SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ द्वार-१, अध्ययनं-४, ॥१॥ "दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यत्रास्ति तत्पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवाना रोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ।।" ९ -मनःसंक्षोभः-चित्तचलनं तद्विनेदं च जायते इति तदेवोच्यते, उच्यते च॥१॥ “निक्कडकडक्खकंडप्पहारनिमिन्नजोगसन्नाहा ! महरिसिजोहा जुवईण जंति सेवं विगयमोहा ।।" उपशान्तमोहा अपि] १० अविग्नहः-अनिषेधोमनसो विषयेषुप्रवर्तमानस्येति गम्यते, एतव्यभवत्वाचास्यनिग्रह इत्युक्तं ११ विग्गहो'त्ति विग्रह:-कलहः तद्धेतुत्वादस्य विग्रह इत्युच्यते, उक्तं च॥१२॥ "ये रामरावणादीनां, सङ्ग्रामा ग्रस्तमानवाः। श्रूयन्ते स्त्रीनिमित्तेन, तेषु कामो निबन्धनम् ॥" अथवा 'वुग्गहो'त्ति व्युद्ग्रहो-विपरीतोऽभिनिवेशस्तत्प्रभवतत्वाच्चास्य तथैवोच्यते, यतः कामिनादिदं स्वरूपम्॥१॥ “दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपङ्कितरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ।।" -विधातो गुणानामिति गम्यते, यदाह॥१॥ “जइ ठाणी' जइ मोणी जइ मुंडी वक्कली तवस्सी वा । पत्थंतो अ अबंभं बंभाविन रोयए मज्झं।। ॥२॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडियपेल्लियामंतिओऽवि जइ न कुणइ अकजं ।।" गाथाद्वयं १३ विभङ्गो--विराधना गुणानामेव १४ विभ्रमो-भ्रान्तत्वमनुपादेयेष्वपि विषयेषु परमार्थबुद्धया प्रवर्तनात् विभ्रमाणां वा-मदनविकाराणामाश्रयत्वाद्वभ्रम इति १५ अधर्मः अचारित्ररूपत्वात् १६अशीलता-चारित्रवर्जितत्वम् १७ ग्रामधाः -शब्दादयः कामगुणास्तेषां तप्तिः-गवेषणं पालनं वा ग्रामधर्मतप्तिः अब्रह्मपरो हि तां करोतीति अब्रह्मापि तथोच्यते १८ रतिः-रतं निधुवनमित्यर्थः १८ रागो-रागानुभूतिरूपत्वादस्य क्वचिद्रागचिन्तेतिपाठः २० कामभोगैः सहमारो-मदनः मरणंवा कामभोगमारः२१ वैरंवैरहेतुत्वात् २२ रहस्यमेकान्तकृत्यत्वात् २३ हुग्यं गोपनीयत्वात् २४ बहुमानः बहूनां मतत्वात् २५ ब्रह्मचर्य-मैथुनविरमणं तस्य विघ्नो-व्याघातो यः स तथा २६ व्यापत्तिः-भ्रंशो गुणानामिति गम्यते २७ एवं विराधना २८ प्रसङ्ग:-कामेषु प्रसजनमभिष्वङ्गः २९ कामगुणो-मकरकेतुकार्य ३० इतिः-उपप्रदर्शनेऽपिचेति समुच्चये तस्य-अब्रह्मणः एतानि-उपदर्शितस्वरूपाणि एवमादीनि-एवंप्रकाराणि नामधेयानि त्रिंशत् भवन्ति, काक्वाऽध्येयं, प्रकारान्तरेण पुनरन्यान्यपि भवन्तीति भावः । उक्तं यत्रामेति द्वारं, अथ ये तत् कुर्वन्तीति द्वारमुच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy