SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ४३६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ च तेषां सम्बन्धि यत् मरीचिकवचमिति सम्बन्धः, किम्भूतं ? - सूरमण्डलस्य - आदित्यमण्डलस्य वितिमिरा - विहतान्धकारा ये कराः - किरणा निर्गता-अवपतिताः ते प्रतिहताः - प्रतिस्खलिताः सन्तः प्रत्यवपतन्तः- प्रतिनिवर्त्तमाना यतः तत्तथा तच्च तच्चञ्चलमरीचिकवचं चेति समासः तद् विनिर्मुञ्चद्मिरित्यधिकृतवाचनातोऽर्गलं, सप्रतिदण्डैरिति गुरुत्वादेकदण्डेन धारयितुमशक्यत्वेन प्रतिदण्ढोपेतैः आतपत्रैध्रियमाणैर्विराजमाना इति व्यक्तं, , तथा 'ताहि य'त्ति तैश्चातिशयवद्मिश्चमारैः कलिता इति सम्बन्धः किम्भूतैः ? - प्रवरहगिरेर्यत्कुहरं तत्र द्विहरणं - विचरणं गवामिति गम्यते तत्र समुद्ध तानि - उत्क्षिप्तानि कण्टकशाखिलगनभयात् यानि तानि तथा तैश्चामरैरिति प्रकृतं, सूत्रे तु चामरशब्दस्य स्त्रीलिङ्गत्वेन विवक्षितत्त्वात् स्त्रीलिङ्गनिर्देशः कृत इति, निरुपहतं- नीरोगं यच्चमरीणां - गोविशेषाणां पश्चिमशरीरं - देहपश्चाद्भागः तत्र सञ्जातानि यानि तानि तथा तैः 'अमइल' त्ति अमलिनं पाठान्तरेणाऽSमलितं- आमृदितं यत् सितकमलं पुण्डरीकं विमुकुलं च विकसितं उज्ज्वलितं च--दीप्तं यद्रजतगिरिशिखरं विमलाश्च ये शशिनः किरणास्तत्सध्शानि वर्णतो यानि तानि तथा, कलधौतवद्-रजतवन्निर्मलानि यानि तानि तथा, ततः कर्मधारयस्ततस्तैः, पवनाहतोवायुताडितः सन् चपलं यथा भवत्येवं चलितः सललितं प्रवृत्त इव सललितप्रवृत्तः वीचिभिः प्रसृतक्षीरोदकप्रवरसागरस्य य उत्पूगे- जलप्लवः स तथा तद्वचञ्चलानि यानि तानि तथा तैः, चामराण्येव हंसवधूभिः उपमयन्नाह-मानसाभिधानस्य सरसः प्रसरे - विस्तारे परिचितः - अभ्यस्त आवासो निवासो विशदश्चधवलो वेषो - नेपथ्यमाकारो यासां तास्तथा ताभिः, कनकगिरिशिखरसंश्रिताभिरिति व्यक्तं, अवपातोत्पातयोः - अधोगमनोध्वगमनयोः 'चवलजइण' त्ति चपलवस्त्वन्तरजयी शीघ्रो वेगो यासां तास्तथा ताभिर्हंसवधूभिरिव - हंसिकभिरिव कलिताः - युक्ता वासुदेवबलदेवा इति प्रक्रमः पुनरपि किम्भूतैः चामरैः ? -नानामणयः - चन्द्रकान्ताद्याः कनकं च-पीतवर्णं सुवर्णं महान् अर्हः - अर्धी यस्य तन्महार्हं तपनीयं - रक्तवर्णं सुवर्णं एतेषामुज्ज्वलविचित्रा दण्डा येषां तानि तथा तैः, - - - इह च हंसवधूनां विशदवेषताभणनेन कनकगिरिशिखरसंश्रितत्व भणनेनोत्पातनिपातभणनेन च मणिकनकदण्डाश्रितधवलचञ्चचामरोपमानतोक्तेति, सललितैः - लालित्ययुक्तैः नरपति श्रीसमुदयप्रकाशनकरैः, राजलक्ष्मीसमुदायो हि तैर्लक्ष्यते, वरपत्त नोद्गतैः, पत्तनविशेषनिर्मितं हि शिल्पिविशेषात् प्रधानं भवति, अथवा वरपत्तनाद् - वराच्छादनकोशकादुद्गतानि - निर्गतानि यानि तानि तथा तैः, - समृद्धराजकुलसेवितैः, असमृद्धराजकुलस्य तु तद्योग्यतापि न भवति, कालागुरुःकृष्णागुरुः प्रवरकुन्दरुक्कं- प्रधानचीडा तुरुक्कं-सिल्हकं एतल्लक्षणो यो धूपस्तद्वशेन यो वासोवासना तेन विशद :- स्पष्टो गन्धो - गुणविशेषः उद्भूत उद्भूतोऽभिरामो- रम्यो येषां तानि तथा तैः, 'चिल्लिकाहिं 'ति लीनैः दीप्यमानैर्वा 'उभयोपासंपि त्ति उभयोरपि पार्श्वयोः 'चामराहिं उक्खिप्पमाणाहिं' ति प्रकीर्णकैरुत्क्षिप्यमाणैरित्यर्थः, कलित इति प्रकृतं, तथा सुखशीलवातेन चामराणामेव वीजीतानि अङ्गानि येषां ते तथा, अजिता अजितरथा इति प्रतीतं, हलं मुशलं च प्रतीते, कणकाश्च- बाणाः पाणौ हस्ते येषां ते तथा, इदं च बलदेवापेक्षया विशेषणं, शङ्खः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy