SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं-५, ४५१ चेव बहुविहीयं भरहं नगनगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंबाहपट्टणसहस्सपरिमंडियं थिमियमेइणीयं एगच्छत्तं ससागरं भुंजिऊण वसुहं अपरिमियमनततण्हमणुगयमहिच्छसारनिरयमूलो -लोभकलिकसायमहक्खंधो चिंतासयनिचियविपुलसालो गारवपविरल्लियग्गविडवो नियडितयापत्तपल्लवधरो पृष्फफलं जस्स कामभोगा आयासविसरणाकलहपकंपियग्गसिहरो नरवतिसंपूजितो बहुजणस्स हिययदइओ इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूओ चरिमं अहम्मदारं। वृ. 'जंबू'इत्यादि, जम्बूरिति शिष्यामन्त्रणं, एत्तो'त्तिइतश्चतुर्थाश्रवद्वारादनन्तरंपरिग्रहणं परिगृह्यत इति वा परिग्रहः, इह च परिग्रहशब्दोपादानेऽपि वक्ष्यमाणविशेषणान्यथानुपपत्त्या परिग्रहतरुरिति द्रष्टव्यं, पञ्चमस्तु-पञ्चमः पुनराश्रवो भवतीति गम्यते, पञ्चमत्वं चास्य सूत्रकमाश्रयणात्, नियमात्--निश्चयेन नान्यः पञ्चमत्वमाश्रवाणां मध्ये लभते, कथंभूतोऽसावित्याह 'नानामणी त्यादि, तत्रनानामण्यादिविधिं भारतंवसुधांच भुक्त्वापियाअपिरिमिताऽनन्ता तृष्णा अनुगता च महेच्छा सैव मूलं यस्य परिग्रहतरोः स तथेथि सम्बन्धः, तत्र नानाविधा ये मणयः-चन्द्रकान्ताद्याःकनकंच-सुवर्ण रलानिच-कर्केतनादीनि महार्हपरिमलाः-महार्हसुगन्धद्रव्यामोदा ये सपुत्रदाराः-सुतयुक्तकलत्राणितेच परिजनश्च-परिवारः दासीदासाश्च-चेटीचेटाः भूतकाश्च कर्मकराः प्रेष्याश्च-प्रयोजनेष प्रेषणीयाः हयगजगोमहिषउष्ट्रखरअ-जगवेलकाश्च प्रतीताः शिबिकाश्च-कूटाच्छादितजम्पानविशेषाः शकटानिच-गन्यः रथाश्च-प्रतीताः यानानि च-गन्त्रीविशेषा; युग्यानिच-वाहनानि गोल्लदेशप्रसिद्धजम्पानविशेषाः स्यन्दनाश्च-रथविशेषाः शयनासनानि च प्रतीतानि वाहनानि च-यानपात्राणि ___'कुविय'त्ति कुप्यानिच गृहोपस्कराः खट्वा-तूल्यादयः धनानिचगणिमादीनि धान्यपान भोजनाच्छादनगन्धमाल्यभाजनभवनानि च प्रतीतानीति द्वन्द्वस्ततस्तेषां विधिः-कार्यसाध्यमिति तत्पुरुषः अतस्तंचैव बहुविधिकं अनेकप्रकारं, तथा भरतं-क्षेत्रविशेषनगाः-पर्वताः नगराणिकरवर्जितानिनिगमा वणिजांस्थानानिजनपदा-देशाः पुरवराणि-नगरैकदेशभूतानि द्रोणमुखानिजलस्थलपथोपेतानि खेटानि-धूलीप्राकारोपेतानि कर्बटानि-कुनगराणि मडम्बानिदूरस्थवसिमान्तराणि संवाहाः-स्थापन्यः पत्तनानि-जलस्थलपथयोरन्यतरयुक्तानि तेषां यानि सहाणि तैर्मण्डितं यत्तत्तथा,-- -स्तिमितमेदिनीकं-निर्भयमेदिनीनिवासिजनं एकच्छत्रं एकराजकमित्यर्थः ससागरं समुद्रान्तमित्यर्थः भुक्त्वापरिभुज्य तथा वसुधां-पृथिवीं भरतैकदेशभूतांच भुक्त्वा एतद्भोगेऽपीत्यर्थः 'अपरिमियमणंतण्हमणुगयमहेच्छसारनिरयमूलो'त्ति अपरिमितानंता-अत्यन्तानन्ता तृष्णा-प्राप्तार्थसंरक्षणरूपा या चानुगता-सन्तता महती चेच्छा-अप्राप्ताभिलाषरूपा ते एव साराणि--अक्षय्याणि निरयानि-निर्गतशुभफलानि मूलानि-जटा यस्य परिग्रहतरोः अथवा अपरिमिताऽनंततृष्णया या अनुगता महेच्छा सारा निरयाच-नरकहेतुर्विशिष्टवेगा वा सैव मूलं यस्य स तथा, इह च मकारौ प्राकृतशैलीप्रभवौ एवंविधसमासश्चेति, लोभः प्रतीतः कलिः-सङ्ग्रामः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy