SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ४३४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥" इत्यादि, मानोन्मानादिकं वक्ष्यमाणं व्यञ्जनं-तिलकमषादि तयोर्यो गुणः-प्रशस्तत्वं तेनोपेता येते तथा, लक्षणव्यञ्जनस्वरूपमिदं॥१॥ "मानम्मानपमाणादि लक्खणं वंजणं तुमसमाई। सहजं च लक्खणं वंजणं तु पच्छा समुप्पण्णं ।।" तथा मानोन्मानप्रमाणैः प्रतिपूर्णानमि सुजातानि सर्वाण्यङ्गानि-अवयवा यत्र तदेवंविधं सुन्दरमङ्ग-शरीरं येषां ते तथा, तत्र मानं-जलद्रोणप्रमाणता, सा चैवं-जलभृतकुण्डे प्रभातव्ये पुरुषे उपवेशिते यजलंततो निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा सपुरुषोमनोपपन्न इत्युच्यते, उन्मानंतु तुलारोपितस्यार्द्धभारप्रमाणता, प्रमाणपुनरात्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, उक्तंच॥१॥ “जलदोण १ अद्धभारं २ समुहाई समूसिओ व जो नव उ । माणुम्माणमाणं तिविहं खलु लक्खणं एयं ।।" त्ति, मुखस्य द्वादशाङ्गलायमत्वातनवभिर्मुखैरष्टोत्तरमङ्गुलशतं भवतीति,शशिवत्सौम्य आकारः कान्तं-कमनीयं प्रियं-प्रेमावहंदर्शनं येषांतेतथा 'अमरिसण'त्ति अमर्षणा अपराधा-सहिष्णवः अमसृणावा-कार्येष्वनलसाःप्रचण्डःप्रकाण्डोवादुःसाध्यसाधकत्वाद्दण्डप्रचार:-सैन्यविचरणं दण्डप्रकारो वा-आज्ञाविशेषो येषां ते तथा गम्भीराःअलक्ष्यमाणान्तवृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः, ततः कर्मधारयः, तालो-वृक्षविशेषोध्वजः-केतुर्येषांतेतता उद्विद्धः-उच्छ्रितः गरुडः केतुर्येषांतेतथा ततो द्वन्द्वस्तस्ते क्रमेण रामकेशवाः 'बलवग'त्ति बलवन्तं गर्जन्तं-कोऽस्माकं प्रतिमलल्ल? इत्येवंशब्दायमानं दप्तानामपि मध्ये दर्पित-सातदर्प मौष्टिक-मौष्टिकाभिधानं मल्लं चाणूरं-जाणूराभिधानं मल्लमेव कंसराजसम्बन्धिनं मूरयन्ति-चूर्णयन्ति ये ते तथा, तत्र किल मल्लयुद्धे कृष्णवधार्थं कसेनारब्धे बलदेवेन मुशष्टिकमल्लो वासुदेवेन चाणूरमल्लो मारित इति, एवमन्यान्यपीतः कानिचिद्विशेषणानि अन्तिमी बलदेववासुदेववाश्रित्याधीतानि, रिष्ठवृषभघातिनः-कंसराजसत्करिष्ठाभिधानदप्तदुष्टमहावृषभमारकाः केसरिमुखविस्फाटकाः इदंचविशेषणं प्रथमवासुदेवमाश्रित्याधीतं, सहि किल त्रिपृष्ठाभिधानजनपदोपद्रवकारिणंविषमगिरिगुहावासिनं महाकेसरिणं उत्तराधरोष्ठग्रहणेन विदारयामासेति, इदं च विशेषणं द्वितीयव्याख्यायामेव घटते, प्रथमव्याखयानपक्षे पुनरेवं पाठः, केसिमुहविष्फडग'त्ति तत्र केश्यभिधानः कसकसत्को दुष्टोऽश्वस्तन्मुखं च कृष्णः कूपरप्रक्षेपेण विदारितवानिति, प्तनागदप्मथना इदं च कृष्णामाश्रित्याधीतं, स हि किल यमुनाड्दवासिनं घोरविषं महानागं पद्मग्रहणार्थं ह्रदेऽवतीर्यं निर्मथितवान्, यमलार्जुनभन्नका इदमपि तमेवाश्रित्याधीतं, स हि पित-वैरिणौ विद्याधरौ रथारूढस्य गच्छतो मारणार्थं पथि विकुर्वितयमलार्जुनवृक्षरूपौ सरथस्य मध्येन गच्छतचूर्णनप्रवृत्तौ हतवान्, महाशकुनिपूतनारिपवः इदमपि तथैव कृष्णपित-वैरिण्योर्महाशकुनिपूतनाभिधानयोर्विद्याधरयोषितोः विकुर्वितगन्त्रीरूपयोः गन्त्रीसमारोपितबालावस्थकृष्णयोः कृषणपक्षपातिदेवतया विनिपातितत्वात्, कंसमुकुटमोटका इदमपि तथैव, यतः कृष्णेन मल्लयुद्धे विनिपातितचाणूरमल्लेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy