतयःअत्युपचारकरणेन वञ्चनानि मायाकर्माच्छादनार्थानि चामायान्तराणिता एव त्वक्पत्रपल्लवास्तान् धारयति यः स तथा, पल्लवाचेह कोमल पत्रं, तथा पुष्पं फलं 'जस्स कामभोग'त्ति प्रतीतमेव, तथा 'आयासवि- शूरणाकलहपकंपियग्गसिहरो' आयासः-शरीरखेदः विसूराणा-चित्तखेदः कलहो-वचनभण्डनं एत एव प्रकम्पितं-प्रकम्मपमानमग्रशिखरं-शिखराग्रं यस्य स तथा, नरपतिसंपूजितोबहुजनस्य हृदयदयितइतिच प्रतीतं,अस्य-प्रत्यक्षस्यमोक्षवरस्य-भावमोक्षस्य मुक्तिरेव-निर्लोभतैव मार्गः-उपायो मोक्षवरमुक्तिमार्गः तस्य परिघभूतः-अर्गलोपमो मोक्षविघातक इतियावत् चरममधर्मद्वारं व्यक्त। अनेन च याश इतिद्वारमुक्तं, अथ यन्नामेत्युच्यते मू. (२२) तस्स य नामानि इमाणि गोण्णाणि होति तीसं, तंजहा-परिग्गहो १ संचयो २ चयो ३ उवचओ४ निहाणं ५ संभारो ६ संकरो७ आयरो ८ पिंडो ९दव्वसारो १० तहा महिच्छा ११ पडिबंधो १२ लोहप्पा १३ महद्दी १४ उवकरणं १५ संरक्खणा य १६ भारो १७ संपाउप्पायको १८ कलिकरंडो १९ पवित्थरो २० अनत्थो २१ संथवो २२ अगुत्ती २३आयासो २४ अविओगो २५ अमुत्ती २६ तण्हा २७अनत्थको २८ आसत्ती २९ असंतोसोत्तिविय ३०, तस्स एयाणि एवमादीणि नाधेजाणि होति तीसं। वृ. तस्य च नामानीमानि गौणानि भवन्ति त्रिंशत्, तद्यथा-परिगृह्यत इति परिग्रहःशरीरोपध्यादिः परिग्रहणं वा परिग्रहः स्वीकारः १ संचीयत इति सञ्चयनं वा सञ्चयः २ एवं चयः ३ उपचयो ४निधानं ५ सम्भ्रियते धार्यतेसम्भरणंवा-धारणसम्भारः ६सङ्कीर्यतेसङ्करणं वा-सम्पिण्डनंसकरः७एवमादरः८ पिण्डः पिण्डनीयं पिण्डनं वा ९ द्रव्यसारो-द्रव्यलक्षणसारः १० तथा महेच्छा-अपरिमितवाञ्छा ११ प्रतिबन्धः-अभिष्वङ्गः १२ लोभात्मा-लोभखभावः १३ महती इच्छा, क्वचित् ‘महद्दी'त्ति पाठः तत्र 'अई गतौ याचने चेति वचनादर्दिः-याचा महती-ज्ञानोपष्टम्मादिकारणविकलत्वादपरिमाणा अमिहार्दिः १४ उपकरणं- उपाधिः १५ संरक्षणा-अभिष्वङ्गवशाच्छरीरादिरक्षणं १६ भारो-गुरुताकरणं १७ सम्पातानांअनर्थमलीकानामुत्पादकः संपातोत्पादकः १८ कालीनां-कलहानां करण्ड इव-भाजनविशेष इव कलिकरंड:१९प्रविस्तारो-धनधान्यादिविस्तारः २० अनर्थः-अनर्थहेतुत्वात २१ संस्तवःपरिचयः स चाभिष्वङ्गहेतुत्वात्परिग्रहः २२ अगुप्तिः-इच्छाया अगोपनं २३ आयासः-खेदः तद्धेतुत्वात्परिग्रहोऽप्यायास उक्तः, आह च॥१॥ "वहबंधणमारण [सेहणाउ काओ परिग्गहे नस्थि? । तंजइ परिग्गहुच्चिय जइधम्मो तो नणुपवंचो॥गाहा"] अवियोगो-धनादेरत्यजनं २७ अमुक्तिः-सलोभता २६ तृष्णा-धनाद्याकाङ्क्ष २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy